शिष्टाचार विहार पालन मथो वेदोक्तमायुः श्रियम् ।
मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं
नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १ ॥
सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि ।
कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते
त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २ ॥
शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् ।
धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः
यस्त्वां ध्यायति चक्रराजसदने सम्याति विद्यां गुरोः ॥ ३ ॥
