Goddess Lalita Tripurasundari

श्रीदेवी खड्गमालास्तोत्ररत्नम्

(Khadgamala.json)

Traditional

The Devi Khadgamala Stotram is a profound liturgical text central to Sri Vidya tantra, serving as the essential manual for the ritualistic worship of Sri Lalita Tripurasundari. It represents the 'garland of weapons' (Khadgamala) held by the Goddess, mapping the nine enclosures (avaranas) of the Sri Yantra. By reciting this stotra, the practitioner mentally invokes and invites the various deities of the Sri Chakra, aligning their internal consciousness with the cosmic hierarchy. It is traditionally recited during Navaratri or as part of daily Nitya Puja to bestow spiritual liberation, material abundance, and the unfolding of supreme wisdom.

ह्रीङ्काराननगर्भितानलशिखां सौः क्लीङ्कलां बिभ्रतीं
सौवर्णाम्बरधारिणीं वरसुधाधौतां त्रिनेत्रोज्ज्वलाम् ।
वन्दे पुस्तकपाशमङ्कुशधरां स्रग्भूषितामुज्ज्वलां
त्वां गौरीं त्रिपुरां परात्परकलां श्रीचक्रसञ्चारिणीम् ॥
अस्य श्रीशुद्धशक्तिमालामहामन्त्रस्य, उपस्थेन्द्रियाधिष्ठायी
वरुणादित्य ऋषिः देवी गायत्री छन्दः सात्विक
ककारभट्टारकपीठस्थित कामेश्वराङ्कनिलया महाकामेश्वरी श्री
ललिता भट्टारिका देवता, ऐं बीजं क्लीं शक्तिः, सौः कीलकं मम
खड्गसिद्ध्यर्थे सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः, मूलमन्त्रेण
षडङ्गन्यासं कुर्यात् ॥
आरक्ताभांत्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैस्सपाशाङ्कुशमदनधनुस्सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षो रुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥
लं - पृथिवीतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
गन्धं परिकल्पयामि - नमः
हं - आकाशतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै पुष्पं
परिकल्पयामि - नमः
यं - वायुतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै धूपं
परिकल्पयामि - नमः
रं - तेजस्तत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै दीपं
परिकल्पयामि - नमः
वं - अमृततत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
अमृतनैवेद्यं परिकल्पयामि - नमः
सं - सर्वतत्त्वात्मिकायै श्रीललितात्रिपुरसुन्दरी पराभट्टारिकायै
ताम्बूलादिसर्वोपचारान् परिकल्पयामि - नमः
ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमस्त्रिपुरसुन्दरि,
हृदयदेवि, शिरोदेवि, शिखादेवि, कवचदेवि, नेत्रदेवि, अस्त्रदेवि ॥
कामेश्वरि, भगमालिनि, नित्यक्लिन्ने, भेरुण्डे, वह्निवासिनि,
महावज्रेश्वरि, शिवदूति, त्वरिते, कुलसुन्दरि, नित्ये,
नीलपताके, विजये, सर्वमङ्गले, ज्वालामालिनि, चित्रे, महानित्ये ॥
परमेश्वरपरमेश्वरि, मित्रेशमयि, षष्ठीशमयि, उड्डीशमयि,
चर्यानाथमयि, लोपामुद्रामयि, अगस्त्यमयि,
कालतापशमयि, धर्माचार्यमयि, मुक्तकेशीश्वरमयि, दीपकलानाथमयि,
विष्णुदेवमयि, प्रभाकरदेवमयि, तेजोदेवमयि, मनोजदेवमयि,
कल्याणदेवमयि, वासुदेवमयि, रत्नदेवमयि, श्रीरामानन्दमयि ॥
अणिमासिद्धे, लघिमासिद्धे, महिमासिद्धे, ईशित्वसिद्धे, वशित्वसिद्धे,
प्राकाम्यसिद्धे, भुक्तिसिद्धे, इच्छासिद्धे, प्राप्तिसिद्धे, सर्वकामसिद्धे,
ब्राह्मि, माहेश्वरि, कौमारि, वैष्णवि, वाराहि, माहेन्द्रि, चामुण्डे,
