ध्यानम् -
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
महेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि ॥ १॥
माणिक्यवीणामुपलालयन्तीं मदालसां मञ्जुलवाग्विलासाम् ।
महेन्द्रनीलद्युतिकोमलाङ्गीं मातङ्गकन्यां सततं स्मरामि ॥ १॥
चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कमरागशोणे ।
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥
पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥
प्रार्थना -
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥
माता मरकतश्यामा मातङ्गी मदशालिनी ।
कटाक्षयतु कल्याणी कदम्बवनवासिनी ॥
जय मातङ्गतनये जय नीलोत्पलद्युते ।
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥
जय सङ्गीतरसिके जय लीलाशुकप्रिये ॥
अथ दण्डकम् ।
जय जननि ! सुधासमुद्रान्तहृद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्प-
द्रुमाकल्पकादम्बकान्तारवासप्रिये, कृत्तिवासःप्रिये, सर्वलोकप्रिये;
जय जननि ! सुधासमुद्रान्तहृद्यन्मणिद्वीपसंरूढबिल्वाटवीमध्यकल्प-
द्रुमाकल्पकादम्बकान्तारवासप्रिये, कृत्तिवासःप्रिये, सर्वलोकप्रिये;
सादरारब्धसङ्गीतसम्भावनासम्भ्रमालोलनीपस्रगाबद्धचूलीसनाथत्रिके,
सानुमत्पुत्रिके,
शेखरीभूतशीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते,
लोकसम्भाविते,
कामलीलाधनुःसन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचने,
वाक्सुधासेचने ;
सानुमत्पुत्रिके,
शेखरीभूतशीतांशुरेखामयूखावलीबद्धसुस्निग्धनीलालकश्रेणिशृङ्गारिते,
लोकसम्भाविते,
कामलीलाधनुःसन्निभभ्रूलतापुष्पसन्दोहसन्देहकृल्लोचने,
वाक्सुधासेचने ;
चारुगोरोचनापङ्ककेलीललामाभिरामे, सुरामे, रमे,
प्रोल्लसद्वालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्य-
गण्डस्थलन्यस्त
कस्तूरिकापत्ररेखासमुद्भूतसौरभ्यसम्भ्रान्तभृङ्गाङ्गनागीत-
सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे, भास्वरे;
प्रोल्लसद्वालिकामौक्तिकश्रेणिकाचन्द्रिकामण्डलोद्भासिलावण्य-
गण्डस्थलन्यस्त
कस्तूरिकापत्ररेखासमुद्भूतसौरभ्यसम्भ्रान्तभृङ्गाङ्गनागीत-
सान्द्रीभवन्मन्द्रतन्त्रीस्वरे, सुस्वरे, भास्वरे;
वल्लकीवादनप्रक्रियालोलतालीदलाबद्धताटङ्कभूषाविशेषान्विते,
सिद्धसम्मानिते,
दिव्याहालामदोद्वेलहेलालसच्चक्षुरान्दोलन-
श्रीसमाक्षिप्तकर्णैकनीलोत्पले,
श्यामले, पूरिताशेषलोकाभिवाञ्छाफले, निर्मले, श्रीफले ;
सिद्धसम्मानिते,
दिव्याहालामदोद्वेलहेलालसच्चक्षुरान्दोलन-
श्रीसमाक्षिप्तकर्णैकनीलोत्पले,
श्यामले, पूरिताशेषलोकाभिवाञ्छाफले, निर्मले, श्रीफले ;
स्वेदबिन्दूल्लसत्फाललावण्यनिःष्यन्दसन्दोह-
सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके;
