Brahman

मुण्डक उपनिषद् - प्रथम मुण्डक, प्रथम काण्डः

(Mundaka Upanishad - First Mundaka, First Khanda)

From Atharvaveda

The Mundaka Upanishad, belonging to the Atharvaveda, serves as a profound philosophical treatise centered on the knowledge of Brahman. It famously initiates the dialogue between the sage Angiras and the householder Shaunaka, distinguishing between lower worldly knowledge and the higher spiritual wisdom that leads to self-realization. Chanting these verses helps practitioners transcend mundane attachments and intellectual limitations, fostering a direct experiential understanding of the ultimate reality. It is highly revered for its clarity in explaining the eternal nature of the soul and the path to liberation, serving as a foundational text for Vedantic study and spiritual enlightenment.

ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ ओ-म्ब्रह्मणे नमः ॥
॥ प्रथममुण्डके प्रथमः खण्डः ॥
ओ-म्ब्रह्मा देवाना-म्प्रथम-स्सम्बभूव विश्वस्य कर्ता
भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय
ज्येष्ठपुत्राय प्राह ॥ 1॥
अथर्वणे या-म्प्रवदेत ब्रह्मा-ऽथर्वा तां
पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
स भारद्वाजाय सत्यवाहाय प्राह
भारद्वाजो-ऽङ्गिरसे परावराम् ॥ 2॥
शौनको ह वै महाशालो-ऽङ्गिरसं-विँधिवदुपसन्नः पप्रच्छ ।
कस्मिन्नु भगवो विज्ञाते सर्वमिदं-विँज्ञात-म्भवतीति ॥ 3॥
तस्मै स होवाच ।
द्वे विद्ये वेदितव्ये इति ह स्म
यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ 4॥
तत्रापरा ऋग्वेदो यजुर्वेद-स्सामवेदो-ऽथर्ववेदः
शिक्षा कल्पो व्याकरण-न्निरुक्त-ञ्छन्दो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥ 5॥
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
मचक्षुस्श्रोत्र-न्तदपाणिपादम् ।
नित्यं-विँभुं सर्वगतं सुसूक्ष्मं
तदव्ययं-यँद्भूतयोनि-म्परिपश्यन्ति धीराः ॥ 6॥
यथोर्णनाभि-स्सृजते गृह्णते च
यथा पृथिव्यामोषधय-स्सम्भवन्ति ।
यथा सतः पुरुषा-त्केशलोमानि
तथा-ऽक्षरा-थ्सम्भवतीह विश्वम् ॥ 7॥
तपसा चीयते ब्रह्म ततो-ऽन्नमभिजायते ।
अन्ना-त्प्राणो मन-स्सत्यं-लोँकाः कर्मसु चामृतम् ॥ 8॥
य-स्सर्वज्ञ-स्सर्वविद्यस्य ज्ञानमय-न्तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्न-ञ्च जायते ॥ 9॥
॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥

Explore More