वन्दे गजेन्द्रवदनं वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं कुवलयिनीजारकोरकापीडम् ॥ 1 ॥

स जयति सुवर्णशैलः सकलजगच्चक्रसङ्घटितमूर्तिः ।
काञ्चननिकुञ्जवाटी-कन्दलदमरीप्रपञ्चसङ्गीतः ॥ 2 ॥

हरिहयनैरृतमारुत-हरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं विधिहरिगौरीशविष्टपाधारम् ॥ 3 ॥

मध्ये पुनर्मनोहर-रत्नरुचिस्तबकरञ्जितदिगन्तम् ।
उपरि चतुःशतयोजन-मुत्तुङ्गं शृङ्गपुङ्गवमुपासे ॥ 4 ॥

तत्र चतुःशतयोजन-परिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं नमाम्यहं नगरमादिविद्यायाः ॥ 5 ॥

प्रथमं सहस्रपूर्वक-षट्शतसङ्ख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं वरणं शरणं व्रजाम्ययोरूपम् ॥ 6 ॥

तस्योत्तरे समीरण-योजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो घण्टास्तनसारनिर्मितः सालः ॥ 7 ॥

उभयोरन्तरसीम-न्युद्दामभ्रमररञ्जितोदारम् ।
उपवनमुपास्महे वय-मूरीकृतमन्दमारुतस्यन्दम् ॥ 8 ॥

आलिङ्ग्य भद्रकाली-मासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे विहरतु मधुपानविभ्रमन्नेत्रः ॥ 9 ॥

तार्तीयीको वरण-स्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्ति-स्तनुतामाचन्द्रतारकं भद्रम् ॥ 10 ॥

मध्ये तयोश्च मणिमय-पल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं कलये मकरन्दपङ्किलावालाम् ॥ 11 ॥

तत्र मधुमाधवश्री-तरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मा-मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ 12 ॥

नमत तदुत्तरभागे नाकिपथोल्लङ्घिशृङ्गसङ्घातम् ।
सीसाकृतिं तुरीयं सितकिरणालोकनिर्मलं सालम् ॥ 13 ॥

सालद्वयान्तराले सरलालिकपोतचाटुसुभगायाम् ।
सन्तानवाटिकायां सक्तं चेतोऽस्तु सततमस्माकम् ॥ 14 ॥

तत्र तपनातिरूक्षः साम्राज्ञीचरणसान्द्रितस्वान्तः ।
शुक्रशुचिश्रीसहितो ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ 15 ॥

उत्तरसीमनि तस्यो-न्नतशिखरोत्कम्पिहाटकपताकः ।
प्रकटयतु पञ्चमो नः प्राकारः कुशलमारकूटमयः ॥ 16 ॥

प्राकारयोश्च मध्ये पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटी-हरतादामूलमस्मदनुतापम् ॥ 17 ॥

तत्र नभः श्रीमुख्यै-स्तरुणीवर्गैः समन्वितः परितः ।
वज्राट्टहासमुखरो वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ 18 ॥

मारुतयोजनदूरे महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः प्राकारः पञ्चलोहधातुमयः ॥ 19 ॥

अनयोर्मध्ये सन्तत-मङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां मानसमङ्गीकरोतु मे विहृतिम् ॥ 20 ॥

तस्यामिषोर्जलक्ष्मी-तरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीया-दम्बामामोदमेदुरैः कुसुमैः ॥ 21 ॥

तस्यर्षिसङ्ख्ययोजन-दूरे देदीप्यमानशृङ्गौघः ।
कलधौतकलितमूर्तिः कल्याणं दिशतु सप्तमः सालः ॥ 22 ॥

मध्ये तयोर्मरुत्पथ लङ्घितविटपाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी श्रियमनिशं दिशतु शीतलोद्देशा ॥ 23 ॥

तस्यामतिप्रियाभ्यां सह खेलन् सहसहस्यलक्ष्मीभ्याम् ।
सामन्तो झषकेतो-र्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ 24 ॥

उत्तरतस्तस्य महा-नुद्भटहुतभुक्शिखारुणमयूखः ।
तपनीयखण्डरचित-स्तनुतादायुष्यमष्टमो वरणः ॥ 25 ॥

