Lord Shiva

श्री गुरुगीता प्रथमोध्यायः

(Shri Guru Gita: First Chapter)

From Skanda Purana

The Guru Gita is a profound dialogue between Lord Shiva and Goddess Parvati found within the Skanda Purana. This first chapter introduces the seeker's inquiry, emphasizing the transformative power of the Guru. Through this sacred text, Shiva elucidates the nature of the Guru, who is identified as the manifest form of the Absolute Brahman. Chanting these verses helps dissolve spiritual ignorance, removes past karmic impurities, and awakens the dormant inner consciousness. It serves as a foundational guide for disciples, fostering deep devotion and clarity, ultimately leading the practitioner toward liberation and divine wisdom.

श्रीगुरुभ्यो नमः ।

हरिः ओम् । ध्यानम्

हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणं
विश्वोत्कीर्णमनेकदेहनिलयं स्वच्छन्दमानन्दकम् ।
आद्यन्तैकमखण्डचिद्घनरसं पूर्णं ह्यनन्तं शुभं
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥
अथ प्रथमोऽध्यायः ॥
अचिन्त्याव्यक्तरूपाय निर्गुणाय गणात्मने ।
समस्तजगदाधारमूर्तये ब्रह्मणे नमः ॥ 1 ॥
ऋषय ऊचुः ।
सूत सूत महाप्राज्ञ निगमागमपारग ।
गुरुस्वरूपमस्माकं ब्रूहि सर्वमलापहम् ॥ 2 ॥
यस्य श्रवणमात्रेण देही दुःखाद्विमुच्यते ।
येन मार्गेण मुनयः सर्वज्ञत्वं प्रपेदिरे ॥ 3 ॥
यत्प्राप्य न पुनर्याति नरः संसारबन्धनम् ।
तथाविधं परं तत्त्वं वक्तव्यमधुना त्वया ॥ 4 ॥
गुह्याद्गुह्यतमं सारं गुरुगीता विशेषतः ।
त्वत्प्रसादाच्च श्रोतव्या तत्सर्वं ब्रूहि सूत नः ॥ 5 ॥
इति सम्प्रार्थितः सूतो मुनिसङ्घैर्मुहुर्मुहुः ॥
कुतूहलेन महता प्रोवाच मधुरं वचः ॥ 6 ॥
सूत उवाच
श्रुणुध्वं मुनयः सर्वे श्रद्धया परया मुदा ।
वदामि भवरोगघ्नीं गीतां मातृस्वरूपिणीम् ॥ 7 ॥
पुरा कैलासशिखरे सिद्धगन्धर्वसेविते ।
तत्र कल्पलतापुष्पमन्दिरेऽत्यन्तसुन्दरे ॥ 8 ॥
व्याघ्राजिने समासीनं शुकादिमुनिवन्दितम् ।
बोधयन्तं परं तत्त्वं मध्ये मुनिगणे क्वचित् ॥ 9 ॥
प्रणम्रवदना शश्वन्नमस्कुर्वन्तमादरात् ।
दृष्ट्वा विस्मयमापन्न पार्वती परिपृच्छति ॥ 10 ॥
पार्वत्युवाच
ॐ नमो देव देवेश परात्पर जगद्गुरो ।
त्वां नमस्कुर्वते भक्त्या सुरासुरनराः सदा ॥ 11 ॥
विधिविष्णुमहेन्द्राद्यैर्वन्द्यः खलु सदा भवान् ।
नमस्करोषि कस्मै त्वं नमस्काराश्रयः किल ॥ 12 ॥
दृष्ट्वैतत्कर्म विपुलमाश्चर्य प्रतिभाति मे ।
किमेतन्न विजानेऽहं कृपया वद मे प्रभो ॥ 13 ॥
भगवन् सर्वधर्मज्ञ व्रतानां व्रतनायकम् ।
ब्रूहि मे कृपया शम्भो गुरुमाहात्म्यमुत्तमम् ॥ 14 ॥
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् ।
तत्कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ 15 ॥
इति सम्प्रार्थितः शश्वन्महादेवो महेश्वरः ।
आनन्दभरितः स्वान्ते पार्वतीमिदमब्रवीत् ॥ 16 ॥
श्री महादेव उवाच
न वक्तव्यमिदं देवि रहस्यातिरहस्यकम् ।
न कस्यापि पुरा प्रोक्तं त्वद्भक्त्यर्थं वदामि तत् ॥ 17 ॥
मम रूपाऽसि देवि त्वमतस्तत्कथयामि ते ।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ 18 ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ 19 ॥
यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
विकल्पं यस्तु कुर्वीत स नरो गुरुतल्पगः ॥ 20 ॥
दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् ।
गुरुब्रह्म विना नान्यः सत्यं सत्यं वरानने ॥ 21 ॥
वेदशास्त्रपुराणानि चेतिहासादिकानि च ।
मन्त्रयन्त्रादिविद्यानां मोहनोच्चाटनादिकम् ॥ 22 ॥
