Lord Shiva

श्री अर्धनारीश्वराष्टोत्तरशतनामावली

(Sri Ardhanarishvara Ashtottara Shatanamavali)

Also known as ardhanarishvara 108 names · ardhanareeshwara namavali · ardhanarishwara ashtottara

The hundred and eight names of Ardhanarishvara, the form that is half Shiva and half the goddess — and the litany is built to match, alternating a feminine name with a masculine one down the whole length of it, so that the pairing is in the grammar and not only in the image. To Chamundika the mother, to Shrikantha; to Parvati, to the supreme lord; to the great queen, to Mahadeva; to the ever-worshipped, to Sadashiva. It keeps that step for a hundred names — to Bhairavi and to Kalabhairava, to her rich in the form of the three powers and to him who has the three forms — and locates the pair at Kamakoti and at Kashi. The last pair closes it exactly as it began: to her whose form is all auspiciousness, to the giver of every welfare.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 217
॥ नामावली ॥
ॐ चामुण्डिकाम्बायै नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ पार्वत्यै नमः ।
ॐ परमेश्वराय नमः ।
ॐ महाराज्ञ्यै नमः ।
ॐ महादेवाय नमः ।
ॐ सदाराध्यायै नमः ।
ॐ सदाशिवाय नमः ।
ॐ शिवार्धाङ्ग्यै नमः ।
ॐ शिवार्धाङ्गाय नमः ॥ १० ॥
ॐ भैरव्यै नमः ।
ॐ कालभैरवाय नमः ।
ॐ शक्तित्रितयरूपाढ्यायै नमः ।
ॐ मूर्तित्रितयरूपवते नमः ।
ॐ कामकोटिसुपीठस्थायै नमः ।
ॐ काशीक्षेत्रसमाश्रयाय नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ दक्षवैरिणे नमः ।
ॐ शूलिन्यै नमः ।
ॐ शूलधारकाय नमः ॥ २० ॥
ॐ ह्रीङ्कारपञ्जरशुक्यै नमः ।
ॐ हरिशङ्कररूपवते नमः ।
ॐ श्रीमद्गणेशजनन्यै नमः ।
ॐ षडाननसुजन्मभुवे नमः ।
ॐ पञ्चप्रेतासनारूढायै नमः ।
ॐ पञ्चब्रह्मस्वरूपभृते नमः ।
ॐ चण्डमुण्डशिरश्छेत्र्यै नमः ।
ॐ जलन्धरशिरोहराय नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ वृषारूढाय नमः ॥ ३० ॥
ॐ श्यामाभायै नमः ।
ॐ स्फटिकप्रभाय नमः ।
ॐ महिषासुरसंहर्त्र्यै नमः ।
ॐ गजासुरविमर्दनाय नमः ।
ॐ महाबलाचलावासायै नमः ।
ॐ महाकैलासवासभुवे नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ वीरभद्राय नमः ।
ॐ मीनाक्ष्यै नमः ।
ॐ सुन्दरेश्वराय नमः ॥ ४० ॥
ॐ भण्डासुरादिसंहर्त्र्यै नमः ।
ॐ दुष्टान्धकविमर्दनाय नमः ।
ॐ मधुकैटभसंहर्त्र्यै नमः ।