कादम्बविपिनवाटी-मनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरक-कन्दलितामोदतुन्दिलसमीराम् ॥ 26 ॥

तस्यामतिशिशिराकृति-रासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे शिशिरर्तुः सततशीतलदिगन्तः ॥ 27 ॥

तस्यां कदम्बवाट्यां तत्प्रसवामोदमिलितमधुगन्धम् ।
सप्तावरणमनोज्ञं शरणं समुपैमि मन्त्रिणीशरणम् ॥ 28 ॥

तत्रालये विशाले तपनीयारचिततरलसोपाने ।
माणिक्यमण्डपान्त-र्महिते सिंहासने सुमणिखचिते ॥ 29 ॥

बिन्दुत्रिपञ्चकोण-द्विपनृपवसुवेददलकुरेखाढ्ये ।
चक्रे सदा निविष्टां षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ 30 ॥

तापिञ्छमेचकाभां तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं ताम्राधरबिम्बदृष्टदरहासाम् ॥ 31 ॥

कुङ्कुमपङ्किलदेहां कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां कोकिलनिक्वाणकोमलालापाम् ॥ 32 ॥

वामाङ्गगलितचूलीं वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चित मुग्धालिकमिलितचित्रकोदाराम् ॥ 33 ॥

करविधृतकीरशावक-कलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसङ्गिवीणावादन-सौख्यार्धमीलिताक्षियुगाम् ॥ 34 ॥

आपाटलांशुकधरा-मादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिका-माद्यां सङ्गीतमातृकां वन्दे ॥ 35 ॥

तस्य च सुवर्णसाल-स्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम सन्तापं सालो नवमः स पुष्परागमयः ॥ 36 ॥

अनयोरन्तरवसुधाः प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनु-चिन्तननिस्तन्द्रसिद्धनीरन्ध्राः ॥ 37 ॥

तत्सालोत्तरदेशे तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मराग-प्राकारो मम पराभवं दशमः ॥ 38 ॥

अन्तरभूकृतवासा-ननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तां-श्चारणवर्गानहर्निशं कलये ॥ 39 ॥

सारङ्गवाहयोजनदूरे-ऽसङ्घटितकेतनस्तस्य ।
गोमेदकेन रचितो गोपायतु मां समुन्नतः सालः ॥ 40 ॥

वप्रद्वयान्तरोर्व्यां वटुकैर्विविधैश्च योगिनीबृन्दैः ।
सततं समर्चितायाः सङ्कर्षण्याः प्रणौमि चरणाब्जम् ॥ 41 ॥

तापसयोजनदूरे तस्य समुत्तुङ्ग गोपुरोपेतः ।
वाञ्छापूर्त्यै भवता-द्वज्रमणीनिकरनिर्मितो वप्रः ॥ 42 ॥

वरणद्वितयान्तरतो वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्या रचयन्तु महान्तमस्मदानन्दम् ॥ 43 ॥

तत्र सदा प्रवहन्ती तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्य-त्कलहंसीकुलकलक्वणितपुष्टा ॥ 44 ॥

रोधसि तस्या रुचिरे वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषित-वज्रिमुखत्रिदशविनुतचारित्रा ॥ 45 ॥

तस्योदीच्यां हरिति स्तवकितसुषमावलीढवियदन्तः ।
वैडूर्यरत्नरचितो वैमल्यं दिशतु चेतसो वरणः ॥ 46 ॥

अधिमध्यमेतयोः पुन-रम्बाचरणावलम्बितस्वान्तान् ।
कार्कोटकादिनागान् कलयामः किं च बलिमुखान् दनुजान् ॥ 47 ॥

गन्धवहसङ्ख्ययोजन-दूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो वरणो बहलयतु वैदुषीं विशदाम् ॥ 48 ॥

मध्यक्षोण्यामनयो-र्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरीसहाया-न्भूपालानपि पुनः पुनः प्रणुमः ॥ 49 ॥

आशुगयोजनदूरे तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो मुहुरस्माकं मुदे भवतु सालः ॥ 50 ॥

