प्रतप्तस्वर्णवर्णाभं संरक्तारुणलोचनम् ।
सुग्रीवादियुतं ध्यायेत् पीताम्बरसमावृतम् ॥
गोष्पदीकृतवाराशिं पुच्छमस्तकमीश्वरम् ।
ज्ञानमुद्रां च बिभ्राणं सर्वालङ्कारभूषितम् ॥
वामहस्तसमाकृष्टदशास्याननमण्डलम् ।
उद्यद्दक्षिणदोर्दण्डं हनूमन्तं विचिन्तयेत् ॥
हनूमान् श्रीप्रदो वायुपुत्रो रुद्रो नयोऽजरः ।
अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥ 1 ॥
पिङ्गाक्षो वरदो वाग्मी सीताशोकविनाशनः ॥ 2 ॥
पिङ्गकेशः पिङ्गरोमा श्रुतिगम्यः सनातनः ॥ 3 ॥
आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥ 4 ॥
विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥ 5 ॥
विश्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥ 6 ॥
बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्यजः ॥ 7 ॥
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोऽव्ययः ॥ 8 ॥
शिवधर्मप्रतिष्ठाता रामेष्टः फल्गुनप्रियः ॥ 9 ॥
रक्षोघ्नः पुण्डरीकाक्षः शरणागतवत्सलः ॥ 10 ॥
पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥ 11 ॥
अक्षघ्नो रामदूतश्च शाकिनीजीविताहरः ॥ 12 ॥
हेतुस्त्वहेतुः प्रांशुश्च विश्वकर्ता जगद्गुरुः ॥ 13 ॥
जगत्श्रितो हरिः श्रीशो गरुडस्मयभञ्जकः ॥ 14 ॥
ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥ 15 ॥
कल्पस्थायी चिरञ्जीवी प्रसन्नश्च सदाशिवः ॥ 16 ॥
कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीप्रदः शिवः ॥ 17 ॥
वालिबन्धनकृद्विश्वजेता विश्वप्रतिष्ठितः ॥ 18 ॥
लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जनः ।
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः ॥
श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जनः ।
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वभावनः ॥ 20 ॥
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः ॥ 21 ॥
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः ॥ 22 ॥
देवेशोऽमितरोमाऽथ रामभक्तविधायकः ॥ 23 ॥
ज्ञानदः प्राणदः प्राणो जगत्प्राणः समीरणः ॥ 24 ॥
सिद्धः सिद्धाश्रयः कालः कालभक्षकपूजितः ॥ 25 ॥
चन्द्रसूर्याग्निनेत्रश्च कालाग्निः प्रलयान्तकः ॥ 26 ॥
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः ॥ 27 ॥
रामध्यायी हृषीकेशो विष्णुभक्तो जटी बली ॥ 28 ॥
नगरग्रामपालश्च शुद्धो बुद्धो निरन्तरः ॥ 29 ॥
हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः ॥ 30 ॥
वाङ्मयः सदसद्रूपः कारणं प्रकृतेः परः ॥ 31 ॥
पुच्छबद्धो यातुधानो यातुधानरिपुप्रियः ॥ 32 ॥
प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः ॥ 33 ॥
भक्तानुकम्पी विश्वेशः पुरुहूतः पुरन्दरः ॥ 34 ॥
वरुणो वायुगतिमान् वायुः कुबेर ईश्वरः ॥ 35 ॥
राहुः केतुर्मरुद्दाता धाता हर्ता समीरजः ॥ 36 ॥
कामः कपिः कामपालः कपिलो विश्वजीवनः ॥ 37 ॥
स्वाहा स्वधा हविः कव्यं हव्यवाहः प्रकाशकः ॥ 38 ॥
उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥ 39 ॥
विपाप्मा निष्कलङ्कोऽथ महान् महदहङ्कृतिः ॥ 40 ॥
क्षेत्रज्ञः क्षेत्रपालश्च पल्वलीकृतसागरः ॥ 41 ॥
हिरण्यगर्भः सूत्रात्मा राजराजो विशां पतिः ॥ 42 ॥
प्रतिग्रामस्थितः सद्यः स्फूर्तिदाता गुणाकरः ॥ 43 ॥
चिन्तामणिर्गुणनिधिः प्रजाद्वारमनुत्तमः ॥ 44 ॥
किल्किलारावसन्त्रस्तभूतप्रेतपिशाचकः ॥ 45 ॥
अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥ 46 ॥
नादरूपं परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥ 47 ॥
ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥ 48 ॥
गुणाश्रयो गुणमयो बृहत्कायो बृहद्यशाः ॥
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः ।
बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥ 50 ॥
बृहद्गतिर्बृहत्सेवो बृहल्लोकफलप्रदः ॥ 51 ॥
बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥ 52 ॥
सप्तपातालगामी च मलयाचलसंश्रयः ॥ 53 ॥
शाखामृगः कपीन्द्रोऽथ पुराणः प्राणचञ्चुरः ॥ 54 ॥
अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥ 55 ॥
गोपालो गोपतिर्योद्धा कलिः स्फालः परात्परः ॥ 56 ॥
तत्त्वदाताऽथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥ 57 ॥
प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥ 58 ॥
मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखी ॥
सुखं सुखप्रदो नागो महेशकृतसंस्तवः ।
महेश्वरः सत्यसन्धः शरभः कलिपावनः ॥ 60 ॥
घ्राणं गन्धः स्पर्शनं च स्पर्शो हिङ्कारमानगः ॥ 61 ॥
गिरिशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥ 62 ॥
विश्वक्षेत्रं विश्वबीजं विश्वनेत्रं च विश्वपः ॥ 63 ॥