महालक्ष्मि, सर्वसङ्क्षोभिणि, सर्वविद्राविणि, सर्वाकर्षिणि,
सर्ववशङ्करि, सर्वोन्मादिनि, सर्वमहाङ्कुशे, सर्वखेचरि,
सर्वबीजे, सर्वयोने, सर्वत्रिखण्डे, त्रैलोक्यमोहन चक्रस्वामिनि, प्रकटयोगिनि ॥
कामाकर्षिणि, बुद्ध्याकर्षिणि, अहंकाराकर्षिणि, शब्दाकर्षिणि,
स्पर्शाकर्षिणि, रूपाकर्षिणि, रसाकर्षिणि, गन्धाकर्षिणि,
चित्ताकर्षिणि, धैर्याकर्षिणि, स्मृत्याकर्षिणि, नामाकर्षिणि,
बीजाकर्षिणि, आत्माकर्षिणि, अमृताकर्षिणि, शरीराकर्षिणि,
सर्वाशापरिपूरकचक्रस्वामिनि, गुप्तयोगिनि ॥
अनङ्गकुसुमे, अनङ्गमेखले, अनङ्गमदने, अनङ्गमदनातुरे,
अनङ्गरेखे, अनङ्गवेगिनि, अनङ्गाङ्कुशे, अनङ्गमालिनि,
सर्वसङ्क्षोभणचक्रस्वामिनि, गुप्ततरयोगिनि ॥
सर्वसङ्क्षोभिणि, सर्वविद्राविनि, सर्वाकर्षिणि,
सर्वह्लादिनि, सर्वसम्मोहिनि, सर्वस्तम्भिनि, सर्वजृम्भिणि,
सर्ववशङ्करि, सर्वरञ्जनि, सर्वोन्मादिनि, सर्वार्थसाधिके,
सर्वसम्पत्तिपूरिणि, सर्वमन्त्रमयि, सर्वद्वन्द्वक्षयङ्करि,
सर्वसौभाग्यदायकचक्रस्वामिनि, सम्प्रदाययोगिनि ॥
सर्वसिद्धिप्रदे, सर्वसम्पत्प्रदे, सर्वप्रियङ्करि,
सर्वमङ्गलकारिणि, सर्वकामप्रदे, सर्वदुःखविमोचनि,
सर्वमृत्युप्रशमनि, सर्वविघ्ननिवारिणि, सर्वाङ्गसुन्दरि,
सर्वसौभाग्यदायिनि, सर्वार्थसाधकचक्रस्वामिनि, कुलोत्तीर्णयोगिनि ॥
सर्वज्ञे, सर्वशक्ते, सर्वैश्वर्यप्रदायिनि, सर्वज्ञानमयि,
सर्वव्याधिविनाशिनि, सर्वाधारस्वरूपे, सर्वपापहरे,
सर्वानन्दमयी, सर्वरक्षास्वरूपिणि, सर्वेप्सितफलप्रदे,
सर्वरक्षाकरचक्रस्वामिनि, निगर्भयोगिनि ॥
वशिनि, कामेश्वरि, मोदिनि, विमले, अरुणे, जयिनि,
सर्वेश्वरि, कौलिनि, सर्वरोगहरचक्रस्वामिनि, रहस्ययोगिनि ॥
बाणिनि, चापिनि, पाशिनि, अङ्कुशिनि, महाकामेश्वरि,
महावज्रेश्वरि, महाभगमालिनि, सर्वसिद्धिप्रदचक्रस्वामिनि, अतिरहस्ययोगिनि ॥
श्री श्रीमहाभट्टारिके, सर्वानन्दमयचक्रस्वामिनि, परापरातिरहस्ययोगिनि ॥
त्रिपुरे, त्रिपुरेशि, त्रिपुरसुन्दरि, त्रिपुरवासिनि,
त्रिपुराश्रीः, त्रिपुरमालिनि, त्रिपुरासिद्धे, त्रिपुराम्ब,
महात्रिपुरसुन्दरि ॥
महामहेश्वरि, महामहाराज्ञि, महामहाशक्ते, महामहागुप्ते,
महामहाज्ञप्ते, महामहानन्दे, महामहास्कन्धे, महामहाशये,
महामहा श्रीचक्रनगरसाम्राज्ञि, नमस्ते नमस्ते नमस्ते नमः ॥
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः ।
अग्निवातमहाक्षोभे राजाराष्ट्रस्य विप्लवे ॥
लुण्ठने तस्करभये सङ्ग्रामे सलिलप्लवे ।
समुद्रयानविक्षोभे भूतप्रेतादिके भये ॥
अपस्मारज्वरव्याधिमृत्युक्षामादिजे भये ।
शाकिनी पूतनायक्षरक्षःकूष्माण्डजे भये ॥
मित्रभेदे ग्रहभये व्यसनेष्वाभिचारिके ।
अन्येष्वपि च दोषेषु मालामन्त्रं स्मरेन्नरः ॥
सर्वोपद्रवनिर्मुक्तस्साक्षाच्छिवमयोभवेत् ।
आपत्काले नित्यपूजां विस्तारात्कर्तुमारभेत् ॥
एकवारं जपध्यानं सर्वपूजाफलं लभेत् ।
नवावर्णदेवीनां ललिताया महौजसः ॥
एकत्र गणनारूपो वेदवेदाङ्गगोचरः ।
सर्वागमरहस्यार्थः स्मरणात्पापनाशिनी ॥
ललिताया महेशान्या माला विद्या महीयसि ।
नरवश्यं नरेन्द्राणां वश्यं नारीवशङ्करम् ॥
अणिमादिगुणैश्वर्यं रञ्जनं पापभञ्जनम् ।
तत्तदावरणस्थायि देवतावृन्दमन्त्रकम् ॥
मालामन्त्रं परं गुह्यां परं धामप्रकीर्तितम् ।
शक्तिमाला पञ्चधा स्याच्छिवमाला च तादृशी ॥
तस्माद्गोप्यतराद्गोप्यं रहस्यं भुक्तिमुक्तिदम् ॥
इति श्रीवामकेश्वरतन्त्रे उमामहेश्वरसंवादे
देवीखड्गमालास्तोत्ररत्नं समाप्तम् ।

Explore More