ॐ मधुरापुरनायकाय नमः ।
ॐ कालत्रयस्वरूपाढ्यायै नमः ।
ॐ कार्यत्रयविधायकाय नमः ।
ॐ गिरिजातायै नमः ।
ॐ गिरीशाय नमः ।
ॐ वैष्णव्यै नमः ।
ॐ विष्णुवल्लभाय नमः ॥ ५० ॥
ॐ विशालाक्ष्यै नमः ।
ॐ विश्वनाथाय नमः ।
ॐ पुष्पास्त्रायै नमः ।
ॐ विष्णुमार्गणाय नमः ।
ॐ कौसुम्भवसनोपेतायै नमः ।
ॐ व्याघ्रचर्माम्बरावृताय नमः ।
ॐ मूलप्रकृतिरूपाढ्यायै नमः ।
ॐ परब्रह्मस्वरूपवाते नमः ।
ॐ रुण्डमालाविभूषाढ्यायै नमः ।
ॐ लसद्रुद्राक्षमालिकाय नमः ॥ ६० ॥
ॐ मनोरूपेक्षुकोदण्डायै नमः ।
ॐ महामेरुधनुर्धराय नमः ।
ॐ चन्द्रचूडायै नमः ।
ॐ चन्द्रमौलिने नमः ।
ॐ महामायायै नमः ।
ॐ महेश्वराय नमः ।
ॐ महाकाल्यै नमः ।
ॐ महाकालाय नमः ।
ॐ दिव्यरूपायै नमः ।
ॐ दिगम्बराय नमः ॥ ७० ॥
ॐ बिन्दुपीठसुखासीनायै नमः ।
ॐ श्रीमदोङ्कारपीठगाय नमः ।
ॐ हरिद्राकुङ्कुमालिप्तायै नमः ।
ॐ भस्मोद्धूलितविग्रहाय नमः ।
ॐ महापद्माटवीलोलायै नमः ।
ॐ महाबिल्वाटवीप्रियाय नमः ।
ॐ सुधामय्यै नमः ।
ॐ विषधराय नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ मुकुटेश्वराय नमः ॥ ८० ॥
ॐ वेदवेद्यायै नमः ।
ॐ वेदवाजिने नमः ।
ॐ चक्रेश्यै नमः ।
ॐ विष्णुचक्रदाय नमः ।
ॐ जगन्मय्यै नमः ।
ॐ जगद्रूपाय नमः ।
ॐ मृडाण्यै नमः ।
ॐ मृत्युनाशनाय नमः ।
ॐ रामार्चितपदाम्भोजायै नमः ।
ॐ कृष्णपुत्रवरप्रदाय नमः ॥ ९० ॥
ॐ रमावाणीसुसंसेव्यायै नमः ।
ॐ विष्णुब्रह्मसुसेविताय नमः ।
ॐ सूर्यचन्द्राग्निनयनायै नमः ।
ॐ तेजस्त्रयविलोचनाय नमः ।
ॐ चिदग्निकुण्डसम्भूतायै नमः ।
ॐ महालिङ्गसमुद्भवाय नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कालकण्ठाय नमः ।
ॐ वज्रेश्यै नमः ।
ॐ वज्रिपूजिताय नमः ॥ १०० ॥
ॐ त्रिकण्टक्यै नमः ।
ॐ त्रिभङ्गीशाय नमः ।
ॐ भस्मरक्षायै नमः ।
ॐ स्मरान्तकाय नमः ।
ॐ हयग्रीववरोद्धात्र्यै नमः ।
ॐ मार्कण्डेयवरप्रदाय नमः ।
ॐ चिन्तामणिगृहावासायै नमः ।
ॐ मन्दराचलमन्दिराय नमः ।
ॐ विन्ध्याचलकृतावासायै नमः ।
ॐ विन्ध्यशैलार्यपूजिताय नमः ॥ ११० ॥
ॐ मनोरमन्यै नमः ।
ॐ लिङ्गरूपाय नमः ।
ॐ जगदम्बायै नमः ।
ॐ जगत्पित्रे नमः ।
ॐ योगनिद्रायै नमः ।
ॐ योगगम्याय नमः ।
ॐ भवान्यै नमः ।
ॐ भवमूर्तिमते नमः ।
ॐ श्रीचक्रात्मरथारूढायै नमः ।
ॐ धरणीधरसंस्थिताय नमः ॥ १२० ॥
ॐ श्रीविद्यावेद्यमहिमायै नमः ।
ॐ निगमागमसंश्रयाय नमः ।
ॐ दशशीर्षसमायुक्तायै नमः ।
ॐ पञ्चविंशतिशीर्षवते नमः ।
ॐ अष्टादशभुजायुक्तायै नमः ।
ॐ पञ्चाशत्करमण्डिताय नमः ।
ॐ ब्राह्म्यादिमातृकारूपायै नमः ।
शताष्टेकादशात्मवते नमः ।
ॐ स्थिरायै नमः ।
ॐ स्थाणवे नमः ॥ १३० ॥
