उत्तिष्ठ हरिसम्प्रीते भक्तानां भाग्यदायिनि ॥
उत्तिष्ठोत्तिष्ठ श्रीलक्ष्मि विष्णुवक्षस्थलालये ।
उत्तिष्ठ करुणापूर्णे लोकानां शुभदायिनि ॥ १॥
श्रीपद्महस्तचिरपूजितपद्मपादे ॥
श्रीपद्मजातजननि शुभपद्मवक्त्रे ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २॥
तेजोस्वरूपिणि सुवर्णविभूषिताङ्गि ।
सौवर्णवस्त्रपरिवेष्टितदिव्यदेहे ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ३॥
सम्प्रार्थिताखिलजनावनदिव्यशीले ।
दारिद्र्यदुःखभयनाशिनि भक्तपाले ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ४॥
चन्द्रार्कवह्निनयने शुभचन्द्रवक्त्रे ।
हे चन्द्रिकासमसुशीतलमन्दहासे ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ५॥
श्रीभाग्यलक्ष्मि शरणागत दीनपक्षे ।
ऐश्वर्यलक्ष्मि चरणार्चितभक्तरक्षिन् ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ६॥
सन्तानलक्ष्मि निजभक्तकुलप्रवृद्धे ।
श्रीज्ञानलक्ष्मि सकलागमज्ञानदात्रि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ७॥
दारिद्र्यध्वंसिनि नमो वरलक्ष्मि पाहि ।
सत्सौख्यदायिनि नमो धनलक्ष्मि पाहि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ८॥
श्रीयोगलक्ष्मि मुनिमानसपद्मवासिन् ।
श्रीधान्यलक्ष्मि सकलावनिक्षेमदात्रि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ९॥
क्षीरोदधेस्त्वमसि पावनि सिन्धुकन्या ।
स्वर्गस्थले त्वमसि कोमले स्वर्गलक्ष्मी ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १०॥
कृष्णप्रिया त्वमसि भाण्डिरदिव्यक्षेत्रे ।
राजगृहे त्वमसि सुन्दरि राज्यलक्ष्मी ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ ११॥
श्रीसुन्दरी त्वमसि श्रीशतशृङ्गक्षेत्रे ।
त्वं भूतलेऽसि शुभदायिनि मर्त्यलक्ष्मी ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १२॥
देवि कदम्बविपिनेऽसि कदम्बमाला ।
त्वं देवि कुन्दवनवासिनि कुन्ददन्ती ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १३॥
सन्मार्गदर्शिनि शुभङ्करि मोक्षलक्ष्मि ।
श्रीदेवदेवि करुणागुणसारमूर्ते ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १४॥
हे विश्वधात्रि सुरसेवितपादपद्मे ।
सङ्कष्टनाशिनि सुखङ्करि सुप्रसन्ने ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १५॥
सूक्ष्मातिसूक्ष्मतररूपिणि स्थूलरूपे ।
सौन्दर्यलक्ष्मि मधुसूदनमोहनाङ्गि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १६॥
अम्बे प्रसीद करुणासुधयाऽऽर्द्रदृष्ट्या ।
सौवर्णहारमणिनूपुरशोभिताङ्गि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १७॥
नित्यं करोमि तव नामजपं विशुद्धे ।
नित्यं शृणोमि भजनं तव लोकमातः ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १८॥
देवि त्वमेव मम भाग्यनिधिस्त्वमेव ।
सद्भाग्यदायिनि त्वमेव शुभप्रदात्री ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ १९॥
नाकाधिनाथविनुते अभयप्रदात्रि ।
सद्भक्तरक्षणपरे हरिचित्तवासिन् ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २०॥
राकेन्दुबिम्बवदने त्रिदशाभिवन्द्ये ।
आब्रह्मकीटपरिपोषिणि दानहस्ते ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २१॥
भाग्यप्रदेति शरणागतवत्सलेति ।
ध्यायामि देवि परिपालय मां प्रसन्ने ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २२॥
श्रीपद्मनाभदयिते सुरसेव्यमाने ।
