ओंकारेण सुखप्रदे शुभकरे ओंकारबिन्दुप्रिये ।
ओंकारे जगदम्बिके शशिकले ओंकारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १ ॥
ह्रींकाराब्धिसुचारुचान्द्रकधरे ह्रींकारनादप्रिये ।
ह्रींकारे त्रिपुरेश्वरी सुचरिते ह्रींकारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २ ॥
श्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये ।
श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रिये
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३ ॥
कल्याणी जगदीश्वरी भगवती कादम्बवासप्रिये ।
कामाक्षी सकलेश्वरी शुभकरे क्लीङ्कारपीठस्थिते
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४ ॥
नानालङ्कृतहारनूपुरधरे नासामणीभासुरे ।
नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थले
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५ ॥
शान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने ।
शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६ ॥
माहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि ।
मान्धातृप्रमुखादिपूजितपदे मन्त्रार्थसिद्धिप्रदे
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७ ॥
नादे नादमयी सदाशिवमयी तत्त्वार्थसारात्मिके ।
शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिके
दासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८ ॥
धराधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९ ॥
तेषां च धनमायुष्यमारोग्यं पुत्रसम्पदः ॥ १० ॥
