Dasha Mahavidya

श्री भुवनेश्वरी पञ्जर स्तोत्रम्

(Sri Bhuvaneshwari Panjara Stotram)

Also known as shri bhuvaneshwari panjara stotram · shree bhuvaneshwari panjara stotram · bhuvaneshwari panjara stotram

Not an armour but a cage, a panjara, and it is built entirely by repetition. Fourteen stanzas cover the directions, the vertical axis and the space in front of and behind the reciter, and each stanza is identical to the others except in two words: where the goddess is asked to stand, and the weapon she is named by while standing there. She is the discus-bearer in the east, the mace-bearer in the south-east, the conch-bearer in the south, the sword-bearer in the south-west, then the noose, the bow, the trident, the lotus, the goad, and at the last simply the armed one, everywhere at once. Every stanza then repeats the same address, knowledge of yoga, great maya, served by the host of yoginis, dark and vast and terrible, and the same abrupt line, which is not spoken to her at all: get up, Purusha, why are you sleeping, fear has come upon me. Each closes in the shape of a gayatri.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री भुवनेश्वरी पञ्जर स्तोत्रम् ॥
इदं श्री भुवनेश्वर्याः पञ्जरं भुवि दुर्लभम् ।
येन संरक्षितो मर्त्यो बाणैः शस्त्रैर्न बाध्यते ॥ १ ॥
ज्वर मारी पशु व्याघ्र कृत्या चौराद्युपद्रवैः ।
नद्यम्बु धरणी विद्युत्कृशानुभुजगारिभिः ।
सौभाग्यारोग्य सम्पत्ति कीर्ति कान्ति यशोऽर्थदम् ॥ २ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः पूर्वेऽधिष्ठाय मां पाहि चक्रिणि भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रून् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः ममाग्नेयां स्थिता पाहि गदिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ २ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः याम्येऽधिष्ठाय मां पाहि शङ्खिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देव देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ३ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः नैरृत्ये मां स्थिता पाहि खड्गिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ४ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः पश्चिमे मां स्थिता पाहि पाशिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ५ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः वायव्ये मां स्थिता पाहि सक्थिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ६ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः सौम्येऽधिष्ठाय मां पाहि चापिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ७ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः ईशेऽधिष्ठाय मां पाहि शूलिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ८ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः ऊर्ध्वेऽधिष्ठाय मां पाहि पद्मिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ९ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः अधस्तान्मां स्थिता पाहि वाणिनी भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १० ॥
ओं क्रों श्रीं ह्रीं ऐं सौः अग्रतो मां सदा पाहि साङ्कुशे भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ ११ ॥
ओं क्रों श्रीं ह्रीं ऐं सौः पृष्ठतो मां स्थिता पाहि वरदे भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १२ ॥
सर्वतो मां सदा पाहि सायुधे भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते ।
कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ।
देवि देवि महादेवि मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं मे समुपस्थितम् ।
यदि शक्यमशक्यं तन्मे भगवति शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् ॥ १३ ॥
॥ फलश्रुति ॥
प्रोक्ता दिङ्मनवो देवि चतुर्दश शुभप्रदाः ।
एतत् पञ्जरमाख्यातं सर्वरक्षाकरं नृणाम् ॥ १
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति ।
न भक्ताय प्रदातव्यं नाशिष्याय कदाचन ॥ २
सिद्धिकामो महादेवि गोपयेन्मातृजारवत् ।
भयकाले होमकाले पूजाकाले विशेषतः ॥ ३
दीपस्यारम्भकाले वै यः कुर्यात् पञ्जरं सुधीः ।
सर्वान् कामानवाप्नोति प्रत्यूहैर्नाभिभूयते ॥ ४
रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ।
कृत्या रोगपिशाचाद्यैर्न कदाचित् प्रबाध्यते ॥ ५
प्रातःकाले च मध्याह्ने सन्ध्यायामर्धरात्रके ।
यः कुर्यात् पञ्जरं मर्त्यो देवीं ध्यात्वा समाहितः ॥ ६
कालमृत्युमपि प्राप्तं जयेदत्र न संशयः ।
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं न लगन्ति च ।
पुत्रवान् धनवान्लोके यशस्वी जायते नरः ॥ ७
इति श्रीभुवनेश्वरी पञ्जरस्तोत्रम् सम्पूर्णम् ।

Explore More