आवृत्त्योरधिमध्यं पूर्वस्यां दिशि पुरन्दरः श्रीमान् ।
अभ्रमुविटाधिरूढो विभ्रममस्माकमनिशमातनुतात् ॥ 51 ॥

तत्कोणे व्यजनस्रु-क्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः सुखयतु मां हव्यवाहनः सुचिरम् ॥ 52 ॥

दक्षिणदिगन्तराले दण्डधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु मम निखिलमंहसां निकरम् ॥ 53 ॥

तस्यैव पश्चिमायां दिशि दलितेन्दीवरप्रभाश्यामः ।
खेटासियष्टिधारी खेदानपनयतु यातुधानो मे ॥ 54 ॥

तस्या उत्तरदेशे धवलाङ्गो विपुलझषवरारूढः ।
पाशायुधात्तपाणिः पाशी विदलयतु पाशजालानि ॥ 55 ॥

वन्दे तदुत्तरहरि-त्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधा-न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ 56 ॥

तरुणीरिडाप्रधाना-स्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायन-पानपरिभ्रान्तलोचनाः कलये ॥ 57 ॥

तल्लोकपूर्वभागे धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्या-नम्बाचरणावलम्बिनो यक्षान् ॥ 58 ॥

तस्यैव पूर्वसीमनि तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं कलये शीतांशुखण्डचूडालम् ॥ 59 ॥

तत्पुरषोडशवरण-स्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठिता-न्रुद्राणीसहचरान्भजे रुद्रान् ॥ 60 ॥

पवमानसङ्ख्ययोजन-दूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः सम्पदमचलां श्रियं च पुष्णातु ॥ 61 ॥

आवृतियुग्मान्तरतो हरितमणीनिवहमेचके देशे ।
हाटकतालीविपिनं हालाघटघटितविटपमाकलये ॥ 62 ॥

तत्रैव मन्त्रिणीगृह-परिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं दद्यादायूंषि दण्डनाथायाः ॥ 63 ॥

सदने तत्र हरिन्मणि-सङ्घटिते मण्डपे शतस्तम्भे ।
कार्तस्वरमयपीठे कनकमयाम्बुरुहकर्णिकामध्ये ॥ 64 ॥

बिन्दुत्रिकोणवर्तुल-षडस्रवृत्तद्वयान्विते चक्रे ।
सञ्चारिणी दशोत्तरशतार्णमनुराजकमलकलहंसी ॥ 65 ॥

कोलवदना कुशेशय-नयना कोकारिमण्डितशिखण्डा ।
सन्तप्तकाञ्चनाभा सन्ध्यारुणचेलसंवृतनितम्बा ॥ 66 ॥

हलमुसलशङ्खचक्रा-ऽङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलङ्कषानुकम्पा कुङ्कुमजम्बालितस्तनाभोगा ॥ 67 ॥

धूर्तानामतिदूरा-वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री वार्ताली भवतु वाञ्छितार्थाय ॥ 68 ॥

तस्याः परितो देवीः स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जम्भिन्याद्याः भैरववर्गांश्च हेतुकप्रमुखान् ॥ 69 ॥

पूर्वोक्तसङ्ख्ययोजन-दूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं विद्रुमसालो विशङ्कटद्वारः ॥ 70 ॥

आवरणयोरहर्निश-मन्तरभूमौप्रकाशशालिन्याम् ।
आसीनमम्बुजासन-मभिनवसिन्दूरगौरमहमीडे ॥ 71 ॥

वरणस्य तस्य मारुत-योजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः सङ्घटिताङ्गः कृषीष्ट मदभीष्टम् ॥ 72 ॥

अन्तरकक्ष्यामनयो-रविरलशोभापिचण्डिलोद्देशाम् ।
माणिक्यमण्डपाख्यां महतीमधिहृदयमनिशमाकलये ॥ 73 ॥

तत्र स्थितं प्रसन्नं तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डल-कन्दलिताभीशुकवचितकपोलम् ॥ 74 ॥

