Lord Vishnu

श्री सत्यनारायण स्वामि व्रत कथा

(Shri Satyanarayana Swami Vrata Katha)

From Skanda Purana

The Shri Satyanarayana Swami Vrata Katha is a sacred text originating from the Skanda Purana. It recounts the eternal story of Lord Vishnu in his form as Satyanarayana, the embodiment of Truth. The narrative details the history of this holy fast and the miraculous experiences of devotees who observed it with sincere devotion. Performing this Vrata is believed to bestow prosperity, alleviate suffering, and fulfill one's deepest desires. It serves as a reminder that truth is the highest path to spiritual liberation and divine grace, fostering peace and harmony within families.

॥ श्री गणेशाय नमः ॥

॥ श्रीपरमात्मने नमः ॥

अथ कथा प्रारम्भः । अथ प्रथमो-ऽध्यायः श्रीव्यास उवाच ।

एकदा नैमिषारण्ये ऋषय-श्शौनकादयः ।
पप्रच्छुर्मुनय-स्सर्वे सूत-म्पौराणिक-ङ्खलु ॥ 1॥
ऋषय ऊचुः ।
व्रतेन तपसा किं-वाँ प्राप्यते वाञ्छित-म्फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥
सूत उवाच
नारदेनैव सम्पृष्टो भगवान् कमलापतिः ।
सुरर्​षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्यटन् विविधा-​ल्लोँका-न्मर्त्यलोकमुपागतः ॥ 4॥
ततोदृष्ट्वा जनान्सर्वा-न्नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥
केनोपायेन चैतेषा-न्दुःखनाशो भवेद् ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोक-ङ्गतस्तदा ॥ 6॥
तत्र नारायण-न्देवं शुक्लवर्ण-ञ्चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ 7॥
दृष्ट्वा त-न्देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच
नमो वाङ्गमनसातीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ 8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्र-न्ततो विष्णुर्नारद-म्प्रत्यभाषत ॥ 9॥
श्रीभगवानुवाच ।
किमर्थमागतो-ऽसि त्व-ङ्कि-न्ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्व-ङ्कथायामि ते ॥ 10॥
नारद उवाच
मर्त्यलोके जना-स्सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ 11॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्व-ङ्कृपास्ति यदि ते मयि ॥ 12॥
श्रीभगवानुवाच ।
साधु पृष्ट-न्त्वया वत्स लोकानुग्रहकाङ्क्षया ।
यत्कृत्वा मुच्यते मोह-त्तच्छृणुष्व वदामि ते ॥ 13॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियते-ऽधुना ॥ 14॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं)
कृत्वा सद्य-स्सुख-म्भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्य-न्नारदो मुनिरब्रवीत् ॥ 15॥
नारद उवाच
कि-म्फल-ङ्किं-विँधान-ञ्च कृत-ङ्केनैव तद् व्रतम् ।
तत्सर्वं-विँस्तराद् ब्रूहि कदा कार्यं-व्रँत-म्प्रभो ॥ 16॥
(कार्यंहितद्व्रतम्)
श्रीभगवानुवाच ।
दुःखशोकादिशमन-न्धनधान्यप्रवर्धनम् ॥ 17॥
सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मि-न्दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥
सत्यनारायण-न्देवं-यँजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ 19॥
नैवेद्य-म्भक्तितो दद्या-थ्सपाद-म्भक्ष्यमुत्तमम् ।
रम्भाफल-ङ्घृत-ङ्क्षीर-ङ्गोधूमस्य च चूर्णकम् ॥ 20॥
अभावे शालिचूर्णं-वाँ शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥
विप्राय दक्षिणा-न्दद्या-त्कथां श्रुत्वा जनै-स्सह ।
ततश्च बन्धुभि-स्सार्धं-विँप्रांश्च प्रतिभोजयेत् ॥ 22॥
प्रसाद-म्भक्षयेद् भक्त्या नृत्यगीतादिक-ञ्चरेत् ।
ततश्च स्वगृह-ङ्गच्छे-थ्सत्यनारायणं स्मरन्न् ॥ 23॥
एव-ङ्कृते मनुष्याणां-वाँञ्छासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायो-ऽस्ति भूतले ॥ 24॥
(लघूपायोस्ति)
इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्प्रथमो-ऽध्यायः ॥ 1 ॥ अथ द्वितीयो-ऽध्यायः सूत उवाच । अथान्य-थ्सम्प्रवक्ष्यामि कृतं-येँन पुरा द्विजाः । कश्चि-त्काशीपुरे रम्ये ह्यासीद्विप्रो-ऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः) क्षुत्तृड्भ्यां-व्याँकुलोभूत्वा नित्य-म्बभ्राम भूतले । दुःखित-म्ब्राह्मण-न्दृष्ट्वा भगवा-न्ब्राह्मणप्रियः ॥ 2॥ वृद्धब्राह्मण रूपस्त-म्पप्रच्छ द्विजमादरात् । किमर्थ-म्भ्रमसे विप्र मही-न्नित्यं सुदुःखितः । तत्सर्वं श्रोतुमिच्छामि कथ्यता-न्द्विज सत्तम ॥ 3॥ ब्राह्मण उवाच । ब्राह्मणो-ऽति दरिद्रो-ऽह-म्भिक्षार्थं-वैँ भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति) उपायं-यँदि जानासि कृपया कथय प्रभो । वृद्धब्राह्मण उवाच । सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ 5॥ तस्य त्व-म्पूजनं-विँप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्) यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥ विधान-ञ्च व्रतस्यापि विप्रायाभाष्य यत्नतः । सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ 7॥ तद् व्रतं सङ्करिष्यामि यदुक्त-म्ब्राह्मणेन वै । इति सञ्चिन्त्य विप्रो-ऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां) ततः प्रात-स्समुत्थाय सत्यनारायणव्रतम् । करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः) तस्मिन्नेव दिने विप्रः प्रचुर-न्द्रव्यमाप्तवान् । तेनैव बन्धुभि-स्सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥ सर्वदुःखविनिर्मुक्त-स्सर्वसम्पत्समन्वितः । बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥ ततः प्रभृति काल-ञ्च मासि मासि व्रत-ङ्कृतम् । एव-न्नारायणस्येदं-व्रँत-ङ्कृत्वा द्विजोत्तमः ॥ 12॥ सर्वपापविनिर्मुक्तो दुर्लभ-म्मोक्षमाप्तवान् । व्रतमस्य यदा विप्र पृथिव्यां सङ्करिष्यति ॥ 13॥ (विप्राः) तदैव सर्वदुःख-न्तु मनुजस्य विनश्यति । (च मनुजस्य) एव-न्नारायणेनोक्त-न्नारदाय महात्मने ॥ 14॥ मया तत्कथितं-विँप्राः किमन्य-त्कथयामि वः । ऋषय ऊचुः । तस्माद् विप्राच्छ्रुत-ङ्केन पृथिव्या-ञ्चरित-म्मुने । तत्सर्वं श्रोतुमिच्छाम-श्श्रद्धा-ऽस्माक-म्प्रजायते ॥ 15॥ (श्रद्धास्माकं) सूत उवाच । शृणुध्व-म्मुनय-स्सर्वे व्रतं-येँन कृत-म्भुवि । एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16॥ बन्धुभि-स्स्वजनै-स्सार्धं-व्रँत-ङ्कर्तुं समुद्यतः । एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ 17॥ बहिः काष्ठ-ञ्च संस्थाप्य विप्रस्य गृहमाययौ । तृष्णाया पीडितात्मा च दृष्ट्वा विप्र-ङ्कृतं-व्रँतम् ॥ 18॥ (कृत) प्रणिपत्य द्विज-म्प्राह किमिद-ङ्क्रियते त्वया । कृते कि-म्फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्) विप्र उवाच । सत्यनारायणेस्येदं-व्रँतं सर्वेप्सितप्रदम् । तस्य प्रसादान्मे सर्व-न्धनधान्यादिक-म्महत् ॥ 