श्रीपद्मयुग्मधृतनीरजहस्तयुग्मे ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २३॥
ये मानवाः प्रतिदिनं प्रपठन्ति भक्त्या ।
तेषां प्रसन्नहृदये कुरु मङ्गलानि ।
श्रीलक्ष्मि भक्तवरदे तव सुप्रभातम् ॥ २४॥
जलजान्तरनित्यनिवासरते शरणं शरणं वरलक्ष्मि नमः ॥ २५॥
नवपङ्कजहारविराजगले शरणं शरणं गजलक्ष्मि नमः ॥ २६॥
ऋणमोचनि पावनि सौख्यकरि शरणं शरणं धनलक्ष्मि नमः ॥ २७॥
सुखदायिनि श्रीफलदानकरि शरणं शरणं शुभलक्ष्मि नमः ॥ २८॥
नरसङ्घजयङ्करि भाग्यप्रदे शरणं शरणं जयलक्ष्मि नमः ॥ २९॥
मधुसूदनमोहिनि श्रीरमणि शरणं शरणं तव लक्ष्मि नमः ॥ २८॥
सुखदायिनि मङ्गललक्ष्मि नमो शरणं शरणं सततं शरणम् ॥ २९॥
जय षोडशलक्ष्मि नमोऽस्तु नमो शरणं शरणं सततं शरणम् ॥ ३०॥
महालक्ष्मी सन्तानलक्ष्मि प्रसीद नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३०॥
नमो धैर्यलक्ष्मि नमो वीरलक्ष्मि नमस्ते नमस्ते नमो शान्तलक्ष्मि ॥ ३१॥
क्षमस्व त्वं क्षमस्व त्वं अष्टलक्ष्मि नमोऽस्तुते ॥ ३२॥
सर्वैश्वर्यप्रदायिनि सुखकरि दारिद्र्यविध्वंसिनि ।
नानाभूषितभूषणाङ्गि जननि क्षीराब्धिकन्यामणि
देवि भक्तसुपोषिणि वरप्रदे लक्ष्मि सदा पाहि नः ॥ ३३॥ माम्
हारिद्रलेपितसुकोमलश्रीकपोले ।
पूर्णेन्दुबिम्बवदने कमलान्तरस्थे
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३४॥
रक्ताम्बुजातनिलये स्वजनानुरक्ते ।
मुक्तावलीसहितभूषणभूषिताङ्गि
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३५॥
अज्ञानघोरतिमिरापहज्ञानरूपे ।
दारिद्र्यदुःखपरिमर्दितभाग्यरूपे
लक्ष्मि त्वदीयचरणौ शरणं प्रपद्ये ॥ ३६॥
बिम्बाधरेषु कपिकाञ्चितमञ्जुवाणि ।
श्रीस्वर्णकुम्भपरिशोभितदिव्यहस्ते
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३७॥
सर्वागमादिविनुते शुभलक्षणाङ्गि ।
नित्यार्चिताङ्घ्रियुगले महिमाचरित्रे
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३८॥
सौवर्णकङ्कणसुशोभितहस्तपद्मे ।
मञ्जीरशिञ्जितसुकोमलपावनाङ्घ्रे
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ३९॥
पर्वेन्दुसोदरि सुपर्वगणाभिरक्षिन् ।
दुर्वारशोकमयभक्तगणावनेष्टे
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ४०॥
आद्यन्तवर्णमयशोभितशब्दरूपे ।
ब्रह्माण्डभाण्डजननि कमलायताक्षि
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ४१॥
आह्लाददात्रि धनधान्यसुखप्रदात्रि ।
श्रीवैष्णवि द्रविणरूपिणि दीर्घवेणि
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ४२॥
सन्तुष्टपूर्णहृदयेन सुखानि देहि ।
आरोग्यभाग्यमकलङ्कयशांसि देहि
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ४३॥
श्रीअष्टलक्ष्मि शरणं शरणं प्रपद्ये ।
श्रीविष्णुपत्नि शरणं शरणं प्रपद्ये
लक्ष्मि त्वत्वदीयचरणौ शरणं प्रपद्ये ॥ ४४॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४५॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४६॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४७॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४८॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ४९॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५०॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५१॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५२॥
मङ्गलं श्रीमहालक्ष्मि मङ्गलं शुभमङ्गलम् ॥ ५३॥