सन्देहकृन्नासिकामौक्तिके, सर्वमन्त्रात्मिके, कालिके;
मुग्धमन्दस्मितोदारवक्त्रस्फुरत्पूगताम्बूलकर्पूरखण्डोत्करे,
ज्ञानमुद्राकरे, सर्वसम्पत्करे, पद्मभास्वत्करे, श्रीकरे,
ज्ञानमुद्राकरे, सर्वसम्पत्करे, पद्मभास्वत्करे, श्रीकरे,
कुन्दपुष्पद्युतिस्निग्धदन्तावलीनिर्मलालोलकल्लोल-
सम्मेलनस्मेरशोणाधरे, चारुवीणाधरे, पक्वबिम्बाधरे ॥
सम्मेलनस्मेरशोणाधरे, चारुवीणाधरे, पक्वबिम्बाधरे ॥
सुललितनवयौवनारम्भचन्द्रोदयोद्वेललावण्य-
दुग्धार्णवाविर्भवत्कम्बुबिब्बोकभृत्कन्धरे, सत्कलामन्दिरे, मन्थरे,
दिव्यरत्नप्रभाबन्धुरच्छन्नहारादिभूषासमुद्योतमानानवद्याङ्गशोभे,
शुभे; रत्नकेयूररश्मिच्छटापल्लवप्रोल्लसद्दोर्लताराजिते, योगिभिः
पूजिते ; विश्वदिङ्मण्डलव्यापिमाणिक्यतेजःस्फुरत्कङ्कणालङ्कृते,
विभ्रमालङ्कृते, साधुभिः सत्कृते ;

वासरारम्भवेलासमुज्जृम्भमाणारविन्दप्रतिद्वन्द्विपाणिद्वये,
सन्ततोद्यद्दये अद्वये ;
दिव्यरत्नोर्मिकादीधितिस्तोमसन्ध्यायमानाङ्गुली-
पल्लवोद्यन्नखेन्दुप्रभामण्डले,
सन्नताखण्डले, चित्प्रभामण्डले, प्रोल्लसत्कुण्डले;
सन्ततोद्यद्दये अद्वये ;
दिव्यरत्नोर्मिकादीधितिस्तोमसन्ध्यायमानाङ्गुली-
पल्लवोद्यन्नखेन्दुप्रभामण्डले,
सन्नताखण्डले, चित्प्रभामण्डले, प्रोल्लसत्कुण्डले;
तारकाराजिनीकाशहारावलिस्मेरचारु-
स्तनाभोगभारानमन्मध्यवल्लीवलिच्छेद-
वीचीसमुल्लाससन्दर्शिताकारसौन्दर्यरत्नाकरे,
वल्लकीभृत्करे, किङ्करश्रीकरे;
हेमकुम्भोपमोत्तुङ्गवक्षोजभारावनम्रे , त्रिलोकावनम्रे ;
लसद्वृत्तगम्भीरनाभीसरस्तीरशैवालशङ्काकरश्यामरोमावलीभूषणे,
मञ्जुसम्भाषणे ;

चारुशिञ्जत्कटीसूत्रनिर्भर्त्सितानङ्गलीलाधनुःशिञ्जिनीडम्बरे,
दिव्यरत्नाम्बरे,
पद्मरागोल्लसन्मेखलाभास्वरश्रोणिशोभाजितस्वर्णभूभृत्तले,
चन्द्रिकाशीतले ॥
दिव्यरत्नाम्बरे,
पद्मरागोल्लसन्मेखलाभास्वरश्रोणिशोभाजितस्वर्णभूभृत्तले,
चन्द्रिकाशीतले ॥
विकसितनवकिंशुकाताम्रदिव्यांशुकच्छन्नचारूरुशोभापराभूत-
सिन्दूरशोणायमानेन्द्रमातङ्गहस्तार्गले, वैभवानर्गले श्यामले,
कोमलस्निग्धनीलोत्पलोत्पादितानङ्गतूणीरशङ्काकरोदारजङ्घालते,
चारुलीलागते,
नम्रदिक्पालसीमन्तिनीकुन्तलस्निग्धनीलप्रभापुञ्जसञ्जात-
दूर्वाङ्कुराशङ्कसारङ्गसंयोग-
रिङ्खन्नखेन्दूज्ज्वले, प्रोज्ज्वले, निर्मले;

प्रह्वदेवेशलक्ष्मीशभूतेशतोयेशवाणीशकीनाशदैत्येशयक्षेशवाय्वग्नि-
कोटीरमाणिक्यसङ्घृष्टबालातपोद्दामलाक्षारसारुण्यतारुण्यलक्ष्मी-
गृहीताङ्घ्रिपद्मे, सुपद्मे, उमे ॥
कोटीरमाणिक्यसङ्घृष्टबालातपोद्दामलाक्षारसारुण्यतारुण्यलक्ष्मी-
गृहीताङ्घ्रिपद्मे, सुपद्मे, उमे ॥
सुरुचिरनवरत्नपीठस्थिते, सुस्थिते, रक्तपद्मासने, रत्नसिह्मासने