शोणाधरं शुचिस्मित-मेणाङ्कवदनमेधमानकृपम् ।
मुग्धैणमदविशेषक-मुद्रितनिटिलेन्दुरेखिकारुचिरम् ॥ 75 ॥

नालीकदलसहोदर-नयनाञ्चलघटितमनसिजाकूतम् ।
कमलाकठिनपयोधर-कस्तूरीघुसृणपङ्किलोरस्कम् ॥ 76 ॥

चाम्पेयगन्धिकैश्यं शम्पासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं श्रितजनरक्षाधुरीणचरणाब्जम् ॥ 77 ॥

कम्बुसुदर्शनविलस-त्करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं मुकुन्दमानन्दकन्दमवलम्बे ॥ 78 ॥

तद्वरणोत्तरभागे तारापतिबिम्बचुम्बिनिजशृङ्गः ।
विविधमणीगणघटितो वितरतु सालो विनिर्मलां धिषणाम् ॥ 79 ॥

प्राकारद्वितयान्तर-कक्ष्यां पृथुरत्ननिकरसङ्कीर्णाम् ।
नमत सहस्रस्तम्भक-मण्डपनाम्नातिविश्रुतां भुवने ॥ 80 ॥

प्रणुमस्तत्र भवानी-सहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनु-शीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ 81 ॥

तस्यैणवाहयोजन-दूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणा-मन्तरकक्ष्यां च निर्मलामनयोः ॥ 82 ॥

तत्रैवामृतवापीं तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामयकलहंसी-मुद्रितकनकारविन्दसन्दोहाम् ॥ 83 ॥

शक्रोपलमयभृङ्गी-सङ्गीतोन्मेषघोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलस-त्कारण्डवषण्डताण्डवमनोज्ञाम् ॥ 84 ॥

कुरुविन्दात्मकहल्लक-कोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां कन्दलितामन्दकैरवामोदाम् ॥ 85 ॥

तद्वापिकान्तराले तरले मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूरपाटलाङ्गीं सितकिरणाङ्कूरकल्पितवतंसाम् ॥ 86 ॥

पर्वेन्दुबिम्बवदनां पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरीं कुरङ्गी-शिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ 87 ॥

निकटस्थपोतनिलयाः शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्तीं परित-स्तारां तारुण्यगर्वितां वन्दे ॥ 88 ॥

प्रागुक्तसङ्ख्ययोजनदूरे प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्या-मष्टापदपुष्टमेदिनीं रुचिराम् ॥ 89 ॥

कादम्बरीनिधानां कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मित-सोपानश्रेणिशोभमानतटीम् ॥ 90 ॥

माणिक्यतरणिनिलयां मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधाना-मन्तः कलयामि वारुणीं देवीम् ॥ 91 ॥

सौवर्णकेनिपातन-हस्ताः सौन्दर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो वितरन्त्वस्माकमायुषो वृद्धिम् ॥ 92 ॥

तस्य पृषदश्वयोजन-दूरेऽहङ्कारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये कक्ष्यां वलमानमलयपवमानाम् ॥ 93 ॥

विनुमो विमर्शवापीं सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलङ्घ्यवीची-कोलाहलभरितकूलवनवाटीम् ॥ 94 ॥

तत्रैव सलिलमध्ये तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चुकलसितां श्यामाविटबिम्बडम्बरहरास्याम् ॥ 95 ॥

आभुग्नमसृणचिल्ली-हसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं मणिमयताटङ्कमण्डितकपोलाम् ॥ 96 ॥

कुरुविन्दतरणिनिलयां कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं कुरुकुल्लां मनसि कुर्महे सततम् ॥ 97 ॥

तत्सालोत्तरभागे भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयो-र्मन्ये विश्रान्तमातपोद्गारम् ॥ 98 ॥

तत्र कुरुविन्दपीठे तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवासस-मम्लानप्रसवमालिकाभरणम् ॥ 99 ॥

चक्षुष्मतीप्रकाशन-शक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं मन्ये मार्ताण्डभैरवं हृदये ॥ 100 ॥

इन्दुमयसालमीडे तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्तशिशिरमारुत-मनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ 101 ॥

