अत्रि॑णा त्वा क्रिमे हन्मि ।
कण्वे॑न ज॒मद॑ग्निना ।
वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः ।
क्रिमी॑णा॒ग्ं॒ राजा᳚ ।
अप्ये॑षाग् स्थ॒पति॑र्ह॒तः ।
अथो॑ मा॒ता-ऽथो॑ पि॒ता ।
अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः ।
अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः ।
अथो॑ आ॒शाति॑का ह॒ताः ।
श्वे॒ताभि॑स्स॒ह सर्वे॑ ह॒ताः ॥ 36
- अत्रिणा (atriṇā)by Atri
- त्वा (tvā)you
- क्रिमे (krime)O worm
- हन्मि (hanmi)I slay
- कण्वेन (kaṇvena)by Kaṇva
- जमदग्निना (jamadagninā)by Jamadagni
- विश्वावसोः ब्रह्मणा (viśvāvasoḥ brahmaṇā)by the sacred formula of Viśvāvasu
- हतः (hataḥ)slain
- क्रिमीणाम् राजा (krimīṇām rājā)the king of the worms
- अपि (api)also
- एषाम् स्थपतिः (eṣām sthapatiḥ)their overseer
- हतः (hataḥ)slain
शृ॒तस्य॑ ह॒विषो॒ यथा᳚ ।
तत्स॒त्यम् ।
यद॒मुं-यँ॒मस्य॒ जम्भ॑योः ।
आद॑धामि॒ तथा॒ हि तत् ।
खण्फण्म्रसि॑ ॥ 37
ॐ शान्ति-श्शान्ति-श्शान्तिः ।
- आहर (āhara)bring
- अवद्य (avadya)the blameworthy
- शृतस्य हविषः यथा (śṛtasya haviṣaḥ yathā)as of the cooked oblation
- तत् सत्यम् (tat satyam)that is true
- यत् अमुम् (yat amum)in that him
- यमस्य जम्भयोः (yamasya jambhayoḥ)in the jaws of Yama
- आदधामि (ādadhāmi)I place
- तथा हि तत् (tathā hi tat)so indeed it is
- शान्तिः (śāntiḥ)peace, thrice invoked
