श्री यन्त्रोधारक हनुमत् स्तोत्रम्
नमामि दूतं रामस्य सुखदं च सुरद्रुमम् ।
श्री मारुतात्मसम्भूतं विद्युत्काञ्चन सन्निभम् ॥ १॥

पीनवृत्तं महाबाहुं सर्वशत्रुनिवारणम् ।
रामप्रियतमं देवं भक्ताभीष्टप्रदायकम् ॥ २॥

नानारत्नसमायुक्तं कुण्डलादिविराजितम् ।
द्वात्रिंशल्लक्षणोपेतं स्वर्णपीठविराजितम् ॥ ३॥

त्रिंशत्कोटिबीजसम्युक्तं द्वादशावर्ति प्रतिष्ठितम् ।
पद्मासनस्थितं देवं षट्कोणमण्डलमध्यगम् ॥ ४॥

चतुर्भुजं महाकायं सर्ववैष्णवशेखरम् ।
गदाऽभयकरं हस्तौ हृदिस्थौ सुकृताञ्जलिम् ॥ ५॥

हंसमन्त्र प्रवक्तारं सर्वजीवनियामकम् ।
प्रभञ्जनशब्दवाच्येण सर्वदुर्मतभञ्जकम् ॥ ६॥

सर्वदाऽभीष्टदातारं सतां वै दृढमाहवे ।
अञ्जनागर्भसम्भूतं सर्वशास्त्रविशारदम् ॥ ७॥

कपीनां प्राणदातारं सीतान्वेषणतत्परम् ।
अक्षादिप्राणहन्तारं लङ्कादहनतत्परम् ॥ ८॥

लक्ष्मणप्राणदातारं सर्ववानरयूथपम् ।
किङ्कराः सर्वदेवाद्याः जानकीनाथस्य किङ्करम् ॥ ९॥

वासिनं चक्रतीर्थस्य दक्षिणस्थ गिरौ सदा ।
तुङ्गाम्भोदि तरङ्गस्य वातेन परिशोभिते ॥ १०॥

नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः ।
धूपदीपादि नैवेद्यैः पञ्चखाद्यैश्च शक्तितः ॥ ११॥

भजामि श्रीहनूमन्तं हेमकान्तिसमप्रभम् ।
व्यासतीर्थयतीन्द्रेण पूजितं च विधानतः ॥ १२॥

त्रिवारं यः पठेन्नित्यं स्तोत्रम् भक्त्या द्विजोत्तमः ।
वाञ्छितं लभतेऽभीष्टं षण्मासाभ्यन्तरे खलु ॥ १३॥

पुत्रार्थी लभते पुत्रं यशोऽर्थी लभते यशः ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १४॥

सर्वथा माऽस्तु सन्देहो हरिः साक्षी जगत्पतिः ।
यः करोत्यत्र सन्देहं स याति नरकं ध्रुवम् ॥ १५॥

यन्त्रोधारकस्तोत्रम् षोडशश्लोकसम्युतम् ।
श्रवणं कीर्तनं वा सर्वपापैः प्रमुच्यते ॥ १६॥