दधतं ज्ञानमुद्रां च दक्षिणामूर्तिमाश्रये ॥ १ ॥
दृष्ट्वा राजा महाबाहुः सूर्यवंशसमुद्भवः ।
हरिश्चन्द्राभिधो नत्वा प्रोवाचेदं शुचिस्मितः ॥ २ ॥
देवर्षे श्रोतुमिच्छामि कवचं मन्त्रविग्रहम् ।
दक्षिणामूर्तिदेवस्य वद मे नारद प्रभो ॥ ३ ॥
शृणु राजन् प्रवक्ष्यामि सर्वसम्पत्प्रदायकम् ।
दक्षिणामूर्तिदेवस्य कवचं मङ्गलालयम् ॥ ४ ॥
राज्यसिद्धिर्मन्त्रसिद्धिर्विद्यासिद्धिर्महेश्वर ॥ ५ ॥
पुरा वैकुण्ठनिलयं भगवन्तं मुरान्तकम् ॥ ६ ॥
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ ७ ॥
सर्वमन्त्रमयं देवं शैवागमपरायणम् ॥ ८ ॥
दक्षिणामूर्ति देवस्य मन्त्रोपासनतत्परम् ।
कमला प्रणता भूत्वा पप्रच्छ विनयान्वितम् ॥ ९ ॥
नारायण जगन्नाथ सर्वमङ्गलदायक ।
दक्षिणामूर्ति देवस्य कवचं वद मे प्रभो ॥ १० ॥
शृणु देवि प्रवक्ष्यामि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं देवि सर्वतन्त्रेषुसिद्धिदम् ॥ ११ ॥
त्रैलोक्यसंमोहनाख्यं ब्रह्ममन्त्रौघविग्रहम् ॥ १२ ॥
जयप्रदं भूपतीनां सर्वसिद्धिप्रदायकम् ॥ १३ ॥
कवचस्यास्य देवेशि ऋषिर्ब्रह्मा प्रकीर्तितः ॥ १४ ॥
विष्टपत्रयसंमोहजननायाष्टसिद्धिषु ।
न्यासो मूलेन वै कार्यस्ततो मन्त्रार्णकं चरेत् ॥ १५ ॥
ओं नमो भगवते दक्षिणामूर्तये – अङ्गुष्ठाभ्यां नमः ।
तुभ्यं – तर्जनीभ्यां नमः ।
जगद्वश्यकराय च – मध्यमाभ्यां नमः ।
त्रैलोक्यसंमोहनाय – अनामिकाभ्यां नमः ।
नमः – कनिष्ठिकाभ्यां नमः ।
सद्गतिदायिने – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ॥
ओं दं – शिरसि । ओं क्षिं – दक्षिणनेत्रे । ओं णां – वामनेत्रे । ओं मूं – दक्षिणकर्णे । ओं र्तं – वामकर्णे । ओं यें – दक्षिणनासिकायाम् । ओं तुं – वामनासिकायाम् । ओं भ्यं – दक्षिणगण्डे । ओं जं – वामगण्डे । ओं गं – ऊर्ध्वदन्तपङ्क्तौ । ओं द्वं – अधोदन्तपक्तौ । ओं श्यं – ऊर्ध्वोष्ठे । ओं कं – अधरोष्ठे । ओं रां – कण्ठे । ओं यं – हृदि । ओं चं – दक्षबाहौ । ओं त्रैं – वामबाहौ । ओं लों – कुक्षौ । ओं क्यं – पृष्ठे । ओं सं – नाभौ । ओं मों – जठरे । ओं हं – लिङ्गे । ओं नां – मूलाधारे । ओं यं – दक्षजानौ । ओं नं – वामजानौ । ओं मों – दक्षोरौ । ओं सं – वामोरौ । ओं द्गं – जङ्घयोः । ओं तिं – दक्षिणपार्ष्णौ । ओं दां – वामपार्ष्णौ । ओं यिं – दक्षपादे । ओं नें – वामपादे ।
ध्यायेन्नित्यं निरीहं निरुपममकलं ज्योतिरानन्दकन्दं