श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता सुरः ॥ 64 ॥
नित्यः सम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥ 65 ॥
सहस्रमूर्धा सहस्रास्यः सहस्राक्षः सहस्रपात् ॥ 66 ॥
मुद्रोपहारी रक्षोघ्नः क्षितिभारहरो बलः ॥ 67 ॥
दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥ 68 ॥
महाकारो महायोगी महातेजा महाद्युतिः ॥
महाकर्मा महानादो महामन्त्रो महामतिः ।
महाशमो महोदारो महादेवात्मको विभुः ॥ 70 ॥
अम्भोधिलङ्घनः सिद्धः सत्यधर्मा प्रमोदनः ॥ 71 ॥
जीवो धाता सहस्रांशुर्मुकुन्दो भूरिदक्षिणः ॥ 72 ॥
सप्तपातालचरणः सप्तर्षिगणवन्दितः ॥ 73 ॥
सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥ 74 ॥
सप्तसामोपगीतश्च सप्तपातालसंश्रयः ॥ 75 ॥
मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥ 76 ॥
प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥ 77 ॥
नवद्वारपुराधारो नवद्वारनिकेतनः ॥ 78 ॥
मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥ 79 ॥
दुष्टहन्ता नियमिता पिशाचग्रहशातनः ॥ 80 ॥
उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥ 81 ॥
समग्रगुणशाली च व्यग्रो रक्षोविनाशनः ॥ 82 ॥
मेघनादो मेघरूपो मेघवृष्टिनिवारणः ॥ 83 ॥
समीरतनयो धाता तत्त्वविद्याविशारदः ॥ 84 ॥
अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥ 85 ॥
सङ्कर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥ 86 ॥
आनन्दः परमानन्दो मत्स्यः कूर्मो निधिः शयः ॥ 87 ॥
रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥ 88 ॥
कर्माध्यक्षः सुरारामो विश्रामो जगतीपतिः ॥
जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः ।
सुग्रीवादिस्तुतो दान्तः सर्वकर्मा प्लवङ्गमः ॥ 90 ॥
कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥ 91 ॥
कैवल्यदीपः कैवल्यो गरुडः पन्नगो गुरुः ॥ 92 ॥
वज्राङ्गो वज्रवक्त्रश्च भक्तवज्रनिवारकः ॥ 93 ॥
प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥ 94 ॥
स्वस्थस्त्वस्वास्थ्यहा दुःखशातनः पवनात्मजः ॥ 95 ॥
मेघनादरिपुर्मेघनादसंहृतराक्षसः ॥ 96 ॥
श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥ 97 ॥
अध्यात्मविद्यासारश्चाप्यध्यात्मकुशलः सुधीः ॥ 98 ॥
सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥ 99 ॥
भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥ 100 ॥
क्रान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥ 101 ॥
लम्बोष्ठः कुण्डली चित्रमाली योगविदां वरः ॥ 102 ॥
फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥ 103 ॥
अकारादिक्षकारान्तवर्णनिर्मितविग्रहः ॥ 104 ॥
श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥ 105 ॥
जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥ 106 ॥
गुणप्रवाहः सूत्रात्मा वीतरागः स्तुतिप्रियः ॥ 107 ॥
अनुकूलोऽक्षयोऽपायोऽनपायो वेदपारगः ॥ 108 ॥
अष्टाङ्गयोगफलभूः सत्यसन्धः पुरुष्टुतः ॥ 109 ॥
पञ्चाक्षरपरः पञ्चमातृको रञ्जनो ध्वजः ॥ 110 ॥
ब्रह्मचारीन्द्रियवपुर्धृतदण्डो दशात्मकः ॥ 111 ॥
बुद्धः प्रमोद आनन्दः सप्तजिह्वपतिर्धरः ॥ 112 ॥
षट्चक्रधामा स्वर्लोकभयहृन्मानदो मदः ॥ 113 ॥
अष्टमूर्तिधरो नेता विरूपः स्वरसुन्दरः ॥ 114 ॥
नन्दीप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥ 115 ॥
फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥ 116 ॥
पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥ 117 ॥
ऊर्जःस्वामी जलस्वामी शूली माली निशाकरः ॥ 118 ॥
वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥ 119 ॥
शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जनः ॥ 120 ॥
शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥ 121 ॥
सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रियवर्धनः ॥ 122 ॥
उत्तमः श्रीपरीवारः श्रीभूरुग्रश्च कामधुक् ॥ 123 ॥
नीलप्रियो नीलवर्णो नीलवर्णप्रियः सुहृत् ॥ 124 ॥
श्रीरामध्यानकृद्वीरः सदा किम्पुरुषस्तुतः ॥ 125 ॥
पुण्यश्लोकः परानन्दः परेशप्रियसारथिः ॥ 126 ॥
महाबलो महावीरः पारावारगतिर्गुरुः ॥ 127 ॥
समस्तलोकसाक्षी च समस्तसुरवन्दितः ।
सीतासमेतश्रीरामपादसेवाधुरन्धरः ॥ 128 ॥
दुःखौघो नश्यते क्षिप्रं सम्पत्तिर्वर्धते चिरम् ॥ 129 ॥
राजानो राजपुत्राश्च राजकीयाश्च मन्त्रिणः ॥ 130 ॥
अश्वत्थमूले जपतां नास्ति वैरिकृतं भयम् ॥ 131 ॥
ब्राह्मे मुहूर्ते चोत्थाय प्रत्यहं यः पठेन्नरः ॥ 132 ॥
सङ्ग्रामे सन्निविष्टानां वैरिविद्रावणं भवेत् ॥ 133 ॥
साम्राज्यसुखसम्पत्तिदायकं जपतां नृणाम् ॥ 134 ॥
सर्वान् कामानवाप्नोति वायुपुत्रप्रसादतः ॥ 135 ॥
