ओम् ॥ ओ-म्भूमि॑र्भू॒म्ना द्यौर्व॑रि॒णा-ऽन्तरि॑क्ष-म्महि॒त्वा ।
आ-ऽयङ्गौः पृश्नि॑रक्रमी॒-दस॑नन्मा॒तर॒-म्पुनः॑ ।
त्रि॒ग्ं॒शद्धाम॒ विरा॑जति॒ वाक्प॑त॒ङ्गाय॑ शिश्रिये ।
अ॒स्य प्रा॒णाद॑पान॒त्य॑न्तश्च॑रति रोच॒ना ।
यत्त्वा᳚ क्रु॒द्धः प॑रो॒वप॑म॒न्युना॒ यदव॑र्त्या ।
यत्ते॑ म॒न्युप॑रोप्तस्य पृथि॒वी-मनु॑दध्व॒से ।
मे॒दिनी॑ दे॒वी व॒सुन्ध॑रा स्या॒द्वसु॑धा दे॒वी वा॒सवी᳚ ।
दे॒वी हि॑रण्यग॒र्भिणी॑ दे॒वी प्र॑सो॒दरी᳚ ।
स॒मु॒द्रव॑ती सावि॒त्री आह॒नो दे॒वी म॒ह्य॑ङ्गी᳚ ।
शृ॒ङ्गे शृ॑ङ्गे य॒ज्ञे य॑ज्ञे विभी॒षणी᳚ इन्द्र॑पत्नी व्या॒पिनी॒ सर॑सिज इ॒ह ।
वि॒ष्णु॒प॒त्नी-म्म॑ही-न्दे॒वी᳚-म्मा॒ध॒वी-म्मा॑धव॒प्रियाम् ।
ओ-न्ध॒नु॒र्ध॒रायै॑ वि॒द्महे॑ सर्वसि॒द्ध्यै च॑ धीमहि ।
शृ॒ण्वन्ति॑ श्रो॒णाममृत॑स्य गो॒पा-म्पुण्या॑मस्या॒ उप॑शृणोमि॒ वाच᳚म् ।
त्रे॒धा विष्णु॑-रुरुगा॒यो विच॑क्रमे म॒ही-न्दिव॑-म्पृथि॒वी-म॒न्तरि॑क्षम् ।
स्यो॒नापृ॑थिवि॒भवा॑नृक्ष॒रानि॒वेश॑नी यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥
अदि॑तिर्दे॒वा ग॑न्ध॒र्वा म॑नु॒ष्याः᳚ पि॒तरो सु॑रास्तेषाग्ं स॒र्व भू॒ता॒ना᳚-म्मा॒ता मे॒दिनी॑ महता म॒ही ।
इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
श्यामां-विँचित्रा-न्नवरत्न भूषिता-ञ्चतुर्भुजा-न्तुङ्गपयोधरान्विताम् ।
सक्तु॑मिव॒ तित॑उना पुनन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒ मक्र॑त ।
