Lord Krishna

ब्रह्म संहिता

(Brahma Samhita)

Lord Brahma

The Brahma Samhita is a foundational Vaishnava text consisting of prayers chanted by Lord Brahma to the Supreme Personality of Godhead, Krishna. Revealed during the initial act of creation, these verses encapsulate the profound philosophy of Gaudiya Vaishnavism, detailing the nature of the spiritual world, the attributes of the Divine, and the hierarchy of cosmic manifestations. The text is celebrated for its poetic beauty and metaphysical depth, offering devotees a meditative glimpse into the eternal form of Krishna. Chanting these verses is believed to bestow spiritual insight, remove ignorance, and foster deep devotion towards the Supreme.

ईश्वरः परमः कृष्णः सच्चिदानन्दविग्रहः ।
अनादिरादिर्गोविन्दः सर्वकारणकारणम् ॥ 1 ॥
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् ।
तत्कर्णिकारं तद्धाम तदनन्ताशसम्भवम् ॥ 2 ॥
कर्णिकारं महद्यन्त्रं षट्कोणं वज्रकीलकम्
षडङ्ग षट्पदीस्थानं प्रकृत्या पुरुषेण च ।
प्रेमानन्दमहानन्दरसेनावस्थितं हि यत्
ज्योतीरूपेण मनुना कामबीजेन सङ्गतम् ॥ 3 ॥
तत्किञ्जल्कं तदंशानां तत्पत्राणि श्रियामपि ॥ 4 ॥
चतुरस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् ।
चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् ।
चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् ।
शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि ।
अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा ।
मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् ।
श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः ।
शोभितं शक्तिभिस्ताभिरद्भुताभिः समन्ततः ॥ 5 ॥
एवं ज्योतिर्मयो देवः सदानन्दं परात्परः ।
आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ 6 ॥
माययाऽरममाणस्य न वियोगस्तया सह ।
आत्मना रमया रेमे त्यक्तकालं सिसृक्षया ॥ 7 ॥
नियतिः सा रमादेवी तत्प्रिया तद्वशं तदा ।
तल्लिङ्गं भगवान् शम्भुर्जोतिरूपः सनातनः ।
या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ 8 ॥
लिङ्गयोन्यात्मिका जाता इमा माहेश्वरी प्रजाः ॥ 9 ॥
शक्तिमान् पुरुषः सोऽयं लिङ्गरूपी महेश्वरः ।
तस्मिन्नाविरभूल्लिङ्गे महाविष्णुर्जगत्पतिः ॥ 10 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ 11 ॥
नारायणः स भगवानापस्तस्मात्सनातनात् ।
आविरासीत्कारणार्णो निधिः सङ्कर्षणात्मकः ।
योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ 12 ॥
तद्रोमबिल जालेषु बीजं सङ्कर्षणस्य च ।
हैमान्यण्डानि जातानि महाभूतावृतानि तु ॥ 13 ॥
प्रत्यण्डमेवमेकांशादेकांशाद्विशति स्वयम् ।
सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ 14 ॥
वामाङ्गादसृजद्विष्णुं दक्षिणाङ्गात्प्रजापतिम् ।
ज्योतिर्लिङ्गमयं शम्भुं कूर्चदेशादवासृजत् ॥ 15 ॥
अहङ्कारात्मकं विश्वं तस्मादेतद्व्यजायत ॥ 16 ॥
अथ तैस्त्रिविधैर्वेशैर्लीलामुद्वहतः किल ।
योगनिद्रा भगवती तस्य श्रीरिव सङ्गता ॥ 17 ॥
ससृक्षायां ततो नाभेस्तस्य पद्मं विनिर्ययौ ।
तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ 18 ॥
तत्त्वानि पूर्वरूढानि कारणानि परस्परम् ।
समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् ।
चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः ।
योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ 19 ॥
योजयित्वा तु तान्येव प्रविवेश स्वयं गुहाम् ।
गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ 20 ॥
स नित्यो नित्यसम्बन्धः प्रकृतिश्च परैव सा ॥ 21 ॥