तत्र प्रकाशमानं तारानिकरैः परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दल-मन्तः कलयामि कुन्दसितमिन्दुम् ॥ 102 ॥

शृङ्गारसालमीडे शृङ्गोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि महितां शृङ्गारपूर्विकां परिखाम् ॥ 103 ॥

तत्र मणिनौस्थिताभि-स्तपनीयाविरचिताग्रहस्ताभिः ।
शृङ्गारदेवताभिः सहितं परिखाधिपं भजे मदनम् ॥ 104 ॥

शृङ्गारवरणवर्यस्योत्तरतः सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं चिन्तां दूरीकरोतु मे सदनम् ॥ 105 ॥

मणिसदनसालयोरधि-मध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णै-र्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ 106 ॥

मृदुलैस्तालीपञ्चक-मानैर्मिलितां च केसरकदम्बैः ।
सन्ततगलितमरन्द-स्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ 107 ॥

पाटीरपवनबालक-धाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकल-कूलङ्कषनिनदनिचयकमनीयाम् ॥ 108 ॥

पद्माटवीं भजामः परिमलकल्लोलपक्ष्मलोपान्ताम् ।
[ देव्यर्घ्यपात्रधारी तस्याः पूर्वदिशि दशकलायुक्तः ।
] वलयितमूर्तिर्भगवा-न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ 109 ॥

तत्राधारे देव्याः पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ 110 ॥

तस्मिन् दिनेशपात्रे तरङ्गितामोदममृतमयमर्घ्यम् ।
चन्द्रकलात्मकममृतं सान्द्रीकुर्यादमन्दमानन्दम् ॥ 111 ॥

अमृते तस्मिन्नभितो विहरन्त्यो विविधमणितरणिभाजः ।
षोडश कलाः सुधांशोः शोकादुत्तारयन्तु मामनिशम् ॥ 112 ॥

तत्रैव विहृतिभाजो धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः शमयन्त्वखिलाः कलाश्च सन्तापम् ॥ 113 ॥

कीनाशवरुणकिन्नर-राजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ 114 ॥

पात्रस्थलस्य पुरतः पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो भवन्तु भासा प्रदीपितजगन्ति ॥ 115 ॥

सदनस्यानलकोणे सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं तरलशिखाजटिलमम्बिकाजनकम् ॥ 116 ॥

तस्यासुरदिशि तादृश-रत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं शतयोजनमुन्नतं भजे दिव्यम् ॥ 117 ॥

तत्रैव दिशि निषण्णं तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या रचयामो मनसि रत्नमयचूडम् ॥ 118 ॥

भवनस्य वायुभागे परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः सचिवेशान्याः समस्तवन्द्यायाः ॥ 119 ॥

कुर्मोऽधिहृदयमनिशं क्रोडास्यायाः शताङ्गमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो रुचिरशलाकाप्रपञ्चकञ्चुकितम् ॥ 120 ॥

परितो देवीधाम्नः प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वन्तु रश्मिमाला-कृतयः कुशलानि देवता निखिलाः ॥ 121 ॥

प्राग्द्वारस्य भवानी-धाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गीकिटिमुख्यौ मणिसदने मनसि भावयामि चिरम् ॥ 122 ॥

योजनयुगलाभोगा तत्क्रोशपरिणाहयैव भित्त्या च ।
चिन्तामणिगृहभूमि-र्जीयादाम्नायमयचतुर्द्वारा ॥ 123 ॥

द्वारे द्वारे धाम्नः पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्तिं दिव्या लौहित्यसिद्ध्यो देव्यः ॥ 124 ॥

मणिसदनस्यान्तरतो महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे पीठानामुपरि विरचितावासम् ॥ 125 ॥

चक्राणां सकलानां प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मा-मवन्तु देवी प्रभास्वरूपिण्यः ॥ 126 ॥

अणिमादिसिद्धिफलक-स्योपरिहरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ 127 ॥

तस्योपरि मणिफलके तारुण्योत्तुङ्गपीनकुचभाराः ।
सङ्क्षोभिणीप्रधानाः भ्रान्ति विद्रावयन्तु दश मुद्राः ॥ 128 ॥