शैवशाक्तागमादीनि ह्यन्ये च बहवो मताः ।
अपभ्रंशाः समस्तानां जीवानां भ्रान्तचेतसाम् ॥ 23 ॥
जपस्तपो व्रतं तीर्थं यज्ञो दानं तथैव च ।
गुरुतत्त्वमविज्ञाय सर्वं व्यर्थं भवेत्प्रिये ॥ 24 ॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं वरानने ।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यश्च मनीषिभिः ॥ 25 ॥
गूढाविद्या जगन्माया देहश्चाज्ञानसम्भवः ।
विज्ञानं यत्प्रसादेन गुरुशब्देन कथ्यते ॥ 26 ॥
यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् ।
तारकं भवसिन्धोश्च तं गुरुं प्रणमाम्यहम् ॥ 27 ॥
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि तत् ।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् ॥ 28 ॥
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन् ॥ 29 ॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः ।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम् ॥ 30 ॥
अज्ञानमूलहरणं जन्मकर्मनिवारकम् ।
ज्ञानवैराग्यसिद्ध्यर्थं गुरोः पादोदकं पिबेत् ॥ 31 ॥
गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम् ।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम सदा जपः ॥ 32 ॥
स्वदेशिकस्यैव च नामकीर्तनं
भवेदनन्तस्य शिवस्य कीर्तनम् ।
स्वदेशिकस्यैव च नामचिन्तनं
भवेदनन्तस्य शिवस्य चिन्तनम् ॥ 33 ॥
यत्पादाम्बुजरेणुर्वै कोऽपि संसारवारिधौ ।
सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ 34 ॥
यदनुग्रहमात्रेण शोकमोहौ विनश्यतः ।
तस्मै श्रीदेशिकेन्द्राय नमोऽस्तु परमात्मने ॥ 35 ॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् ।
तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ॥ 36 ॥
काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम् ।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः ॥ 37 ॥
गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः ।
तत्पादं विष्णुपादं स्यात् तत्र दत्तमनस्ततम् ॥ 38 ॥
गुरुमूर्तिं स्मरेन्नित्यं गुरोर्नाम सदा जपेत् ।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यं न भावयेत् ॥ 39 ॥
गुरुवक्त्रे स्थितं ब्रह्म प्राप्यते तत्प्रसादतः ।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतिं यथा ॥ 40 ॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिं पुष्टिवर्धनम् ।
एतत्सर्वं परित्यज्य गुरुमेव समाश्रयेत् ॥ 41 ॥
अनन्याश्चिन्तयन्तो ये सुलभं परमं सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ 42 ॥
गुरुवक्त्रे स्थिता विद्या गुरुभक्त्या च लभ्यते ।
त्रैलोक्ये स्फुटवक्तारो देवर्षिपितृमानवाः ॥ 43 ॥
गुकारश्चान्धकारो हि रुकारस्तेज उच्यते ।
अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ 44 ॥
गुकारश्चान्धकारस्तु रुकारस्तन्निरोधकृत् ।
अन्धकारविनाशित्वाद्गुरुरित्यभिधीयते ॥
गुकारो भवरोगः स्यात् रुकारस्तन्निरोधकृत् ।
भवरोगहरत्वाच्च गुरुरित्यभिधीयते ॥ 45 ॥
गुकारश्च गुणातीतो रूपातीतो रुकारकः ।
गुणरूपविहीनत्वात् गुरुरित्यभिधीयते ॥ 46 ॥
गुकारः प्रथमो वर्णो मायादिगुणभासकः ।
रुकारोऽस्ति परं ब्रह्म मायाभ्रान्तिविमोचकम् ॥ 47 ॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् ।
हाहाहूहूगणैश्चैव गन्धर्वाद्यैश्च पूजितम् ॥ 48 ॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् ।
गुरोराराधनं कुर्यात् स्वजीवत्वं निवेदयेत् ॥ 49 ॥
आसनं शयनं वस्त्रं वाहनं भूषणादिकम् ।
साधकेन प्रदातव्यं गुरुसन्तोषकारणम् ॥ 50 ॥
कर्मणा मनसा वाचा सर्वदाऽऽराधयेद्गुरुम् ।
दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ 51 ॥
शरीरमिन्द्रियं प्राणमर्थस्वजनबान्धवान् ।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ 52 ॥
गुरुरेको जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् ।
गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ॥ 53 ॥
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजम् ।
वेदान्तार्थप्रवक्तारं तस्मात् सम्पूजयेद्गुरुम् ॥ 54 ॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् ।
स एव सर्वसम्पत्तिः तस्मात्सम्पूजयेद्गुरुम् ॥ 55 ॥
[पाठभेदः -
कृमिकोटिभिराविष्टं दुर्गन्धमलमूत्रकम् ।
श्लेष्मरक्तत्वचामांसैर्नद्धं चैतद्वरानने ॥
]
कृमिकोटिभिराविष्टं दुर्गन्धकुलदूषितम् ।
अनित्यं दुःखनिलयं देहं विद्धि वरानने ॥ 56 ॥
संसारवृक्षमारूढाः पतन्ति नरकार्णवे ।
यस्तानुद्धरते सर्वान् तस्मै श्रीगुरवे नमः ॥ 57 ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ॥ 58 ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 59 ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 60 ॥
स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।
त्वं पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 61 ॥
चिन्मयव्यापितं सर्वं त्रैलोक्यं सचराचरम् ।
असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 62 ॥
निमिषान्निमिषार्धाद्वा यद्वाक्याद्वै विमुच्यते ।
स्वात्मानं शिवमालोक्य तस्मै श्रीगुरवे नमः ॥ 63 ॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।
नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ 64 ॥
निर्गुणं निर्मलं शान्तं जङ्गमं स्थिरमेव च ।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ 65 ॥
स पिता स च मे माता स बन्धुः स च देवता ।
संसारमोहनाशाय तस्मै श्रीगुरवे नमः ॥ 66 ॥
यत्सत्त्वेन जगत्सत्त्वं यत्प्रकाशेन भाति तत् ।
यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ 67 ॥
यस्मिन् स्थितमिदं सर्वं भाति यद्भानरूपतः ।
प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ 68 ॥
येनेदं दर्शितं तत्त्वं चित्तचैत्यादिकं तथा ।
जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ 69 ॥
यस्य ज्ञानमिदं विश्वं न दृश्यं भिन्नभेदतः ।
सदैकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ 70 ॥
यस्य ज्ञातं मतं तस्य मतं यस्य न वेद सः ।
अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥ 71 ॥
यस्मै कारणरूपाय कार्यरूपेण भाति यत् ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 72 ॥
नानारूपमिदं विश्वं न केनाप्यस्ति भिन्नता ।
कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 73 ॥
ज्ञानशक्तिसमारूढतत्त्वमालाविभूषिणे ।
भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ 74 ॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने ।
ज्ञानानलप्रभावेन तस्मै श्रीगुरवे नमः ॥ 75 ॥
शोषणं भवसिन्धोश्च दीपनं क्षरसम्पदाम् ।
गुरोः पादोदकं यस्य तस्मै श्रीगुरवे नमः ॥ 76 ॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः ।
न गुरोरधिकं ज्ञानं तस्मै श्रीगुरवे नमः ॥ 77 ॥
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
ममाऽऽत्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 78 ॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् ।
गुरुमन्त्रसमो नास्ति तस्मै श्रीगुरवे नमः ॥ 79 ॥
एक एव परो बन्धुर्विषमे समुपस्थिते ।
गुरुः सकलधर्मात्मा तस्मै श्रीगुरवे नमः ॥ 80 ॥
गुरुमध्ये स्थितं विश्वं विश्वमध्ये स्थितो गुरुः ।