एवं सर्वात्मसम्बन्धं नाभ्यां पद्मं हरेरभूत् ।
तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ 22 ॥
स जातो भगवच्छक्त्या तत्कालं किल चोदितः ।
सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः ।
ददर्श केवलं ध्वान्तं नान्यत्किमपि सर्वतः ॥ 23 ॥
उवाचपुरतस्तस्मै तस्य दिव्या सरस्वती ।
कामः कृष्णाय गोविन्द हे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥ 24 ॥
तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ 25 ॥
अथ तेपे स सुचिरं प्रीणन् गोविन्दमव्ययम् ।
श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् ।
प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् ।
सहस्रदलसम्पन्ने कोटिकिञ्जल्कबृंहिते ।
भूमिश्चिन्तामणिस्तत्र कर्णिकारे महासने ।
समासीनं चिदानन्दं ज्योतिरूपं सनातनम् ।
शब्दब्रह्ममयं वेणुं वादयन्तं मुखाम्बुजे ।
विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ 26 ॥
अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः ।
स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ।
गायत्रीं गायतस्तस्मादधिगत्य सरोजजः ।
संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ 27 ॥
त्रय्या प्रबुद्धोऽथ विधिर्विज्ञाततत्त्वसागरः ।
तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ 28 ॥
चिन्तामणिप्रकरसद्मसु कल्पवृक्ष
लक्षावृतेषु सुरभीरभिपालयन्तम् ।
लक्ष्मीसहस्रशतसम्भ्रमसेव्यमानं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 29 ॥
वेणुं क्वणन्तमरविन्ददलायताक्षं
बर्हावतंसमसिताम्बुदसुन्दराङ्गम् ।
कन्दर्पकोटिकमनीयविशेषशोभं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 30 ॥
आलोलचन्द्रकलसद्वनमाल्यवंशी-
-रत्नाङ्गदं प्रणयकेलिकलाविलासम् ।
श्यामं त्रिभङ्गललितं नियतप्रकाशं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 31 ॥
अङ्गानि यस्य सकलेन्द्रियवृत्तिमन्ति
पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति ।
आनन्दचिन्मयसदुज्ज्वलविग्रहस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ 32 ॥
अद्वैतमच्युतमनादिमनन्तरूपं
आद्यं पुराणपुरुषं नवयौवनं च ।
वेदेषु दुर्लभमदुर्लभमात्मभक्तौ
गोविन्दमादिपुरुषं तमहं भजामि ॥ 33 ॥
पन्थास्तु कोटिशतवत्सरसम्प्रगम्यो
वायोरथापि मनसो मुनिपुङ्गवानाम् ।
सोऽप्यस्ति यत्प्रपदसीम्न्यविचिन्त्यतत्त्वे
गोविन्दमादिपुरुषं तमहं भजामि ॥ 34 ॥
एकोऽप्यसौ रचयितुं जगदण्डकोटिं
यच्छक्तिरस्ति जगदण्डचया यदन्तः ।
अण्डान्तरस्थपरमाणुचयान्तरस्थं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 35 ॥
यद्भावभावितधियो मनुजास्तथैव
सम्प्राप्य रूपमहिमासनयानभूषाः ।
सूक्तैर्यमेव निगमप्रथितैः स्तुवन्ति
गोविन्दमादिपुरुषं तमहं भजामि ॥ 36 ॥
आनन्दचिन्मयरसप्रतिभाविताभि-
-स्ताभिर्य एव निजरूपतया कलाभिः ।
गोलोक एव निवसत्यखिलात्मभूतो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 37 ॥
प्रेमाञ्जनच्छुरितभक्तिविलोचनेन
सन्तः सदैव हृदयेषु विलोकयन्ति ।
यं श्यामसुन्दरमचिन्त्यगुणस्वरूपं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 38 ॥
रामादिमूर्तिषु कलानियमेन तिष्ठन्
नानावतारमकरोद्भुवनेषु किन्तु ।
कृष्णः स्वयं समभवत्परमः पुमान् यो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 39 ॥
यस्य प्रभा प्रभवतो जगदण्डकोटि-
-कोटिष्वशेषवसुधादि विभूतिभिन्नम् ।
तद्ब्रह्म निष्कलमनन्तमशेषभूतं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 40 ॥
माया हि यस्य जगदण्डशतानि सूते
त्रैगुण्यतद्विषयवेदवितायमाना ।
सत्त्वावलम्बिपरसत्त्वं विशुद्धसत्त्वं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 41 ॥
आनन्दचिन्मयरसात्मतया मनःसु
यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य ।
लीलायितेन भुवनानि जयत्यजस्रं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 42 ॥
गोलोकनाम्नि निजधाम्नि तले च तस्य
देवि महेशहरिधामसु तेषु तेषु ।
ते ते प्रभावनिचया विहिताश्च येन
गोविन्दमादिपुरुषं तमहं भजामि ॥ 43 ॥
सृष्टिस्थितिप्रलयसाधनशक्तिरेका
छायेव यस्य भुवनानि बिभर्ति दुर्गा ।
इच्छानुरूपमपि यस्य च चेष्टते सा
गोविन्दमादिपुरुषं तमहं भजामि ॥ 44 ॥
क्षीरं यथा दधि विकारविशेषयोगात्
सञ्जायते न हि ततः पृथगस्ति हेतोः ।
यः शम्भुतामपि तथा समुपैति कार्या-
-द्गोविन्दमादिपुरुषं तमहं भजामि ॥ 45 ॥
दीपार्चिरेव हि दशान्तरमभ्युपेत्य
दीपायते विवृतहेतुसमानधर्मा ।
यस्तादृगेव हि च विष्णुतया विभाति
गोविन्दमादिपुरुषं तमहं भजामि ॥ 46 ॥
यः कारणार्णवजले भजति स्म योग-
-निद्रामनन्तजगदण्डसरोमकूपः ।
आधारशक्तिमवलम्ब्य परां स्वमूर्तिं
गोविन्दमादिपुरुषं तमहं भजामि ॥ 47 ॥
यस्यैकनिश्वसितकालमथावलम्ब्य
जीवन्ति लोमबिलजा जगदण्डनाथाः ।
विष्णुर्महान् स इह यस्य कलाविशेषो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 48 ॥
भास्वान् यथाश्मशकलेषु निजेषु तेजः
स्वीयं कियत्प्रकटयत्यपि तद्वदत्र ।
ब्रह्मा य एष जगदण्डविधानकर्ता
गोविन्दमादिपुरुषं तमहं भजामि ॥ 49 ॥
यत्पादपल्लवयुगं विनिधाय कुम्भ-
-द्वन्द्वे प्रणामसमये स गणाधिराजः ।
विघ्नान् विहन्तुमलमस्य जगत्त्रयस्य
गोविन्दमादिपुरुषं तमहं भजामि ॥ 50 ॥
अग्निर्मही गगनमम्बु मरुद्दिशश्च
कालस्तथात्ममनसीति जगत्त्रयाणि ।
यस्माद्भवन्ति विभवन्ति विशन्ति यं च
गोविन्दमादिपुरुषं तमहं भजामि ॥ 51 ॥
यच्चक्षुरेष सविता सकलग्रहाणां
राजा समस्तसुरमूर्तिरशेषतेजाः ।
यस्याज्ञया भ्रमति सम्भृतकालचक्रो
गोविन्दमादिपुरुषं तमहं भजामि ॥ 52 ॥
धर्मोऽथ पापनिचयः श्रुतयस्तपांसि
ब्रह्मादिकीटपतगावधयश्च जीवाः ।
यद्दतमात्रविभवप्रकटप्रभावा
गोविन्दमादिपुरुषं तमहं भजामि ॥ 53 ॥
यस्त्विन्द्रगोपमथवेन्द्रमहो स्वकर्म-
-बन्धानुरूपफलभाजनमातनोति ।
कर्माणि निर्दहति किन्तु च भक्तिभाजां
गोविन्दमादिपुरुषं तमहं भजामि ॥ 54 ॥
यं क्रोधकामसहजप्रणयादिभीति-
-वात्सल्यमोहगुरुगौरवसेव्यभावैः ।
सञ्चिन्त्य तस्य सदृशीं तनुमापुरेते
गोविन्दमादिपुरुषं तमहं भजामि ॥ 55 ॥
श्रियः कान्ताः कान्तः परमपुरुषः कल्पतरवो
द्रुमा भूमिश्चिन्तामणिगणमयि तोयममृतम् ।
कथा गानं नाट्यं गमनमपि वंशी प्रियसखि
चिदानन्दं ज्योतिः परमपि तदास्वाद्यमपि च ।
स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान्
निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः ।
भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं
विदन्तस्ते सन्तः क्षितिविरलचाराः कतिपये ॥ 56 ॥
अथोवाच महाविष्णुर्भगवन्तं प्रजापतिम् ।
ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः ।
पञ्चश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ 57 ॥
प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानन्दचिन्मयी ।
उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ 58 ॥
प्रमाणैस्तत् सदाचारैस्तदभ्यासैर्निरन्तरम् ।
बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ 59 ॥
यस्याः श्रेयस्करं नास्ति यया निर्वृतिमाप्नुयात् ।
या साधयति मामेव भक्तिं तामेव साधयेत् ॥ 60 ॥
धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् ।
यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी ।
कुर्वन्निरन्तरं कर्म लोकोऽयमनुवर्तते ।
तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ 61 ॥
अहं हि विश्वस्य चराचरस्य
बीजं प्रधानं प्रकृतिः पुमांश्च ।
मयाहितं तेज इदं बिभर्षि
विधे विधेहि त्वमथो जगन्ति ॥ 62 ॥
इति श्री ब्रह्म संहिता सम्पूर्णम् ।

Explore More