Lord Krishna

उद्धवगीता - प्रथमोऽध्यायः

(Uddhava Gita - First Chapter)

From Shrimad Bhagavata Purana

The Uddhava Gita is a profound philosophical discourse found within the eleventh skandha of the Shrimad Bhagavata Purana. Attributed to the sage Veda Vyasa, it captures the final instructions imparted by Lord Krishna to his dear devotee and friend, Uddhava, as the Lord prepares to depart from the earthly realm. This dialogue delves into the essence of detachment, self-realization, and the path of devotion. By studying these verses, practitioners seek to transcend material illusions and cultivate unwavering wisdom, ultimately attaining inner peace, spiritual clarity, and a deeper understanding of the divine nature of Lord Krishna.

श्रीराधाकृष्णाभ्यां नमः ।
श्रीमद्भागवतपुराणम् ।
एकादशः स्कन्धः । उद्धव गीता ।
अथ प्रथमोऽध्यायः ।
श्रीबादरायणिः उवाच
कृत्वा दैत्यवधं कृष्णः सरमः यदुभिः वृतः ।
भुवः अवतारवत् भारं जविष्ठन् जनयन् कलिम् ॥ 1॥
ये कोपिताः सुबहु पाण्डुसुताः सपत्नैः
दुर्द्यूतहेलनकचग्रहण आदिभिः तान् ।
कृत्वा निमित्तं इतर इतरतः समेतान्
हत्वा नृपान् निरहरत् क्षितिभारं ईशः ॥ 2॥
भूभारराजपृतना यदुभिः निरस्य
गुप्तैः स्वबाहुभिः अचिन्तयत् अप्रमेयः ।
मन्ये अवनेः ननु गतः अपि अगतं हि भारम्
यत् यादवं कुलं अहो हि अविषह्यं आस्ते ॥ 3॥
न एव अन्यतः परिभवः अस्य भवेत् कथञ्चित्
मत् संश्रयस्य विभव उन्नहन् अस्य नित्यम् ।
अन्तःकलिं यदुकुलस्य विध्हाय वेणुः
तम्बस्य वह्निं इव शान्तिं उपैमि धाम ॥ 4॥
एवं व्यवसितः राजन् सत्यसङ्कल्पः ईश्वरः ।
शापव्याजेन विप्राणां सञ्जह्वे स्वकुलं विभुः ॥ 5॥
स्वमूर्त्या लोकलावण्यनिर्मुक्त्या लोचनं नृणाम् ।
गीर्भिः ताः स्मरतां चित्तं पदैः तान् ईक्षतां क्रिया ॥ 6॥
आच्छिद्य कीर्तिं सुश्लोकां वितत्य हि अञ्जसा नु कौ ।
तमः अनया तरिष्यन्ति इति अगात् स्वं पदं ईश्वरः ॥ 7॥
राजा उवाच
ब्रह्मण्यानां वदान्यानां नित्यं वृद्धौपसेविनाम् ।
विप्रशापः कथं अभूत् वृष्णीनां कृष्णचेतसाम् ॥ 8॥
यत् निमित्तः सः वै शापः यादृशः द्विजसत्तम ।
कथं एकात्मनां भेदः एतत् सर्वं वदस्व मे ॥ 9॥
श्रीशुकः उवाच
बिभ्रत् वपुः सकलसुन्दरसन्निवेशम्
कर्माचरन् भुवि सुमङ्गलं आप्तकामः ।
आस्थाय धाम रममाणः उदारकीर्तिः
संहर्तुं ऐच्छत कुलं स्थितकृत्यशेषः ॥ 10॥
कर्माणि पुण्यनिवहानि सुमङ्गलानि
गायत् जगत् कलिमलापहराणि कृत्वा ।
काल आत्मना निवसता यदुदेवगेहे
पिण्डारकं समगमन् मुनयः निसृष्टाः ॥ 11॥
विश्वामित्रः असितः कण्वः दुर्वासाः भृगुः अङ्गिराः ।
कश्यपः वामदेवः अत्रिः वसिष्ठः नारद आदयः ॥ 12॥
क्रीडन्तः तान् उपव्रज्य कुमाराः यदुनन्दनाः ।
उपसङ्गृह्य पप्रच्छुः अविनीता विनीतवत् ॥ 13॥
ते वेषयित्वा स्त्रीवेषैः साम्बं जाम्बवतीसुतम् ।
एषा पृच्छति वः विप्राः अन्तर्वत् न्यसित ईक्षणा ॥ 14॥
प्रष्टुं विलज्जति साक्षात् प्रब्रूत अमोघदर्शनाः ।
प्रसोष्यन्ति पुत्रकामा किंस्वित् सञ्जनयिष्यति ॥ 15॥
एवं प्रलब्ध्वा मुनयः तान् ऊचुः कुपिता नृप ।
जनयिष्यति वः मन्दाः मुसलं कुलनाशनम् ॥ 16॥
तत् श‍ऋत्वा ते अतिसन्त्रस्ताः विमुच्य सहसोदरम् ।
साम्बस्य ददृशुः तस्मिन् मुसलं खलु अयस्मयम् ॥ 17॥
किं कृतं मन्दभाग्यैः किं वदिष्यन्ति नः जनाः ।
इति विह्वलिताः गेहान् आदाय मुसलं ययुः ॥ 18॥
तत् च उपनीय सदसि परिम्लानमुखश्रियः ।
राज्ञः आवेदयान् चक्रुः सर्वयादवसन्निधौ ॥ 19॥
श्रुत्वा अमोघं विप्रशापं दृष्ट्वा च मुसलं नृप ।
विस्मिताः भयसन्त्रस्ताः बभूवुः द्वारकौकसः ॥ 20॥
तत् चूर्णयित्वा मुसलं यदुराजः सः आहुकः ।
समुद्रसलिले प्रास्यत् लोहं च अस्य अवशेषितम् ॥ 21॥
कश्चित् मत्स्यः अग्रसीत् लोहं चूर्णानि तरलैः ततः ।
उह्यमानानि वेलायां लग्नानि आसन् किल ऐरिकाः ॥ 22॥
मत्स्यः गृहीतः मत्स्यघ्नैः जालेन अन्यैः सह अर्णवे ।
तस्य उदरगतं लोहं सः शल्ये लुब्धकः अकरोत् ॥ 23॥
भगवान् ज्ञातसर्वार्थः ईश्वरः अपि तदन्यथा ।
कर्तुं न ऐच्छत् विप्रशापं कालरूपी अन्वमोदत ॥ 24॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे विप्रशापो नाम प्रथमोऽध्यायः ॥

Explore More