20॥ तस्मादेतद् व्रत-ञ्ज्ञात्वा काष्ठक्रेता-ऽतिहर्​षितः । पपौ जल-म्प्रसाद-ञ्च भुक्त्वा स नगरं-यँयौ ॥ 21॥ सत्यनारायण-न्देव-म्मनसा इत्यचिन्तयत् । काष्ठं-विँक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमे-ऽद्य) तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् । इति सञ्चिन्त्य मनसा काष्ठ-न्धृत्वा तु मस्तके ॥ 23॥ जगाम नगरे रम्ये धनिनां-यँत्र संस्थितिः । तद्दिने काष्ठमूल्य-ञ्च द्विगुण-म्प्राप्तवानसौ ॥ 24॥ ततः प्रसन्नहृदय-स्सुपक्व-ङ्कदली फलम् । शर्कराघृतदुग्ध-ञ्च गोधूमस्य च चूर्णकम् ॥ 25॥ कृत्वैकत्र सपाद-ञ्च गृहीत्वा स्वगृहं-यँयौ । ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ 26॥ तद् व्रतस्य प्रभावेण धनपुत्रान्वितो-ऽभवत् । (धनपुत्रान्वितोभवत्) इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 27॥ ॥ इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्द्वितीयो-ऽध्यायः ॥ 2 ॥ अथ तृतीयो-ऽध्यायः सूत उवाच । पुनरग्रे प्रवक्ष्यामि शृणुध्व-म्मुनि सत्तमाः । पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1॥ जितेन्द्रिय-स्सत्यवादी ययौ देवालय-म्प्रति । दिने दिने धन-न्दत्त्वा द्विजान् सन्तोषय-थ्सुधीः ॥ 2॥ भार्या तस्य प्रमुग्धा च सरोजवदना सती । भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥ एतस्मिन्नन्तरे तत्र साधुरेक-स्समागतः । वाणिज्यार्थ-म्बहुधनैरनेकैः परिपूरितः ॥ 4॥ नावं संस्थाप्य तत्तीरे जगाम नृपति-म्प्रति । दृष्ट्वा स व्रतिन-म्भूप-म्प्रपच्छ विनयान्वितः ॥ 5॥ साधुरुवाच । किमिद-ङ्कुरुषे राज-न्भक्तियुक्तेन चेतसा । प्रकाश-ङ्कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ 6॥ राजोवाच । पूजन-ङ्क्रियते साधो विष्णोरतुलतेजसः । व्रत-ञ्च स्वजनै-स्सार्ध-म्पुत्राद्यावाप्ति काम्यया ॥ 7॥ भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् । सर्व-ङ्कथय मे राजन् करिष्ये-ऽह-न्तवोदितम् ॥ 8॥ ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् । ततो निवृत्त्य वाणिज्या-थ्सानन्दो गृहमागतः ॥ 9॥ भार्यायै कथितं सर्वं-व्रँतं सन्तति दायकम् । तदा व्रत-ङ्करिष्यामि यदा मे सन्ततिर्भवेत् ॥ 10॥ इति लीलावती-म्प्राह पत्नीं साधु-स्स सत्तमः । एकस्मि-न्दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां) भर्तृयुक्तानन्दचित्ता-ऽभवद् धर्मपरायणा । र्गभिणी सा-ऽभव-त्तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्) दशमे मासि वै तस्याः कन्यारत्नमजायत । दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥ नाम्ना कलावती चेति तन्नामकरण-ङ्कृतम् । ततो लीलावती प्राह स्वामिन-म्मधुरं-वँचः ॥ 14॥ न करोषि किमर्थं-वैँ पुरा सङ्कल्पितं-व्रँतम् । साधुरुवाच । विवाह समये त्वस्याः करिष्यामि व्रत-म्प्रिये ॥ 15॥ इति भार्यां समाश्वास्य जगाम नगर-म्प्रति । ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥ दृष्ट्वा कन्या-न्तत-स्साधुर्नगरे सखिभि-स्सह । मन्त्रयित्वा द्रुत-न्दूत-म्प्रेषयामास धर्मवित् ॥ 17॥ विवाहार्थ-ञ्च कन्याया वरं श्रेष्ठं-विँचारय । तेनाज्ञप्तश्च दूतो-ऽसौ काञ्चन-न्नगरं-यँयौ ॥ 18॥ तस्मादेकं-वँणिक्पुत्रं समादायागतो हि सः । दृष्ट्वा तु सुन्दर-म्बालं-वँणिक्पुत्र-ङ्गुणान्वितम् ॥ 19॥ ज्ञातिभिर्बन्धुभि-स्सार्ध-म्परितुष्टेन चेतसा । दत्तावान् साधुपुत्राय कन्यां-विँधिविधानतः ॥ 20॥ (साधुःपुत्राय) ततो-ऽभाग्यवशा-त्तेन विस्मृतं-व्रँतमुत्तमम् । (ततोभाग्यवशात्) विवाहसमये तस्यास्तेन रुष्टो भव-त्प्रभुः ॥ 21॥ (रुष्टो-ऽभवत्) ततः कालेन नियतो निजकर्म विशारदः । वाणिज्यार्थ-न्तत-श्शीघ्र-ञ्जामातृ सहितो वणिक् ॥ 22॥ रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः । वाणिज्यमकरो-थ्साधुर्जामात्रा श्रीमता सह ॥ 23॥ तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । (नगरेतस्य) एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥ भ्रष्टप्रतिज्ञमालोक्य शाप-न्तस्मै प्रदत्तवान् । दारुण-ङ्कठिन-ञ्चास्य महद् दुःख-म्भविष्यति ॥ 25॥ एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः । तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥ तत्पश्चाद् धावका-न्दूता-न्दृष्टवा भीतेन चेतसा । धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥ ततो दूतास्समायाता यत्रास्ते सज्जनो वणिक् । दृष्ट्वा नृपधन-न्तत्र बद्ध्वा-ऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ) हर्​षेण धावमानाश्च प्रोचुर्नृपसमीपतः । तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥ राज्ञा-ऽऽज्ञप्तास्तत-श्शीघ्र-न्दृढ-म्बद्ध्वा तु ता वुभौ । स्थापितौ द्वौ महादुर्गे कारागारे-ऽविचारतः ॥ 30॥ मायया सत्यदेवस्य न श्रुत-ङ्कैस्तयोर्वचः । अतस्तयोर्धनं राज्ञा गृहीत-ञ्चन्द्रकेतुना ॥ 31॥ तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता । चौरेणापहृतं सर्व-ङ्गृहे यच्च स्थित-न्धनम् ॥ 32॥ आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति) अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे । कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥ एकस्मि-न्दिवसे याता क्षुधार्ता द्विजमन्दिरम् । (दिवसे जाता) गत्वा-ऽपश्यद् व्रत-न्तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्) उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि । प्रसाद भक्षण-ङ्कृत्वा ययौ रात्रौ गृह-म्प्रति ॥ 35॥ माता कलावती-ङ्कन्या-ङ्कथयामास प्रेमतः । पुत्रि रात्रौ स्थिता कुत्र कि-न्ते मनसि वर्तते ॥ 36॥ कन्या कलावती प्राह मातर-म्प्रति सत्वरम् । द्विजालये व्रत-म्मातर्दृष्टं-वाँञ्छितसिद्धिदम् ॥ 37॥ तच्छ्रुत्वा कन्यका वाक्यं-व्रँत-ङ्कर्तुं समुद्यता । सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥ व्रत-ञ्चक्रे सैव साध्वी बन्धुभि-स्स्वजनै-स्सह । भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥ अपराध-ञ्च मे भर्तुर्जामातुः, क्षन्तुमर्​हसि । व्रतेनानेन तुष्टो-ऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ) दर्​शयामास स्वप्नं ही चन्द्रकेतु-न्नृपोत्तमम् । बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥ देय-न्धन-ञ्च तत्सर्व-ङ्गृहीतं-यँ-त्त्वया-ऽधुना । (त्वयाधुना) नो चे-त्त्वा-न्नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥ एवमाभाष्य राजान-न्ध्यानगम्यो-ऽभव-त्प्रभुः । (ध्यानगम्योभवत्) ततः प्रभातसमये राजा च स्वजनै-स्सह ॥ 43॥ उपविश्य सभामध्ये प्राह स्वप्न-ञ्जन-म्प्रति । बद्धौ महाजनौ शीघ्र-म्मोचय द्वौ वणिक्सुतौ ॥ 44॥ इति राज्ञो वच-श्श्रुत्वा मोचयित्वा महाजनौ । समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥ आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् । ततो महाजनौ नत्वा चन्द्रकेतु-न्नृपोत्तमम् ॥ 46॥ स्मरन्तौ पूर्व वृत्तान्त-न्नोचतुर्भयविह्वलौ । राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥ देवा-त्प्राप्त-म्महद्दुःखमिदानी-न्नास्ति वै भयम् । तदा निगडसन्त्याग-ङ्क्षौरकर्माद्यकारयत् ॥ 48॥ वस्त्रालङ्कारक-न्दत्त्वा परितोष्य नृपश्च तौ । पुरस्कृत्य वणिक्पुत्रौ वचसा-ऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्) पुरानीत-न्तु यद् द्रव्य-न्द्विगुणीकृत्य दत्तवान् । प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ) राजान-म्प्रणिपत्याह गन्तव्य-न्त्वत्प्रसादतः । इत्युक्त्वा तौ महावैश्यौ जग्मतु-स्स्वगृह-म्प्रति ॥ 51॥ (महावैश्यो) ॥ इति श्रीस्कान्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्तृतीयो-ऽध्यायः ॥ 3 ॥ अथ चतुर्थो-ऽध्यायः सूत उवाच । यात्रा-न्तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् । ब्राह्मणेभ्यो धन-न्दत्त्वा तदा तु नगरं-यँयौ ॥ 1॥ कियद् दूरे गते साधो सत्यनारायणः प्रभुः । जिज्ञासा-ङ्कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥ ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ) कथ-म्पृच्छसि भो दण्डि-न्मुद्रा-न्नेतु-ङ्किमिच्छसि ॥ 3॥ लतापत्रादिक-ञ्चैव वर्तते तरणौ मम । निष्ठुर-ञ्च वच-श्श्रुत्वा सत्य-म्भवतु ते वचः ॥ 4॥ एवमुक्त्वा गत-श्शीघ्र-न्दण्डी तस्य समीपतः । कियद् दूरे ततो गत्वा स्थित-स्सिन्धु समीपतः ॥ 5॥ गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा । उत्थिता-न्तरणी-न्दृष्ट्वा विस्मय-म्परमं-यँयौ ॥ 6॥ दृष्ट्वा लतादिक-ञ्चैव मूर्च्छितो न्यपतद् भुवि । लब्धसञ्ज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितो-ऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिन्तान्वितोभवत्) तदा तु दुहितुः कान्तो वचन-ञ्चेदमब्रवीत् । किमर्थ-ङ्क्रियते शोक-श्शापो दत्तश्च दण्डिना ॥ 8॥ शक्यते तेन सर्वं हि कर्तु-ञ्चात्र न संशयः । (शक्यतेने न) अतस्तच्छरणं-याँमो वाञ्छतार्थो भविष्यति ॥ 9॥ (वाञ्छितार्थो) जामातुर्वचनं श्रुत्वा तत्सकाश-ङ्गतस्तदा । दृष्ट्वा च दण्डिन-म्भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥ क्षमस्व चापराध-म्मे यदुक्त-न्तव सन्निधौ । एव-म्पुनः पुनर्नत्वा महाशोकाकुलो-ऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्) प्रोवाच वचन-न्दण्डी विलपन्तं-विँलोक्य च । मा रोदी-श्शृणुमद्वाक्य-म्मम पूजाबहिर्मुखः ॥ 12॥ ममाज्ञया च दुर्बुद्धे लब्ध-न्दुःख-म्मुहुर्मुहुः । तच्छ्रुत्वा भगवद्वाक्यं स्तुति-ङ्कर्तुं समुद्यतः ॥ 13॥ साधुरुवाच । त्वन्मायामोहिता-स्सर्वे ब्रह्माद्यास्त्रिदिवौकसः । न जानन्ति गुणा-न्रूप-न्तवाश्चर्यमिद-म्प्रभो ॥ 14॥ मूढो-ऽह-न्त्वा-ङ्कथ-ञ्जाने मोहितस्तवमायया । (मूढोहं) प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥ पुरा वित्त-ञ्च त-थ्सर्व-न्त्राहि मां शरणागतम् । श्रुत्वा भक्तियुतं-वाँक्य-म्परितुष्टो जनार्दनः ॥ 16॥ वर-ञ्च वाञ्छित-न्दत्त्वा तत्रैवान्तर्दधे हरिः । ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥ कृपया सत्यदेवस्य सफलं-वाँञ्छित-म्मम । इत्युक्त्वा स्वजनै-स्सार्ध-म्पूजा-ङ्कृत्वा यथाविधि ॥ 18॥ हर्​षेण चाभव-त्पूर्णस्सत्यदेवप्रसादतः । नावं सं​योँज्य यत्नेन स्वदेशगमन-ङ्कृतम् ॥ 19॥ साधुर्जामातर-म्प्राह पश्य रत्नपुरी-म्मम । दूत-ञ्च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥ ततो-ऽसौ नगर-ङ्गत्वा साधुभार्यां-विँलोक्य च । (दूतोसौ) प्रोवाच वाञ्छितं-वाँक्य-न्नत्वा बद्धाञ्जलिस्तदा ॥ 21॥ निकटे नगरस्यैव जामात्रा सहितो वणिक् । आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥ श्रुत्वा दूतमुखाद्वाक्य-म्महाहर्​षवती सती । सत्यपूजा-न्ततः कृत्वा प्रोवाच तनुजा-म्प्रति ॥ 23॥ व्रजामि शीघ्रमागच्छ साधुसन्दर्​शनाय च । इति मातृवच-श्श्रुत्वा व्रत-ङ्कृत्वा समाप्य च ॥ 24॥ प्रसाद-ञ्च परित्यज्य गता सा-ऽपि पति-म्प्रति । (सापि) तेन रुष्टा-स्सत्यदेवो भर्तार-न्तरणि-न्तथा ॥ 25॥ (रुष्टः, तरणीं) संहृत्य च धनै-स्सार्ध-ञ्जले तस्यावमज्जयत् । ततः कलावती कन्या न विलोक्य निज-म्पतिम् ॥ 26॥ शोकेन महता तत्र रुदन्ती चापतद् भुवि । (रुदती) दृष्ट्वा तथाविधा-न्नाव-ङ्कन्या-ञ्च बहुदुःखिताम् ॥ 27॥ भीतेन मनसा साधुः किमाश्चर्यमिद-म्भवेत् । चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥ ततो लीलावती कन्या-न्दृष्ट्वा सा विह्वला-ऽभवत् । विललापातिदुःखेन भर्तार-ञ्चेदमब्रवीत ॥ 29॥ इदानी-न्नौकया सार्ध-ङ्कथं सो-ऽभूदलक्षितः । न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥ सत्यदेवस्य माहात्म्य-ञ्ज्ञातुं-वाँ केन शक्यते । इत्युक्त्वा विललापैव ततश्च स्वजनै-स्सह ॥ 31॥ ततो लीलावती कन्या-ङ्क्रौडे कृत्वा रुरोद ह । ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥ गृहीत्वा पादुके तस्यानुगतु-ञ्च मनोदधे । (पादुकां) कन्यायाश्चरित-न्दृष्ट्वा सभार्य-स्सज्जनो वणिक् ॥ 33॥ अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् । हृतं-वाँ सत्यदेवेन भ्रान्तो-ऽहं सत्यमायया ॥ 34॥ सत्यपूजा-ङ्करिष्यामि यथाविभवविस्तरैः । इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥ नत्वा च दण्डवद् भूमौ सत्यदेव-म्पुनः पुनः । ततस्तुष्ट-स्सत्यदेवो दीनाना-म्परिपालकः ॥ 36॥ जगाद वचन-ञ्चैन-ङ्कृपया भक्तवत्सलः । त्यक्त्वा प्रसाद-न्ते कन्या पति-न्द्रष्टुं समागता ॥ 37॥ अतो-ऽदृष्टो-ऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् । गृह-ङ्गत्वा प्रसाद-ञ्च भुक्त्वा सा-ऽऽयाति चेत्पुनः ॥ 38॥ (सायाति) लब्धभर्त्री सुता साधो भविष्यति न संशयः । कन्यका तादृशं-वाँक्यं श्रुत्वा गगनमण्डलात् ॥ 39॥ क्षिप्र-न्तदा गृह-ङ्गत्वा प्रसाद-ञ्च बुभोज सा । पश्चा-थ्सा पुनरागत्य ददर्​श स्वजन-म्पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं) ततः कलावती कन्या जगाद पितर-म्प्रति । इदानी-ञ्च गृहं-याँहि विलम्ब-ङ्कुरुषे कथम् ॥ 41॥ तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टो-ऽभूद्वणिक्सुतः । पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥ धनैर्बन्धुगणै-स्सार्ध-ञ्जगाम निजमन्दिरम् । पौर्णमास्या-ञ्च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्) इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 44॥ ॥ इति श्रीस्कान्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-ञ्चतुर्थो-ऽध्यायः ॥ 4 ॥ अथ पञ्चमो-ऽध्यायः सूत उवाच । अथान्यच्च प्रवक्ष्यामि श्रुणुध्व-म्मुनिसत्तमाः । आसी-त्तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ 1॥ प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः । एकदा स वन-ङ्गत्वा हत्वा बहुविधा-न्पशून् ॥ 2॥ आगत्य वटमूल-ञ्च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्) गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ता-स्स बान्धवाः ॥ 3॥ राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः । ततो गोपगणा-स्सर्वे प्रसाद-न्नृपसन्निधौ ॥ 4॥ संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् । ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ 5॥ तस्य पुत्रशत-न्नष्ट-न्धनधान्यादिक-ञ्च यत् । सत्यदेवेन तत्सर्व-न्नाशित-म्मम निश्चितम् ॥ 6॥ अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् । मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥ ततो-ऽसौ सत्यदेवस्य पूजा-ङ्गोपगणैस्सह । भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥ सत्यदेवप्रसादेन धनपुत्रान्वितो-ऽभवत् । इहलोके सुख-म्भुक्तत्वा चान्ते सत्यपुरं-यँयौ ॥ 9॥ य इद-ङ्कुरुते सत्यव्रत-म्परमदुर्लभम् । शृणोति च कथा-म्पुण्या-म्भक्तियुक्तः फलप्रदाम् ॥ 10॥ धनधान्यादिक-न्तस्य भवे-थ्सत्यप्रसादतः । दरिद्रो लभते वित्त-म्बद्धो मुच्येत बन्धनात् ॥ 11॥ भीतो भया-त्प्रमुच्येत सत्यमेव न संशयः । ईप्सित-ञ्च फल-म्भुक्त्वा चान्ते सत्यपुरं​व्रँजेत् ॥ 12॥ इति वः कथितं-विँप्रा-स्सत्यनारायणव्रतम् । य-त्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥ विशेषतः कलियुगे सत्यपूजा फलप्रदा । केचि-त्कालं-वँदिष्यन्ति सत्यमीश-न्तमेव च ॥ 14॥ सत्यनारायण-ङ्केचि-थ्सत्यदेव-न्तथापरे । नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः) भविष्यति कलौ सत्यव्रतरूपी सनातनः । श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥ य इद-म्पठते नित्यं शृणोति मुनिसत्तमाः । तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ 17॥ व्रतं-यैँस्तु कृत-म्पूर्वं सत्यनारायणस्य च । तेषा-न्त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥ शतानन्दोमहाप्राज्ञस्सुदामाब्राह्मणो ह्यभूत् । तस्मिञ्जन्मनि श्रीकृष्ण-न्ध्यात्वा मोक्षमवाप ह ॥ 19॥ काष्ठभारवहो भिल्लो गुहराजो बभूव ह । तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्ष-ञ्जगाम वै ॥ 20॥ उल्कामुखो महाराजो नृपो दशरथो-ऽभवत् । श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठ-न्तदागमत् ॥ 21॥ (श्रीरामचन्द्रसम्प्राप्य) र्धामिक-स्सत्यसन्धश्च साधुर्मोरध्वजो-ऽभवत् । (साधुर्मोरध्वजोभवत्) देहार्ध-ङ्क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥ तुङ्गध्वजो महाराज-स्स्वायम्भुवो-ऽभव-त्किल । (स्वायम्भूरभवत्) सर्वा-न्भागवतान् कृत्वा श्रीवैकुण्ठ-न्तदा-ऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्) भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः । निहत्य राक्षसान् सर्वा-न्गोलोक-न्तु तदा ययुः ॥ 24॥ ॥ इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्पञ्चमो-ऽध्यायः ॥ 5 ॥

Explore More