फलकत्रयस्वरूपे पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यन्तु प्रकटाख्या-स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ 129 ॥

तदुपरि विपुले धिष्ण्ये तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः कलये देवीः कलाधरशिखण्डाः ॥ 130 ॥

सर्वाशापरिपूरकचक्रे-ऽस्मिन् गुप्तयोगिनीसेव्याः ।
त्रिपुरेशी मम दुरितं तुद्यात् कण्ठावलम्बिमणिहारा ॥ 131 ॥

तस्योपरि मणिपीठे ताम्राम्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमा-प्रमुखा देवीश्च विधृतकूर्पासाः ॥ 132 ॥

सङ्क्षोभकारकेऽस्मिं-श्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्री गुप्ततराख्याः गोपायतु मां कृपार्द्रया दृष्ट्या ॥ 133 ॥

सङ्क्षोभिणीप्रधानाः शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणी-रन्तः कलयामि यौवनोन्मत्ताः ॥ 134 ॥

सौभाग्यदायकेऽस्मिं-श्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च सम्प्रदायाभिधाः समस्ताः प्रमोदयन्त्वनिशम् ॥ 135 ॥

मणिपीठोपरि तासां महति चतुर्हस्तविस्तृते वलये ।
सन्ततविरचितवासाः शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ 136 ॥

सर्वार्थसाधकाख्ये चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं दिशतादुत्तीर्णयोगिनीसेव्या ॥ 137 ॥

तासां निलयस्योपरि धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वाज्ञाद्याः देव्यः सकलाः सम्पादयन्तु मम कीर्तिम् ॥ 138 ॥

चक्रे समस्तरक्षा-करनाम्न्यस्मिन् समस्तजनसेव्याम् ।
मनसि निगर्भासहितां मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ 139 ॥

सर्वज्ञासदनस्योपरि चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्याः शक्तीः सिन्दूररेणुरुचः ॥ 140 ॥

श्रीसर्वरोगहराख्य-चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ 141 ॥

वशिनीगृहोपरिष्टा-द्विंशतिहस्तोन्नते महापीठे ।
शमयन्तु शत्रुबृन्दं शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ 142 ॥

शस्त्रसदनोपरिष्टा-द्वलये वलवैरिरत्नसङ्घटिते ।
कामेश्वरीप्रधानाः कलये देवीः समस्तजनवन्द्याः ॥ 143 ॥

चक्रेऽत्र सर्वसिद्धिप्रद-नामनि सर्वफलदात्री ।
त्रिपुराम्बावतु सततं परापररहस्ययोगिनीसेव्या ॥ 144 ॥

कामेश्वरीगृहोपरिवलये विविधमनुसम्प्रदायज्ञाः ।
चत्वारो युगनाथा जयन्तु मित्रेशपूर्वकाः गुरवः ॥ 145 ॥

नाथभवनोपरिष्टा-न्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः कलयन्तु मुदं तिथिस्वरूपिण्यः ॥ 146 ॥

नित्यासदनस्योपरि निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः कलयन्त्वस्माकमुत्तरलनेत्राः ॥ 147 ॥

सदनस्योपरि तासां सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारां मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ 148 ॥

परितो मणिमञ्चस्य प्रलम्बमाना नियन्त्रिता पाशैः ।
मायामयी जवनिका मम दुरितं हरतु मेचकच्छाया ॥ 149 ॥

मञ्चस्योपरि लम्ब-न्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं हरतादालस्यमनिशमस्माकम् ॥ 150 ॥

पर्यङ्कस्य भजामः पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमया-ननलासुरमारुतेशकोणस्थान् ॥ 151 ॥

फलकं सदाशिवमयं प्रणौमि सिन्दूररेणुकिरणाभम् ।
आरभ्याङ्गेशीनां सदनात्कलितं च रत्नसोपानम् ॥ 152 ॥

पट्टोपधानगण्डक-चतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यङ्कोपरि घटितं पातु चिरं हंसतूलशयनं नः ॥ 153 ॥

तस्योपरि निवसन्तं तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तपुल्लहल्लक-मरीचिकापुञ्जमञ्जुलच्छायम् ॥ 154 ॥