शङ्खपद्मद्वयोपाश्रिते, विश्रुते तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते,
मत्तमातङ्गकन्यासमूहान्विते, मञ्जुलामेनकाद्यङ्गनामानिते,
भैरवैरष्टभिर्वेष्टिते, देवि ! वामादिभिः शक्तिभिः सेविते;
शङ्खपद्मद्वयोपाश्रिते, विश्रुते तत्र विघ्नेशदुर्गावटुक्षेत्रपालैर्युते,
मत्तमातङ्गकन्यासमूहान्विते, मञ्जुलामेनकाद्यङ्गनामानिते,
भैरवैरष्टभिर्वेष्टिते, देवि ! वामादिभिः शक्तिभिः सेविते;
धात्रि ! लक्ष्म्यादिशक्त्यष्टकैः संयुते, मातृकामण्डलैर्मण्डिते,
यक्षगन्धर्वसिद्धाङ्गनामण्डलैरर्चिते, पञ्चबाणात्मिके, पञ्चबाणेन
रत्या च सम्भाविते, प्रीतिभाजा वसन्तेन चानन्दिते ॥
यक्षगन्धर्वसिद्धाङ्गनामण्डलैरर्चिते, पञ्चबाणात्मिके, पञ्चबाणेन
रत्या च सम्भाविते, प्रीतिभाजा वसन्तेन चानन्दिते ॥
भक्तिभाजां परं श्रेयसे कल्पसे, योगिनां मानसे द्योतसे, छन्दसाम् ओजसे भ्राजसे ॥
गीतविद्याविनोदातितृष्णेन कृष्णेन सम्पूज्यसे । भक्तिमच्चेतसा वेधसा
स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ॥
स्तूयसे । विश्वहृद्येन वाद्येन विद्याधरैर्गीयसे ॥
श्रवणहरणदक्षिणक्वाणया वीणया किन्नरैर्गीयसे ॥
यक्षगन्धर्वसिद्धाङ्गनामण्डलैरर्च्यसे । सर्वसौभाग्यवाञ्छावतीभिः वधूभिः सुराणां समाराध्यसे ॥
सर्वविद्याविशेषात्मकं चाटुगाथासमुच्चारणं
कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं
तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ॥ ५ ॥
कण्ठमूलोल्लसद्वर्णराजित्रयं कोमलश्यामलोदारपक्षद्वयं
तुण्डशोभातिदूरीभवत्किंशुकं तं शुकं लालयन्ती परिक्रीडसे ॥ ५ ॥
पाणिपद्मद्वयेनाक्षमालामपि स्फाटिकीं ज्ञानसारात्मकं पुस्तकं चापरेणाङ्कुशं पाशमाबिभ्रती येन सञ्चिन्त्यसे चेतसा तस्य वक्त्रान्तरात् गद्यपद्यात्मिका भारती निस्सरेत् ॥
येन वा यावकाभाकृतिर्भाव्यसे तस्य वश्या भवन्ति स्त्रियः पुरुषाः । येन वा शातकुम्भद्युतिर्भाव्यसे सोऽपि लक्ष्मीसहस्रैः परिक्रीडते । किं न सिद्धयेत् वपु: श्यामलं कोमलं चन्द्रचूडान्वितं तावकं ध्यायतः ।
तस्य लीलासरो वारिधिः, तस्य केलीवनं नन्दनम्, तस्य भद्रासनं भूतलम्, तस्य गीर्देवता किङ्करी, तस्य चाज्ञाकरी श्रीः स्वयम् ॥ ६ ॥
सर्वतीर्थात्मिके! सर्वमन्त्रात्मिके ! सर्वतन्त्रात्मिके ! सर्वयन्त्रात्मिके ! सर्वचक्रात्मिके ! सर्वशक्त्यात्मिके ! सर्वपीठात्मिके ! सर्वतत्त्वात्मिके ! सर्वविद्यात्मिके ! सर्वयोगात्मिके ! सर्वनादात्मिके ! सर्ववर्णात्मिके ! सर्वशब्दात्मिके ! सर्वविश्वात्मिके ! सर्वदीक्षात्मिके ! सर्वसर्वात्मके ! सर्वगे ! हे जगन्मातृके ! पाहि मां, पाहि मां, पाहि मां ; देवि! तुभ्यं नमो, देवि! तुभ्यं नमो, देवि! तुभ्यं नमः ॥ ७ ॥
॥ इति श्रीमहाकविकालिदासप्रणीतं श्यामलादण्डकं सम्पूर्णम् ॥