Brahman

माण्डूक्य उपनिषद्

(Mandukya Upanishad)

From Atharva Veda

The Mandukya Upanishad is the shortest yet most profound of the principal Upanishads, belonging to the Atharva Veda. It explores the nature of the ultimate reality, Brahman, through the analysis of the sacred syllable Om and the four states of consciousness: waking, dreaming, deep sleep, and the transcendental Turiya. Traditionally associated with the sage Mandukya, this text serves as a roadmap for self-realization. Studying and meditating on its verses helps seekers transcend worldly illusions, purify the mind, and attain liberation by understanding the fundamental unity of the individual soul with the supreme cosmic consciousness.

ओ-म्भ॒द्र-ङ्कर्णे॑भि-श्शृणु॒याम॑ देवाः । भ॒द्र-म्प॑श्येमा॒क्षभि॒-र्यज॑त्राः । स्थि॒रैरङ्गै᳚स्तुष्टु॒वाग्ं स॑स्त॒नूभिः॑ । व्यशे॑म दे॒वहि॑तं॒-यँदायुः॑ । स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः । स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः । स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः । स्व॒स्ति नो॒ बृह॒स्पति॑-र्दधातु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ अथ माण्डूक्योपनिषत् ॥
हरिः ओम् ।
ओमित्येतदक्षरमिदग्ं सर्व-न्तस्योपव्याख्यानं
भूत-म्भवद् भविष्यदिति सर्वमोङ्कार एव
यच्चान्य-त्त्रिकालातीत-न्तदप्योङ्कार एव ॥ 1 ॥
सर्वग्ं ह्येतद् ब्रह्मायमात्मा ब्रह्म सो-ऽयमात्मा चतुष्पात् ॥ 2 ॥
जागरितस्थानो बहिष्प्रज्ञ-स्सप्ताङ्ग एकोनविंशतिमुखः
स्थूलभुग्वैश्वानरः प्रथमः पादः ॥ 3 ॥
स्वप्नस्थानो-ऽन्तःप्रज्ञ-स्सप्ताङ्ग एकोनविंशतिमुखः
प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ 4 ॥
यत्र सुप्तो न कञ्चन काम-ङ्कामयते न कञ्चन स्वप्नं
पश्यति त-थ्सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन
एवानन्दमयो ह्यानन्दभुक्चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ 5 ॥
एष सर्वेश्वरः एष सर्वज्ञ एषो-ऽन्तर्याम्येष योनि-स्सर्वस्य
प्रभवाप्ययौ हि भूतानाम् ॥ 6 ॥
नान्तःप्रज्ञ-न्न बहिष्प्रज्ञ-न्नोभयतःप्रज्ञ-न्न प्रज्ञानघनं
न प्रज्ञ-न्नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं
अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसार-म्प्रपञ्चोपशमं
शान्तं शिवमद्वैत-ञ्चतुर्थ-म्मन्यन्ते स आत्मा स विज्ञेयः ॥ 7 ॥
सो-ऽयमात्माध्यक्षरमोङ्कारो-ऽधिमात्र-म्पादा मात्रा मात्राश्च पादा
अकार उकारो मकार इति ॥ 8 ॥
जागरितस्थानो वैश्वानरो-ऽकारः प्रथमा मात्रा-ऽऽप्तेरादिमत्त्वाद्
वा-ऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं-वेँद ॥ 9 ॥
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्​षात्
उभयत्वाद्वोत्कर्​षति ह वै ज्ञानसन्ततिं समानश्च भवति
नास्याब्रह्मवित्कुले भवति य एवं-वेँद ॥ 10 ॥
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा
मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं-वेँद ॥ 11 ॥
अमात्रश्चतुर्थो-ऽव्यवहार्यः प्रपञ्चोपशम-श्शिवो-ऽद्वैत
एवमोङ्कार आत्मैव सं​विँशत्यात्मना-ऽऽत्मानं-यँ एवं-वेँद ॥ 12 ॥
॥ इति माण्डूक्योपनिष-थ्समाप्ता ॥

Explore More