श्रीपाद श्रीवल्लभ स्तोत्रम्
ब्राह्मण्यै यो मङ्क्षु भिक्षान्नतोभू-
-त्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ १ ॥
-त्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ १ ॥
आश्वास्याम्बां प्रव्रजन्नग्रजान्यः
कृत्वा स्वङ्गान् सञ्चरार्यमान्यः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ २ ॥
कृत्वा स्वङ्गान् सञ्चरार्यमान्यः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ २ ॥
सार्भां भर्तुं योद्यता स्त्रीस्तु तस्या
दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ३ ॥
दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ३ ॥
राज्यं योऽदादाशु निर्णेजकाय
प्रीतो नत्या यः स्वगुप्त्यै नृकायः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ४ ॥
प्रीतो नत्या यः स्वगुप्त्यै नृकायः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ४ ॥
प्रेतं विप्रं जीवयित्वाऽस्तजूतिं
यश्चक्रे दिक्शालिनीं स्वीयकीर्तिम् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ५ ॥
यश्चक्रे दिक्शालिनीं स्वीयकीर्तिम् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ
श्रीपादद्रौ वापदाहानिदद्रौ ॥ ५ ॥
इति श्रीवासुदेवानन्दसरस्वती विरचितं श्रीपादश्रीवल्लभ स्तोत्रम् ।

