अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ 1 ॥
तत्कर्णिकारं तद्धाम तदनन्ताशसम्भवम् ॥ 2 ॥
षडङ्ग षट्पदीस्थानं प्रकृत्या पुरुषेण च ।
प्रेमानन्दमहानन्दरसेनावस्थितं हि यत्
ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥ 3 ॥
चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ।
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् ।
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ।
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा ।
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ।
श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः ।
शोभितं शक्तिभिस्ताभिरद्भुताभिः समन्ततः ॥ 5 ॥
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ 6 ॥
आत्मना रमया रेमे त्यक्तकालं सिसृक्षया ॥ 7 ॥
तल्लिङ्गं भगवान् शम्भुर्जोतिरूपः सनातनः ।
या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ 8 ॥
तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ 10 ॥
सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ 11 ॥
आविरासीत्कारणार्णो निधिः सङ्कर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ 12 ॥
हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ 13 ॥
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ 14 ॥
ज्योतिर्लिङ्गमयं शम्भुं कूर्चदेशादवासृजत् ॥ 15 ॥
योगनिद्रा भगवती तस्य श्रीरिव सङ्गता ॥ 17 ॥
तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ 18 ॥
समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् ।
चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः ।
योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ 19 ॥
गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ 20 ॥
तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ 22 ॥
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥ 23 ॥
कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥ 24 ॥
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ।
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसम्पन्ने कोटिकिञ्जल्कबृंहिते ।
भूमिश्चिन्तामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानन्दं ज्योतिरूपं सनातनम् ।
शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ 26 ॥
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ।
गायत्रीं गायतस्तस्मादधिगत्य सरोजजः ।
संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ 27 ॥
तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ 28 ॥
लक्षावृतेषु सुरभीरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 29 ॥
बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 30 ॥
-रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 31 ॥
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ 32 ॥
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविन्दमादिपुरुषं तमहं भजामि ॥ 33 ॥
वायोरथापि मनसो मुनिपुङ्गवानाम् ।
सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे
गोविन्दमादिपुरुषं तमहं भजामि ॥ 34 ॥
यच्छक्तिरस्ति जगदण्डचया यदन्तः ।
अण्डान्तरस्थपरमाणुचयान्तरस्थं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 35 ॥
सम्प्राप्य रूपमहिमासनयानभूषाः ।
सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति
गोविन्दमादिपुरुषं तमहं भजामि ॥ 36 ॥
-स्ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 37 ॥
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 38 ॥
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 39 ॥
-कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 40 ॥
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 41 ॥
यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 42 ॥
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविन्दमादिपुरुषं तमहं भजामि ॥ 43 ॥
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविन्दमादिपुरुषं तमहं भजामि ॥ 44 ॥
सञ्जायते न हि ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्या-
-द्गोविन्दमादिपुरुषं तमहं भजामि ॥ 45 ॥
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविन्दमादिपुरुषं तमहं भजामि ॥ 46 ॥
-निद्रामनन्तजगदण्डसरोमकूपः ।
आधारशक्तिमवलम्ब्य परां स्वमूर्तिं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 47 ॥
जीवन्ति लोमबिलजा जगदण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 48 ॥
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदण्डविधानकर्ता
गोविन्दमादिपुरुषं तमहं भजामि ॥ 49 ॥
-द्वन्द्वे प्रणामसमये स गणाधिराजः ।
विघ्नान् विहन्तुमलमस्य जगत्त्रयस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ 50 ॥
कालस्तथात्ममनसीति जगत्त्रयाणि ।
यस्माद्भवन्ति विभवन्ति विशन्ति यं च
गोविन्दमादिपुरुषं तमहं भजामि ॥ 51 ॥
राजा समस्तसुरमूर्तिरशेषतेजाः ।
यस्याज्ञया भ्रमति सम्भृतकालचक्रो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 52 ॥
ब्रह्मादिकीटपतगावधयश्च जीवाः ।
यद्दतमात्रविभवप्रकटप्रभावा
गोविन्दमादिपुरुषं तमहं भजामि ॥ 53 ॥
-बन्धानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किन्तु च भक्तिभाजां
गोविन्दमादिपुरुषं तमहं भजामि ॥ 54 ॥
-वात्सल्यमोहगुरुगौरवसेव्यभावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते
गोविन्दमादिपुरुषं तमहं भजामि ॥ 55 ॥
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ 56 ॥
ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः ।
पञ्चश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ 57 ॥
उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ 58 ॥
बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ 59 ॥
या साधयति मामेव भक्तिं तामेव साधयेत् ॥ 60 ॥
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।
कुर्वन्निरन्तरं कर्म लोकोऽयमनुवर्तते ।
तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ 61 ॥
बीजं प्रधानं प्रकृतिः पुमांश्च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वमथो जगन्ति ॥ 62 ॥