सिन्दूरशोणवसनं शीतांशुस्तबकचुम्बितकिरीटम् ।
कुङ्कुमतिलकमनोहर-कुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ 155 ॥

पूर्णेन्दुबिम्बवदनं फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गित-शफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ 156 ॥

मणिमयकुण्डलपुष्य-न्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधर-विसृमरसुस्मितकिशोरसञ्चारम् ॥ 157 ॥

आमोदिकुसुमशेखर-मानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीची-द्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ 158 ॥

पाशाङ्कुशेक्षुचाप-प्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं कामेशं मनसि कुर्महे सततम् ॥ 159 ॥

तस्याङ्कभुवि निषण्णां तरुणकदम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ 160 ॥

कुङ्कुमललामभास्व-न्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां नासाञ्चलनटितमौक्तिकाभरणाम् ॥ 161 ॥

अङ्कुरितमन्दहास-मरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुत-कपोलसङ्क्रान्तकनकताटङ्काम् ॥ 162 ॥

कर्पूरसान्द्रवीटी-कबलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठ-प्रलम्बमानाच्छमौक्तिककलापाम् ॥ 163 ॥

कह्लारदामकोमल-भुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलस-त्काञ्चनमयकटकवलयसन्दोहाम् ॥ 164 ॥

पाणिचतुष्टयविलस-त्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलङ्कषकुचशिखरां कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ 165 ॥

अणुदायादवलग्ना-मम्बुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकाञ्ची-मरीचिकाक्रान्तमांसलनितम्बाम् ॥ 166 ॥

करभोरुकाण्डयुगलां जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां पल्लवसच्छायपदयुगमनोज्ञाम् ॥ 167 ॥

कमलभवकञ्जलोचन-किरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पा-मुत्तरलापाङ्गपोषितानङ्गाम् ॥ 168 ॥

आदिमरसावलम्बा-मनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननी-मन्तः कलयामि सुन्दरीमनिशम् ॥ 169 ॥

कस्तु क्षितौ पटीया-न्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरन्तनसुकृतैः प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ 170 ॥

प्रभुसम्मितोक्तिगम्यं परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किञ्चन दिव्यं पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ 171 ॥

मधुरिमभरितशरासं मकरन्दस्यन्दिमार्गणोदारम् ।
कैरविणीविटचूडं कैवल्यायास्तु किञ्चन महो नः ॥ 172 ॥

अक्षुद्रमिक्षुचापं परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतर-मुक्षरथप्रेमपक्ष्मलं तेजः ॥ 173 ॥

भृङ्गरुचिसङ्गरकरापाङ्गं शृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलमभङ्गुरं मे घटयतु गङ्गाधराङ्गसङ्गि महः ॥ 174 ॥

प्रपदाजितकूर्ममूर्जित-करुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शम्भोः किञ्चन मम नर्म शर्म निर्मातु ॥ 175 ॥

कालकुरलालिकालिम-कन्दलविजितालि विधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं बहुलितगलगरलकेलि किमपि महः ॥ 176 ॥

कुङ्कुमतिलकितफाला कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ 177 ॥

पुष्पन्धयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ॥ 178 ॥

तपनीयांशुकभांसि द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि क्षपयतु कपालितोषितमनांसि ॥ 179 ॥

असितकचमायताक्षं कुसुमशरं कूलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवत-मन्तः कलये हराङ्कवासि महः ॥ 180 ॥

कर्णोपान्ततरङ्गित-कटाक्षविस्पन्दिकण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ 181 ॥

अरविन्दकान्त्यरुन्तुद-विलोचनद्वन्द्वसुन्दरमुखेन्दु ।
छन्दः कन्दलमन्दिर-मन्तःपुरमैन्दुशेखरं वन्दे ॥ 182 ॥

बिम्बिनिकुरम्बडम्बर-विडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकुचं बिम्बोकं कमपि चुम्बतु मनो मे ॥ 183 ॥

कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः सम्पादितकान्त्यलङ्कृतदिगन्तम् ॥ 184 ॥