सच्चिद्ब्रह्मामृताख्यं निरतिशयसुखं निर्गुणं निर्विकारम् ।
विश्वात्माकारमेकं विदलितकलुषं दुस्तराज्ञानधर्मा-
-निर्मुक्तात्मस्वरूपं शिवमनिशमहं पूर्णबोधैकरूपम् ॥
ओम् । दक्षिणामूर्तये तुभ्यं जगद्वश्यकराय च ।
त्रैलोक्यसंमोहनाय नमः सद्गतिदायिने ॥ १ ॥
ततस्तु प्रपठेद्देवि कवचं मन्त्रविग्रहम् ॥ २ ॥
ओम् । प्रणवो मे शिरः पातु तारको ब्रह्मसञ्ज्ञिकः ।
ओं दक्षिणामूर्तये तु तथा तुभ्यं ततः परम् ॥ ३ ॥
नमस्तथा सद्गतीति दायिने च पदं ततः ॥ ४ ॥
ओं नमो भगवतेति दक्षिणामूर्तयेति च ॥ ५ ॥
स्वाहापदान्वितं मन्त्रं चतुर्विंशार्णकं सदा ॥ ६ ॥
ओं ऐं नमः क्लीं शिवाय सौः पदेन समन्वितम् ॥ ७ ॥
प्रणवेन समायुक्तं मायया च समन्वितम् ॥ ८ ॥
ध्यानैकनिरताङ्गाय नमो रुद्राय शम्भवे ॥ ९ ॥
मम नेत्रद्वयं पातु सर्वसौभाग्यदायकम् ॥ १० ॥
हंसः सोऽहं तथा मह्यं मेधां प्रज्ञां ततः परम् ॥ ११ ॥
मम कर्णद्वयं पातु सदा राज्यफलप्रदः ॥ १२ ॥
वाग्भवेन समायुक्तो ऐं ह्रीमिति समन्वितः ॥ १३ ॥
उमासार्धशरीराय नमस्ते परमात्मने ॥ १४ ॥
प्रणवेन समायुक्तः मायाबीजसमन्वितः ॥ १५ ॥
आनन्दाज्यहविःप्रीत सद्ज्ञानं च प्रयच्छ मे ॥ १६ ॥
मनुः फालनेत्रयुग्मं पायान्मम सुखप्रदः ॥ १७ ॥
दक्षिणामूर्तये तुभ्यं वटमूलनिवासिने ॥ १८ ॥
ओं ह्रां ह्रीं ओमिति च तथा वटमूलाख्यकं शुभम् ॥ १९ ॥
प्रणवेन समायुक्तो वाग्भवेन समन्वितः ॥ २० ॥
मनुर्ममोदरं पातु सदा वागीश्वराभिदः ॥ २१ ॥
पायादेकार्णकं मन्त्रं नाभिं मम महेशितुः ॥ २२ ॥
विद्यावासायेति पदं धीमहीति पदं ततः ॥ २३ ॥
गायत्री दक्षिणामूर्तेः पातु पादद्वयं मम ॥ २४ ॥
ह्रां दक्षिणामूर्तयेति नमो मुखं सदाऽवतु ॥ २५ ॥
ह्रूं दक्षिणामूर्तयेति नमो नेत्रं तु वामकम् ॥ २६ ॥
ह्रौं दक्षिणामूर्तयेति नमो दक्षिणकर्णकम् ॥ २७ ॥
द्रां दक्षिणामूर्तयेति नमोऽव्याद्गण्डयुग्मकम् ॥ २८ ॥
द्रूं दक्षिणामूर्तयेति नमोऽव्याद्वामनासिकाम् ॥ २९ ॥
द्रौं दक्षिणामूर्तयेति नमः श्रोत्रद्वयेऽवतु ॥ ३० ॥
क्लां दक्षिणामूर्तयेति नमो बाहुद्वयेऽवतु ॥ ३१ ॥
क्लूं दक्षिणामूर्तयेति नमो नाभिं सदाऽवतु ॥ ३२ ॥
क्लौं दक्षिणामूर्तयेति नमः पादद्वयं मम ॥ ३३ ॥
गुल्फद्वयं जगन्नाथं पातु मे पार्वतीपतिः ॥ ३४ ॥
गुह्यदेशं मधुध्वंसी नाभिं पातु पुरान्तकः ॥ ३५ ॥
करद्वयं शूलपाणिः स्कन्धौ पातु शिवाप्रियः ॥ ३६ ॥
नेत्रयुग्मं त्रिनेत्रोऽव्यान्नासां पातु सदाशिवः ॥ ३७ ॥
शिरो मे भगवान् पातु केशान् सर्वेश्वेरोऽवतु ॥ ३८ ॥
