Pitrus (Ancestors)

पितृ स्तोत्रं 1 (गरुड पुराणम्)

(Pitru Stotram 1 (Garuda Puranam))

From Garuda Purana

This sacred hymn originates from the Garuda Purana, a primary text detailing the journey of the soul and the significance of ancestral worship. The Pitru Stotram is a reverent invocation addressed to the Pitrus, the ancestors who reside in the celestial realms. By chanting this stotra with devotion, the practitioner seeks the blessings and grace of their forefathers, facilitating their spiritual progression. It is believed that reciting these verses ensures ancestral peace, removes karmic obstacles, and bestows both material prosperity and ultimate liberation upon the devotee, fostering a deep, auspicious connection between the living and the departed.

रुचिरुवाच ।

नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवताः ।
देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ 1 ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।
श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ॥ 2 ॥
नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।
श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ 3 ॥
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।
तन्मयत्वेन वाञ्छद्भिरृद्धिर्यात्यन्तिकीं पराम् ॥ 4 ॥
नमस्येऽहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा ।
श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ 5 ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।
वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ 6 ॥
नमस्येऽहं पितॄन् ये वै तर्प्यन्तेऽरण्यवासिभिः ।
वन्यैः श्राद्धैर्यताहारैस्तपोनिर्धूतकल्मषैः ॥ 7 ॥
नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकैर्धर्मचारिभिः ।
ये संयतात्मभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ॥ 8 ॥
नमस्येऽहं पितॄन् श्राद्धै राजन्यास्तर्पयन्ति यान् ।
कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ 9 ॥
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।
स्वकर्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ 10 ॥
नमस्येऽहं पितॄन् श्राद्धे शूद्रैरपि च भक्तितः ।
सन्तर्प्यन्ते जगत्कृत्स्नं नाम्ना ख्याताः सुकालिनः ॥ 11 ॥
नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः ।
सन्तर्प्यन्ते सुधाहारास्त्यक्तदम्भमदैः सदा ॥ 12 ॥
नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले ।
भोगैरशेषैर्विधिवन्नागैः कामानभीप्सुभिः ॥ 13 ॥
नमस्येऽहं पितॄन् श्राद्धैः सर्पैः सन्तर्पितान्सदा ।
तत्रैव विधिवन्मन्त्रभोगसम्पत्समन्वितैः ॥ 14 ॥
पितॄन्नमस्ये निवसन्ति साक्षा-
-द्ये देवलोकेऽथ महीतले वा ।
तथाऽन्तरिक्षे च सुरारिपूज्या-
-स्ते मे प्रतीच्छन्तु मनोपनीतम् ॥ 15 ॥
पितॄन्नमस्ये परमार्थभूता
ये वै विमाने निवसन्त्यमूर्ताः ।
यजन्ति यानस्तमलैर्मनोभि-
-र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ 16 ॥
पितॄन्नमस्ये दिवि ये च मूर्ताः
स्वधाभुजः काम्यफलाभिसन्धौ ।
प्रदानशक्ताः सकलेप्सितानां
विमुक्तिदा येऽनभिसंहितेषु ॥ 17 ॥
तृप्यन्तु तेऽस्मिन्पितरः समस्ता
इच्छावतां ये प्रदिशन्ति कामान् ।
सुरत्वमिन्द्रत्वमितोऽधिकं वा
गजाश्वरत्नानि महागृहाणि ॥ 18 ॥
सोमस्य ये रश्मिषु येऽर्कबिम्बे
शुक्ले विमाने च सदा वसन्ति ।
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयै-
-र्गन्धादिना पुष्टिमितो व्रजन्तु ॥ 19 ॥
येषां हुतेऽग्नौ हविषा च तृप्ति-
-र्ये भुञ्जते विप्रशरीरसंस्थाः ।
ये पिण्डदानेन मुदं प्रयान्ति
तृप्यन्तु तेऽस्मिन्पितरोऽन्नतोयैः ॥ 20 ॥
ये खड्गमांसेन सुरैरभीष्टैः
कृष्णैस्तिलैर्दिव्य मनोहरैश्च ।
कालेन शाकेन महर्षिवर्यैः
सम्प्रीणितास्ते मुदमत्र यान्तु ॥ 21 ॥
कव्यान्यशेषाणि च यान्यभीष्टा-
-न्यतीव तेषां मम पूजितानाम् ।
तेषाञ्च सान्निध्यमिहास्तु पुष्प-
-गन्धाम्बुभोज्येषु मया कृतेषु ॥ 22 ॥
दिने दिने ये प्रतिगृह्णतेऽर्चां
मासान्तपूज्या भुवि येऽष्टकासु ।
ये वत्सरान्तेऽभ्युदये च पूज्याः
प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ 23 ॥
पूज्या द्विजानां कुमुदेन्दुभासो
ये क्षत्रियाणां ज्वलनार्कवर्णाः ।
तथा विशां ये कनकावदाता
नीलीप्रभाः शूद्रजनस्य ये च ॥ 24 ॥
तेऽस्मिन्समस्ता मम पुष्पगन्ध-
-धूपाम्बुभोज्यादिनिवेदनेन ।
तथाऽग्निहोमेन च यान्ति तृप्तिं
सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ 25 ॥
ये देवपूर्वाण्यभितृप्तिहेतो-
-रश्नन्ति कव्यानि शुभाहृतानि ।
तृप्ताश्च ये भूतिसृजो भवन्ति
तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मि तेभ्यः ॥ 26 ॥
रक्षांसि भूतान्यसुरांस्तथोग्रा-
-न्निर्नाशयन्तु त्वशिवं प्रजानाम् ।
आद्याः सुराणाममरेशपूज्या-
-स्तृप्यन्तु तेऽस्मिन्प्रणतोऽस्मितेभ्यः ॥ 27 ॥
अग्निस्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।
व्रजन्तु तृप्तिं श्राद्धेऽस्मिन्पितरस्तर्पिता मया ॥ 28 ॥
अग्निस्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् ।
तथा बर्हिषदः पान्तु याम्यां मे पितरः सदा ।
प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः ॥ 29 ॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।
सर्वतः पितरो रक्षां कुर्वन्तु मम नित्यशः ॥ 30 ॥
विश्वो विश्वभुगाराध्यो धर्मो धन्यः शुभाननः ।
भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ 31 ॥
कल्याणः कल्यदः कर्ता कल्यः कल्यतराश्रयः ।
कल्यताहेतुरनघः षडिमे ते गणाः स्मृताः ॥ 32 ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।
विश्वपाता तथा धाता सप्तैते च गणाः स्मृताः ॥ 33 ॥
महान्महात्मा महितो महिमावान्महाबलः ।
गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ 34 ॥
सुखदो धनदश्चान्यो धर्मदोऽन्यश्च भूतिदः ।
पितॄणां कथ्यते चैव तथा गणचतुष्टयम् ॥ 35 ॥
एकत्रिंशत्पितृगणा यैर्व्याप्तमखिलं जगत् ।
त एवात्र पितृगणास्तुष्यन्तु च मदाहितम् ॥ 36 ॥
इति श्री गरुडपुराणे ऊननवतितमोऽध्याये रुचिकृत पितृ स्तोत्रम् ।

Explore More