ॐ बालायै नमः ।
ॐ सद्योजाताय नमः ।
ॐ उमायै नमः ।
ॐ मृडाय नमः ।
ॐ शिवाय नमः ।
ॐ शिवाय नमः ।
ॐ रुद्राण्यै नमः ।
ॐ रुद्राय नमः ।
ॐ शैवेश्वर्यै नमः ।
ॐ ईश्वराय नमः ॥ १४० ॥
ॐ कदम्बकाननावासायै नमः ।
ॐ दारुकारण्यलोलुपाय नमः ।
ॐ नवाक्षरीमनुस्तुत्यायै नमः ।
ॐ पञ्चाक्षरमनुप्रियाय नमः ।
ॐ नवावरणसम्पूज्यायै नमः ।
ॐ पञ्चायतनपूजिताय नमः ।
ॐ देहस्थषट्चक्रदेव्यै नमः ।
ॐ दहराकाशमध्यगाय नमः ।
ॐ योगिनीगणसंसेव्यायै नमः ।
ॐ भृङ्ग्यादिप्रमथावृताय नमः ॥ १५० ॥
ॐ उग्रतारायै नमः ।
ॐ घोररूपाय नमः ।
ॐ शर्वाण्यै नमः ।
ॐ शर्वमूर्तिमते नमः ।
ॐ नागवेण्यै नमः ।
ॐ नागभूषाय नमः ।
ॐ मन्त्रिण्यै नमः ।
ॐ मन्त्रदैवताय नमः ।
ॐ ज्वलज्जिह्वायै नमः ।
ॐ ज्वलन्नेत्राय नमः ॥ १६० ॥
ॐ दण्डनाथायै नमः ।
ॐ दृगायुधाय नमः ।
ॐ पार्थाञ्जनास्त्रसन्दात्र्यै नमः ।
ॐ पार्थपाशुपतास्त्रदाय नमः ।
ॐ पुष्पवच्चक्रताटङ्कायै नमः ।
ॐ फणिराजसुकुण्डलाय नमः ।
ॐ बाणपुत्रीवरोद्धात्र्यै नमः ।
ॐ बाणासुरवरप्रदाय नमः ।
ॐ व्यालकञ्चुकसंवीतायै नमः ।
ॐ व्यालयज्ञोपवीतवते नमः ॥ १७० ॥
ॐ नवलावण्यरूपाढ्यायै नमः ।
ॐ नवयौवनविग्रहाय नमः ।
ॐ नाट्यप्रियायै नमः ।
ॐ नाट्यमूर्तये नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ तन्त्रोपचारसुप्रीतायै नमः ।
ॐ तन्त्रादिमविधायकाय नमः ।
ॐ नववल्लीष्टवरदायै नमः ।
ॐ नववीरसुजन्मभुवे नमः ॥ १८० ॥
ॐ भ्रमरज्यायै नमः ।
ॐ वासुकिज्याय नमः ।
ॐ भेरुण्डायै नमः ।
ॐ भीमपूजिताय नमः ।
ॐ निशुम्भशुम्भदमन्यै नमः ।
ॐ नीचापस्मारमर्दनाय नमः ।
ॐ सहस्राराम्बुजारूढायै नमः ।
ॐ सहस्रकमलार्चिताय नमः ।
ॐ गङ्गासहोदर्यै नमः ।
ॐ गङ्गाधराय नमः ॥ १९० ॥
ॐ गौर्यै नमः ।
ॐ त्रयम्बकाय नमः ।
ॐ श्रीशैलभ्रमराम्बाख्यायै नमः ।
ॐ मल्लिकार्जुनपूजिताय नमः ।
ॐ भवतापप्रशमन्यै नमः ।
ॐ भवरोगनिवारकाय नमः ।
ॐ चन्द्रमण्डलमध्यस्थायै नमः ।
ॐ मुनिमानसहंसकाय नमः ।
ॐ प्रत्यङ्गिरायै नमः ।
ॐ प्रसन्नात्मने नमः ॥ २०० ॥
ॐ कामेश्यै नमः ।
ॐ कामरूपवते नमः ।
ॐ स्वयम्प्रभायै नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कृतान्तहृदे नमः ।
ॐ सदान्नपूर्णायै नमः ।
ॐ भिक्षाटाय नमः ।
ॐ वनदुर्गायै नमः ।
ॐ वसुप्रदाय नमः ॥ २१० ॥
ॐ सर्वचैतन्यरूपाढ्यायै नमः ।
ॐ सच्चिदानन्दविग्रहाय नमः ।
ॐ सर्वमङ्गलरूपाढ्यायै नमः ।
ॐ सर्वकल्याणदायकाय नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ श्रीमद्राजराजप्रियङ्कराय नमः ॥ २१६ ॥
॥ इति श्री अर्धनारीश्वराष्टोत्तरशतनामावली सम्पूर्णम् ॥

Explore More