Goddess Saraswati

सरस्वती स्तवम्

(Saraswati Stavam)

From Brahmavaivarta Purana

Saraswati Stavam is a profound prayer dedicated to Goddess Saraswati, the embodiment of wisdom, arts, and eloquence. Originating from the Brahmavaivarta Purana, this stotra is famously chanted by those seeking to overcome ignorance and regain lost knowledge. The verses serve as an earnest plea to the Goddess to bestow intellectual clarity, memory, and the power of scholarly articulation. Devotees recite this hymn to dispel the darkness of confusion, acquire academic excellence, and gain the spiritual insight necessary to master scriptures and achieve divine wisdom through her grace.

याज्ञवल्क्यकृत सरस्वती स्तवम् याज्ञवल्क्य उवाच

कृपां कुरु जगन्मातर्‌-मामेवं हततेजसम्‌ ।
गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्‌ ॥ 1 ॥
ज्ञानं देहि स्मृतिं विद्यां शक्तिं शिष्य प्रबोधिनीम्‌ ।
ग्रन्थकर्तृत्व शक्तिं च सुशिष्यं सुप्रतिष्ठितम्‌ ॥ 2 ॥
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम्‌ ।
लुप्तं सर्वं दैव योगा-न्नवीभूतं पुनः कुरु ॥ 3 ॥
यथाङ्कुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ॥ 4 ॥
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ।
विसर्ग बिन्दुमात्रासु यदधिष्ठानमेवच ॥ 5 ॥
तदधिष्ठात्री या देवी तस्यै वाण्यै नमो नमः ।
व्याख्यास्वरूपा सा देवी व्याख्याधिष्ठातृरूपिणी ॥ 6 ॥
यया विना प्रसङ्ख्यावान् सङ्ख्यां कर्तुं न शक्यते ।
कालसङ्ख्या स्वरूपा या तस्यै देव्यै नमो नमः ॥ 7 ॥
भ्रम सिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरूपिणी ॥ 8 ॥
प्रतिभाकल्पनाशक्तिर्‌-या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ 9 ॥
बभूव मूकवत्सोस्पि सिद्धान्तं कर्तु मक्षमः ।
तदाष्जगाम भगवा-नात्मा श्रीकृष्ण ईश्वरः ॥ 10 ॥
उवाचस च तां स्तौहि वाणी मिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ 11 ॥
चकार तत्प्रसादेन तदा सिद्धान्त मुत्तमम्‌ ।
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ॥ 12 ॥
बभूव मूकवत्सोस्पि सिद्धान्तं कर्तु मक्षमः ।
तदा तां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया ॥ 13 ॥
तत श्चकार सिद्धान्तं निर्मलं भ्रम भञ्जनम्‌ ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ 14 ॥
मौनीभूत श्च सस्मार तामेव जगदम्बिकाम्‌ ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ॥ 15 ॥
सम्प्राप्य निर्मलं ज्ञानं भ्रमान्ध्य ध्वंसदीपकम्‌ ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ॥ 16 ॥
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ॥ 17 ॥
तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम्‌ ॥ 18 ॥
क्षणं तामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेन्द्र श्च बृहस्पतिम्‌ ॥ 19 ॥
दिव्य वर्ष सहस्रं च स त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्रकम्‌ ॥ 20 ॥
उवाचशब्द शास्त्रं च तदर्थं च सुरेश्वरम्‌ ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ 21 ॥
ते च तां परिसञ्चित्य प्रवर्तन्ते सुरेश्वरीम्‌ ।
त्वं संस्तुता पूजिता च मुनीन्द्रै र्मनु मानवैः ॥ 22 ॥
दैत्येन्द्रै श्च सुरैश्चापि ब्रह्म विष्णुशिवादिभिः ।
जडीभूत स्सहस्रास्यः पञ्चवक्त्र श्चतुर्मुखः ॥ 23 ॥
यां स्तोतुं कि महं स्तौमि तामेकास्येन मानवः ।
इत्युक्त्वा याज्ञवल्क्य श्च भक्तिनम्रात्म कन्धरः ॥ 24 ॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरूपा महामाया तेन दृष्टा7प्युवाचतम्‌ ॥ 25 ॥
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।
याज्ञवल्क्य कृतं वाणी स्तोत्रमेतत्तु यः पठेत्‌ ॥ 26 ॥
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत्‌ ।
महा मूर्खश्च दुर्बुद्धिर्‌-वर्षमेकं यदा पठेत्‌ ।
स पण्डितश्च मेधावी सुकवीन्द्रो भवेद्ध्रुवम्‌ ॥ 27 ॥
इति श्री देवी भागवते महापुराणे नवमस्कन्धे सरस्वतीस्तवं नाम पञ्चमोध्यायः । सरस्वती कटाक्ष सिद्धिरस्तु । इदं मयाकृतं पारायणं श्रीसद्गुरु चरणारविन्दार्पणमस्तु ।

Explore More