Lord Kalabhairava

श्री आपदुद्धारक बटुकभैरव अष्टोत्तरशतनाम स्तोत्रम्

(Apaduddharaka Batuka Bhairava Ashtottara Shatanama Stotram)

Also known as Apaduddharaka Stotram · Batuka Bhairava Ashtottara Shatanama Stotram · apaduddharaka batuka bhairav

A hundred and eight names of Batuka Bhairava in his aspect as Apaduddharaka, the lifter-out of calamity. The hymn is framed as a dialogue: Parvati, finding Shiva seated at ease on the peak of Meru, asks the three-eyed lord for the mantra that raises one out of danger and accomplishes all things — asked, she says, for the good of all beings, and for kings in particular, for peace and for prosperity. The names follow, and the closing verses give the fruit: no fear of pestilence, none of spirits, none from enemies shall come upon the one who recites it. Recited against sudden misfortune and for protection.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रम् (आपदुद्धारक स्तोत्र) ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
मेरुपृष्ठे सुखासीनं देवदेवं त्रिलोचनम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १ ॥
श्रीपार्वत्युवाच-
भगवन्सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिकरं परम् ॥ २ ॥
सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषमतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३ ॥
अङ्गन्यासकरन्यासदेहन्याससमन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्द्धनम् ॥ ४ ॥
शङ्कर उवाच-
श्रृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुविनाशनम् ॥ ५ ॥
अपस्मारादि रोगानां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६ ॥
ग्रहरोगत्राणनां च नाशनं सुखवर्द्धनम् ।
स्नेहाद्वक्ष्यामि तं मन्त्रं सर्वसारमिमं प्रिये ॥ ७ ॥
सर्वकामार्थदं पुण्यं राज्यं भोगप्रदं नृणाम् ।
आपदुद्धारणमिति मन्त्रं वक्ष्याम्यशेषतः ॥ ८ ॥
॥ मन्त्रोद्धार ॥
प्रणवं पूर्वमुद्धृत्य देवी प्रणवमुद्धरेत् ।
बटुकायेति वै पश्चादापदुद्धारणाय च ॥ ९ ॥
कुरु द्वयं ततः पश्चाद्वटुकाय पुनः क्षिपेत् ।
देवीं प्रणवमुद्धृत्य मन्त्रोद्धारमिमं प्रिये ॥ १० ॥
मन्त्रोद्धारमिदं देवी त्रैलोक्यस्यापि दुर्लभम् ।
ओं ह्रीं बटुकाय आपदुद्धारणाय कुरु-कुरु बटुकाय ह्रीं ।
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ॥ ११ ॥
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ।
विद्रवन्त्यतिभीता वै कालरुद्रादिव द्विजाः ॥ १२ ॥
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ।
अग्निचौरभयं तस्य ग्रहराजभयं तथा ॥ १३ ॥
न च मारिभयं किञ्चित्सर्वत्रैव सुखी भवेत् ।
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादि सम्पदः ॥ १४ ॥
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ।
न दारिद्र्यं न दौर्भाग्यं नापदां भयमेव च ॥ १५ ॥
॥ नामाष्टशतक (स्तोत्रम्) ॥
ओं ह्रीं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ १ ॥
श्मशानवासी मांसाशी खर्पराशी स्मरान्तकः ।
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २ ॥
कङ्कालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ ३ ॥
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः ॥ ४ ॥
धनदोऽधनहारि च धनवान्प्रीतिवर्धनः ।
प्रतिभानवान् नागहारो नागकेशो व्योमकेशो कपालभृत् ॥ ५ ॥
नागपाशो कालः कपालमालि च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकभृत् ॥ ६ ॥
त्रिनेत्रतनयो डिम्भः शान्तः शान्तजनप्रियः ।
बटुको बटुवेशश्च खट्वाङ्गवरधारकः ॥ ७ ॥
भूताध्यक्षो पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः ॥ ८ ॥
प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः ॥ ९ ॥
अष्टाधारः षडाधारः सर्पयुक्तः शिखीसखः ।
भूधरो भुधराधीशो भूपतिर्भूधरात्मजः ॥ १० ॥
कङ्कालधारी मुण्डी च आन्त्रयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ११ ॥
शुद्धनीलाञ्जनप्रख्यो दैत्यहा मुण्डविभूषितः ।
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः ॥ १२ ॥
सर्वापत्तारणो दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ॥ १३ ॥
जगद्रक्षाकरोऽनन्तो मायामन्त्रौषधीमयः ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरितीव हि ह्रीं ओम् ॥ १४ ॥
॥ फलश्रुति ॥
अष्टोत्तरशतं नाम्नां भैरवाय महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामदम् ॥ १५ ॥
य इदं पठति स्तोत्रं नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत् ॥ १६ ॥
न च मारीभयं किञ्चिन्न च भूतभयं क्वचित् ।
न शत्रुभ्यो भयं किञ्चितप्राप्नुयान्मानवः क्वचित् ॥ १७ ॥
॥ इति श्रीबटुकभैरवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Explore More