अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्।
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥
यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥
सापराधोऽस्मि शरणां प्राप्तस्त्वां जगदम्बिके।
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥2॥
इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥2॥
अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं।
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥
तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥
कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे।
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ॥4॥
गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी ॥4॥
सर्वरूपमयी देवी सर्वं देवीमयं जगत्।
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ॥5॥
अतोऽहं विश्वरूपां त्वां नमामि परमेश्वरीं ॥5॥
पूर्णं भवतु तत् सर्वं त्वत्प्रसादान्महेश्वरी
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्। ॥6॥
यदत्र पाठे जगदम्बिके मया विसर्गबिन्द्वक्षरहीनमीरितम्। ॥6॥
तदस्तु सम्पूर्णतं प्रसादतः सङ्कल्पसिद्धिश्च सदैव जायतां॥7॥
भक्त्याभक्त्यानुपूर्वं प्रसभकृतिवशात् व्यक्तमव्यक्तमम्ब ॥8॥
तत् सर्वं साङ्गमास्तां भगवति त्वत्प्रसादात् प्रसीद ॥9॥
प्रसादं कुरु मे देवि दुर्गेदेवि नमोऽस्तुते ॥10॥
॥इति अपराध क्षमापण स्तोत्रं समाप्तं॥