Lord Vishnu

पुरुषसूक्तम्

(Purusha Suktam)

Veda Vyasa (as part of Rigveda)

The Purusha Suktam is an ancient and profound Vedic hymn, primarily from the Rig Veda, that beautifully articulates the creation of the cosmos from a singular, omnipresent, and primordial being known as Purusha. It describes Purusha as the cosmic man with a thousand heads, eyes, and feet, signifying his all-encompassing nature and boundless form. Through a symbolic, grand sacrifice (Yajna) of this very Purusha, the hymn details the emanation of all existence—the heavens, earth, atmosphere, the Vedas, various social orders, celestial bodies, and all living creatures. This stotra uniquely positions creation as an internal unfolding from the divine self, thereby imbuing the entire universe with inherent sacredness and revealing a deep spiritual interconnectedness between the individual, society, and the cosmos.

सहस्रशीर्षा पुरुषःसहस्राक्षःसहस्रपात् ।
स भूमि सर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥1॥
पुरुषऽएवेदं सर्व यद्भूतं यच्च भाव्यम्।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥2॥
एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥3॥
त्रिपादूध्र्व उदैत्पुरुषःपादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशनेऽअभि ॥4॥
ततो विराडजायत विराजोऽअधि पूरुषः ।
स जातोऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥5॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥6॥
तस्माद्यज्ञात् सर्वहुतऽऋचः सामानि जज्ञिरे ।
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥7॥
तस्मादश्वाऽअजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः ॥8॥
तं यज्ञं बर्हिषि प्रौक्षन् पूरुषं जातमग्रतः ।
तेन देवाऽअयजन्त साध्याऽऋषयश्च ये ॥9॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादाऽउच्येते ॥10॥
ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रोऽअजायत ॥11॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥12॥
नाभ्याऽआसीदन्तरिक्ष शीष्णोर्द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँर्ऽअकल्पयन् ॥13॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्मऽइध्मः शरद्धविः ॥14॥
सप्तास्यासन् परिधयस्त्रिः सप्तः समिधः कृताः ।
देवा यद्यज्ञं तन्वानाऽअबध्नन् पुरुषं पशुम् ॥15॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥16॥
॥ इति पुरुष सूक्तम संपूर्ण ॥

Explore More