दक्षिणस्यां जगन्नाथो नैरृत्यां पार्वतीपतिः ॥ ३९ ॥
उत्तरस्यां दिशि सदा कुबेरस्य सखा मम ॥ ४० ॥
शिखां जटाधरः पातु शिरो गङ्गाधरोऽवतु ॥ ४१ ॥
त्र्यक्षो नेत्रद्वयं पातु श्रुती श्रुतिशिखामयः ॥ ४२ ॥
जिह्वां मे दक्षिणामूर्तिः हनू पातु महाबलः ॥ ४३ ॥
करौ पातु महाप्राज्ञो भक्तसंरक्षणे रतः ॥ ४४ ॥
महात्मा पातु मे नाभिं कटिं पातु हरिप्रियः ॥ ४५ ॥
ऊरुद्वयं दक्षिणास्यो जानुयुग्मं सुजानुभृत् ॥ ४६ ॥
मम पात्वखिलं देहं सर्वदैवतपूजितः ॥ ४७ ॥
कैलासनिलयः पातु गृहं मे भूतभावनः ॥ ४८ ॥
लक्ष्मीप्रदः श्रियं पातु आसीनं पातु सर्वगः ॥ ४९ ॥
उदये पातु भगवान् प्रथमे प्रहरे हरः ॥ ५० ॥
यामे तृतीये भूतेशश्चन्द्रमौलिश्चतुर्थके ॥ ५१ ॥
निशा तृतीययामे मां पातु गङ्गाधरो हरः ॥ ५२ ॥
सुप्तं मां पातु जटिलः विसुप्तं फणिभूषणः ॥ ५३ ॥
किरातः पातु गहने शैले शैलसुतापतिः ॥ ५४ ॥
जले पशुपतिः पातु स्थले पातु स्थलाधिपः ॥ ५५ ॥
पायाद्वृक्षसमीपे मां नक्षत्राधिपभूषणः ॥ ५६ ॥
सर्वकाले सर्वदेशे पातु मां दक्षिणामुखः ॥ ५७ ॥
आग्नेयीभ्यः तथा रुद्रो याम्येभ्यः पातु मृत्युहा ॥ ५८ ॥
वायव्येभ्यो देवदेवः कौबेरेभ्यो निधिप्रियः ॥ ५९ ॥
अधस्तेभ्यो भूतनाथः पातु मामादिपूरुषः ॥ ६० ॥
त्रैलोक्यसंमोहनाख्यां दक्षिणामूर्तिशर्मणः ॥ ६१ ॥
पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः ॥ ६२ ॥
श्रीदक्षिणामूर्तिमन्त्रमयं देवि मयोदितम् ॥ ६३ ॥
द्विः सकृद्वा यथा न्यायं सोऽपि पुण्यवतां नरः ॥ ६४ ॥
अष्टोत्तरशतं जप्त्वा दशांशं होममाचरेत् ॥ ६५ ॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ६६ ॥
वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे ॥ ६७ ॥
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ६८ ॥
कण्ठे वा दक्षिणे बाहौ स कुर्यात् स्ववशं जगत् ॥ ६९ ॥
तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ७० ॥
स्वधाम्नोत्सृज्य भवने लक्ष्मीर्वाणी मुखे वसेत् ॥ ७१ ॥
शतलक्षं प्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ७२ ॥
तस्मात् सर्वप्रयत्नेन कवचं प्रपठेत् सुधीः ॥ ७३ ॥
एवमुक्त्वा रमानाथो मन्त्रं लक्ष्म्यै ददौ हरिः ।
ततो ददौ जगन्नाथः कवचं मन्त्रविग्रहम् ॥ ७४ ॥
तस्माद्राजेन्द्र कवचं गृहाण प्रददामि ते ॥ ७५ ॥
इत्युक्त्वा नारदऋषिः हरिश्चन्द्रं नरेश्वरम् ।
ततो ययौ स्वैरगतिः कैलासं प्रति नारदः ॥ ७६ ॥
