श्रीसरस्वती कवचम्
श्रृणु देवि! प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् ।
अतुल्यं वाक्प्रदं सद्यः कवचं देवदुर्लभम् ॥ १॥
यमश्चापि धनेशश्च वरुणो यक्षराट् तथा ॥ २॥
यस्य प्रसादात् कामेशः त्रैलोक्यं मोहयेत् क्षणात् ॥ ३॥
ब्रह्मा सृजति विश्वं च विष्णुर्दैत्यनिसूदनः ।
शिवः संहरते विश्व जिष्णुः सुमनसां पतिः ॥ ५॥
त्रैलोक्यमोहनं वक्ष्ये भोगमोक्षैकसाधनम् ॥ ६॥
त्रैलोक्यमोहनस्यास्य कवचस्य प्रकीर्तितः ॥ ७॥
विनियोगः
अस्य श्रीसरस्वती देवता, ह्रीं बीजं, ॐ शक्तिः, ऐं कीलकं,
त्रिवर्गफलसाधने विनियोगः ।
ऋष्यादिन्यासः
देवीसरस्वत्यै नमः हृदि । ह्रीं बीजाय नमः गुह्ये ।
ॐ शक्तये नमः नाभौ । ऐं कीलकाय नमः पादयोः ।
त्रिवर्गफलसाधने विनियोगाय नमः सर्वाङ्गे॥
कवचम्
ॐ ह्रीं सरस्वती देवी भालं पातु सदा मम ॥ ८॥
ॐ ऐं ह्रीं पातु नेत्रे सर्वमङ्गलमङ्गला ॥ ९॥
ॐ ऐं नासा पातु नित्यं विद्या विद्यावरप्रदा ॥ १०॥
अं आं इं ईं पातु दन्तान् त्रिदन्तेश्वर पूजिताः ॥ ११॥
ओं औं अं अः पातु कण्ठं नीलकण्ठाङ्कवासिनी ॥ १२॥
चं छं जं झं ञं मे पातु वक्षो वक्षःस्थलाश्रया ॥ १३॥
तं थं दं धं नं मे पातु मध्ये लोकेशपूजिता ॥ १४॥
यं रं लं वं पातु गुह्य नितम्बप्रियवादिनी ॥ १५॥
ऊरू ळं क्षं सदा पातु सर्वाविद्याप्रदा शिवा ॥ १६॥
ॐ ह्रीं ऐं ह्रीं पातु पादौ पादपीठनिवासिनी ॥ १७॥
तत्सर्वं पातु वागेशी मूलविद्यामयी परा ॥ १८॥
सरस्वती दक्षिणे च नैरृत्ये चानलप्रिया ॥ १९॥
उत्तरे पातु विद्या चैशान्यां विद्याधरी तथा ॥ २०॥
चण्डश्च पातु वातान्मे क्रोधेशः पातु धावतः ॥ २१॥
कपाली मार्गमध्ये च संहारश्च प्रवेशतः ॥ २२॥
शिरसः पादपर्यन्तं देवी सरस्वती मम ॥ २३॥
फलश्रुतिः
त्रैलोक्यमोहनं नाम दारिद्र्यभयनाशनम् ॥ २४॥
विद्याप्रदं साधकानां मूलविद्यामयं परम् ॥ २५॥
यः पठेत् कवचं देवि! विवादे शत्रुसङ्कटे ॥ २६॥
पठनात् कवचस्यास्य राज्यकोपः प्रशाम्यति ॥ २७॥
रसैर्भूजे लिखेद् वर्म रविवारे महेश्वरि! ॥ २८॥
सुवर्णगुटिकां तत्स्थां पूजयेत् यन्त्रराजवत् ॥ २९॥
सर्वार्थसाधनी लोके यथाऽभीष्टफलप्रदा ॥ ३०॥
इदं कवचमीशानि मूलविद्यामयं ध्रुवम् ॥ ३१॥
आयुष्यकरं पुष्टिकरं श्रीकरं च यशः प्रदम् ॥ ३२॥
कवचं मन्त्रगर्भं तु त्रैलोक्य मोहनाभिधम् ॥ ३३॥