शम्पारुचिभर-गर्हासम्पादककान्तिकवचितदिगन्तम् ।
सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ 185 ॥

उद्यद्दिनकरशोणा-नुत्पलबन्धुस्तनन्धयापीडान् ।
करकलितपुण्ड्रचापा-न्कलये कानपि कपर्दिनः प्राणान् ॥ 186 ॥

रशनालसज्जघनया रसनाजीवातुचापभासुरया ।
घ्राणायुष्करशरया घ्रातं चित्तं कयापि वासनया ॥ 187 ॥

सरसिजसहयुध्वदृशा शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो नासामणिशोभिवदनया भरितम् ॥ 188 ॥

नवयावकाभसिचयान्वितया गजयानया दयापरया ।
धृतयामिनीशकलया धिया कयापि क्षतामया हि वयम् ॥ 189 ॥

अलमलमकुसुमबाणै-रबिम्बशोणैरपुण्ड्रकोदण्डैः ।
अकुमुदबान्धवचूडै-रन्यैरिह जगति दैवतं मन्यैः ॥ 190 ॥

कुवलयसदृक्षनयनैः कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ 191 ॥

नतजनसुलभाय नमो नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो महसे नवनीपपाटलाय नमः ॥ 192 ॥

कादम्बकुसुमदाम्ने कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरन्तनगिरां भूम्ने कस्मैचिदाददे प्रणतिम् ॥ 193 ॥

कुटिलकबरीभरेभ्यः कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलङ्कषस्तनेभ्यः कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ 194 ॥

कोकनदशोणचरणा-त्कोमलकुरलालिविजितशैवालात् ।
उत्पलसगन्धिनयना-दुररीकुर्मो न देवतमान्याम् ॥ 195 ॥

आपाटलाधराणा-मानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनाना-माकूतानां हरस्य दासोऽहम् ॥ 196 ॥

पुङ्खितविलासहास-स्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनो मदीयं कास्वपि कामारिजीवनाडीषु ॥ 197 ॥

ललिता पातु शिरो मे ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ 198 ॥

पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्ति-श्चक्रेशी पातु मे चिरं चिबुकम् ॥ 199 ॥

कामेश्वरी च कर्णौ कामाक्षी पातु गण्डयोर्युगलम् ।
शृङ्गारनायिकाव्या-द्वदनं सिंहासनेश्वरी च गलम् ॥ 200 ॥

स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलीर्विजया ॥ 201 ॥

कोदण्डिनी च वक्षः कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं कटिं च पायात्कलाधरशिखण्डा ॥ 202 ॥

ऊरुद्वयं च पाया-दुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात् पादौ च पाशसृणिहस्ता ॥ 203 ॥

प्रातः पातु परा मां मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी साक्षात् ॥ 204 ॥

भार्यां रक्षतु गौरीं पायात् पुत्रांश्च बिन्दुगृहपीठा ।
श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ 205 ॥

पवनमयि पावकमयि क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि समयमयि प्राणमयि शिवे पाहि ॥ 206 ॥

कालि कपालिनि शूलिनि भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि बाले भुवनेशि पालय चिरं माम् ॥ 207 ॥

अभिनवसिन्दूराभा-मम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषा-मुत्पलनयनाकटाक्षकल्लोलाः ॥ 208 ॥

वर्गाष्टकमिलिताभि-र्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सितवर्णां वाचो निर्यान्त्ययत्नतो वदनात् ॥ 209 ॥

कनकशलाकागौरीं कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तो ये त एव भूधनदाः ॥ 210 ॥

शीर्षाम्भोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयता-मायुष्यं भवति पुष्कलमवन्याम् ॥ 211 ॥

मधुरस्मितां मदारुणनयनां मातङ्गकुम्भवक्षोजाम् ।
चन्द्रवतंसिनीं त्वां सविधे पश्यन्ति सुकृतिनः केचित् ॥ 212 ॥

ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां फलानि वक्तुं प्रगल्भते सैव ॥ 213 ॥

सदसदनुग्रहनिग्रह-गृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां दुर्वासा जयति देशिकः प्रथमः ॥ 214 ॥

इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।