अथमूलनामावलीपाठः-
क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रदः क्षत्रियो विराट्॥१॥
रक्तपः पानपः सिद्धः सिद्धिदः सिद्धसेवितः॥२॥
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः॥३॥
अभीरुर्भैरवीनाथो भूतपो योगिनीपतिः॥४॥
नागहारो नागपाशो व्योमकेशः कपालभृत्॥५॥
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी त्रिलोकपः॥६॥
बटुको बहुवेषश्च खट्वाङ्गवरधारकः॥७॥
धूर्तो दिगम्बरः शूरो हरिणः पाण्डुलोचनः॥८॥
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तपोमयः॥९॥
भूधरो भूधराधीशो भूपतिर्भूधरात्मजः॥१०॥
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा॥११॥
बलिभुग् बलिभुङ्नाथो बालोऽबालपराक्रमः॥१२॥
कामी कलानिधिकान्तः कामिनीवशकृद्वशी॥१३॥
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुरिती वह्रि ह्रीं ॐ॥१४
(सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः करोतु शम्) ॥१४॥
मया ते कथितं देवि रहस्यं सर्वकामदम्॥
न तस्य दुरितं किञ्चिन्न रोगेभ्यो भयं भवेत्॥
न शत्रुर्भयो भयं किञ्चित् प्राप्नुयान् मानवः क्वचित्॥
मारीभये राजभये तथा चौराग्निजे भये॥
बन्धने धने च तथा घोरे पठेत् स्तोत्रमनुत्तमम्॥
एकादशसहस्रं तु पुरश्चरणमुच्यते॥
स सिद्धिं प्राप्नुयादिष्टां दुर्लभां अपि मानवः॥
राजशत्रुविनाशार्थं पठेन् मासाष्टकं पुनः॥
जपेन् मासत्रयं मर्त्यो राजानवशमानयेत्॥
पठेन् मासत्रयं देवि वारमेकं तथा निशि॥
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात्।
भीतो भयात् प्रमुच्येत आपन्न आपदः॥
शृङ्खलाबन्धनं प्राप्तः पठेच्चैव दिवानिशम्॥
अप्रकाश्यं परं गुह्यं न देयं यस्य कस्य चित्॥
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम्॥
इतिश्रीरुद्रयामलेतन्त्रेविश्वसारोद्धारे श्रीमदापदुद्धारकबटुकभैरवस्तोत्रं सम्पूर्णम्॥