गुरुर्विश्वं न चान्योऽस्ति तस्मै श्रीगुरवे नमः ॥ 81 ॥
भवारण्यप्रविष्टस्य दिङ्मोहभ्रान्तचेतसः ।
येन सन्दर्शितः पन्थाः तस्मै श्रीगुरवे नमः ॥ 82 ॥
तापत्रयाग्नितप्तानामशान्तप्राणिनां मुदे ।
गुरुरेव परा गङ्गा तस्मै श्रीगुरवे नमः ॥ 83 ॥
[पाठभेदः -
अज्ञानेनाहिना ग्रस्ताः प्राणिनस्तान् चिकित्सकः ।
विद्यास्वरूपो भगवांस्तस्मै श्रीगुरवे नमः ॥
]
अज्ञानसर्पदष्टानां प्राणिनां कश्चिकित्सकः ।
सम्यग्​ज्ञानमहामन्त्रवेदिनं सद्गुरु विना ॥ 84 ॥
हेतवे जगतामेव संसारार्णवसेतवे ।
प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ 85 ॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मुक्तिमूलं गुरोः कृपा ॥ 86 ॥
सप्तसागरपर्यन्ततीर्थस्नानफलं तु यत् ।
गुरोः पादोदबिन्दोश्च सहस्रांशे न तत्फलम् ॥ 87 ॥
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ।
लब्ध्वा कुलगुरुं सम्यग्गुरुमेव समाश्रयेत् ॥ 88 ॥
मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ 89 ॥
वन्दे गुरुपदद्वन्द्वं वाङ्मनातीतगोचरम् ।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ 90 ॥
गुकारं च गुणातीतं रूकारं रूपवर्जितम् ।
गुणातीतमरूपं च यो दद्यात्स गुरुः स्मृतः ॥ 91 ॥
अत्रिनेत्रः शिवः साक्षात् द्विबाहुश्च हरिः स्मृतः ।
योऽचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ 92 ॥
अयं मयाञ्जलिर्बद्धो दयासागरसिद्धये ।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥ 93 ॥
श्रीगुरोः परमं रूपं विवेकचक्षुरग्रतः ।
मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥ 94 ॥
कुलानां कुलकोटीनां तारकस्तत्र तत्​क्षणात् ।
अतस्तं सद्गुरुं ज्ञात्वा त्रिकालमभिवादयेत् ॥ 95 ॥
श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ 96 ॥
साष्टाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् ।
भजनात् स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ 97 ॥
दोर्भ्यां पद्भ्यां च जानुभ्यामुरसा शिरसा दृशा ।
मनसा वचसा चेति प्रणामोऽष्टाङ्ग उच्यते ॥ 98 ॥
तस्यै दिशे सततमञ्जलिरेष नित्यं
प्रक्षिप्यतां मुखरितैर्मधुरैः प्रसूनैः ।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वस्थितिप्रलयनाटकनित्यसाक्षी ॥ 99 ॥
अभ्यस्तैः किमु दीर्घकालविमलैर्व्याधिप्रदैर्दुष्करैः
प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः ।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्​क्षणात्
प्राप्तुं तत्सहजस्वभावमनिशं सेवेत चैकं गुरुम् ॥ 100 ॥
ज्ञानं विना मुक्तिपदं लभ्यते गुरुभक्तितः ।
गुरोस्समानतो नान्यत् साधनं गुरुमार्गिणाम् ॥ 101 ॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः ।
मनसा वचसा चैव सत्यमाराधयेद्गुरुम् ॥ 102 ॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुमहेश्वराः ।
सामर्थ्यमभजन् सर्वे सृष्टिस्थित्यन्तकर्मणि ॥ 103 ॥
देवकिन्नरगन्धर्वाः पितृयक्षास्तु तुम्बुरः ।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ॥ 104 ॥
तार्किकाश्छान्दसाश्चैव दैवज्ञाः कर्मठाः प्रिये ।
लौकिकास्ते न जानन्ति गुरुतत्त्वं निराकुलम् ॥ 105 ॥
महाहङ्कारगर्वेण ततोविद्याबलेन च ।
भ्रमन्ति चास्मिन् संसारे घटीयन्त्रं यथा पुनः ॥ 106 ॥
यज्ञिनोऽपि न मुक्ताः स्युः न मुक्ता योगिनस्तथा ।
तापसा अपि नो मुक्ता गुरुतत्त्वात्पराङ्मुखाः ॥ 107 ॥
न मुक्तास्तु च गन्धर्वाः पितृयक्षास्तु चारणाः ।
ऋषयः सिद्धदेवाद्या गुरुसेवापराङ्मुखाः ॥ 108 ॥
इति श्रीस्कन्दपुराणे उत्तरखण्डे उमामहेश्वर संवादे श्री गुरुगीतायां प्रथमोऽध्यायः ॥

Explore More