यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ ३॥
धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥
षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥
ॐ विष्णवे नम इति ॥ १०॥
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥
दरारिचर्मासिगदेषुचाप-पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
स्थलेषु मायावटुवामनोऽव्यात्त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
विमुञ्चतो यस्य महाट्टहासंदिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
रामोऽद्रिकूटेष्वथ विप्रवासेसलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥
दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
देवर्षिवर्यः पुरुषार्चनान्तरात्कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
यज्ञश्च लोकादवताञ्ज्जनान्ता-द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥
कल्किः कलेः कालमलात्प्रपातुधर्मावनायोरुकृतावतारः ॥ १९॥
नारायणः प्राह्ण उदात्तशक्ति-र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
दोषे हृषीकेश उतार्धरात्रेनिशीथ एकोऽवतु पद्मनाभः ॥ २१॥
दामोदरोऽव्यादनुसन्ध्यं प्रभातेविश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥
दन्दग्धि दन्दग्ध्यरिसैन्यमाशुकक्षं यथा वातसखो हुताशः ॥ २३॥
कूष्माण्डवैनायकयक्षरक्षो-भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
दरेन्द्र विद्रावय कृष्णपूरितोभीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५॥
चक्षूंषि चर्मञ्छतचन्द्र छादयद्विषामघोनां हर पापचक्षुषाम् ॥ २६॥
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७॥
प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥
सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥
पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
प्रहापयँलोकभयं स्वनेनस्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥
राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥
ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥
गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्शिराः ।
प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥
य इदं शृणुयात्काले यो धारयति चादृतः ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥
षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥
