गलधृतवनमालं गर्वितारातिकालम् ।
कलिमलहरशीलं कान्तिधूतेन्द्रनीलं
विनमदवनशीलं वेणुगोपालमीडे ॥ 1 ॥
करधृतगुरुशैलं कञ्जगर्भादिपालम् ।
अभिमतफलदानं श्रीजितामर्त्यसालं
विनमदवनशीलं वेणुगोपालमीडे ॥ 2 ॥
कलशजलधिकन्यामोदकश्रीकपोलम् ।
प्लुषितविनतलोकानन्तदुष्कर्मतूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ 3 ॥
दितिजततिकरालं दिव्यदारायितेलम् ।
मृदुमधुरवचःश्री दूरितश्रीरसालं
विनमदवनशीलं वेणुगोपालमीडे ॥ 4 ॥
जगदुदयलयस्थित्यात्मकात्मीयखेलम् ।
सकलमुनिजनालीमानसान्तर्मरालं
विनमदवनशीलं वेणुगोपालमीडे ॥ 5 ॥
विलसितशरकालं विश्वपूर्णान्तरालम् ।
शुचिरुचिरयशश्श्रीधिक्कृत श्रीमृणालं
विनमदवनशीलं वेणुगोपालमीडे ॥ 6 ॥
स्वमहिमलवलीलाजातविध्यण्डगोलम् ।
गुरुतरभवदुःखानीक वाःपूरकूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ 7 ॥
सकलसुकृतिरक्षादक्षकारुण्य हेलम् ।
रुचिविजिततमालं रुक्मिणीपुण्यमूलं
विनमदवनशीलं वेणुगोपालमीडे ॥ 8 ॥
श्रीरुक्मिणीलोलसुवर्णचेलाम् ।
कृतिं मम त्वं कृपया गृहीत्वा
स्रजं यथा मां कुरु दुःखदूरम् ॥ 9 ॥
