Lord Krishna

गीतगोविन्दं सप्तमः सर्गः - नागर नारयणः

(Gitagovindam Saptamah Sargah - Nagara Narayana)

Jayadeva

This text constitutes the seventh canto of the Gita Govinda, a masterpiece of devotional literature composed by the 12th-century poet Jayadeva. It vividly captures the intense pangs of separation experienced by Radha while awaiting Krishna in the forest of Vrindavana. Through poignant lyrical verses and the 'Ashtapadi' structure, Jayadeva explores the profound emotional landscape of divine love. Chanting or meditating upon these verses is considered a transformative spiritual practice that cleanses the heart, evokes deep longing for the Divine, and allows the devotee to participate in the intimate, eternal play of Krishna and Radha.

॥ सप्तमः सर्गः ॥

॥ नागरनारायणः ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात-सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ 40 ॥
प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ 41 ॥
॥ गीतं 13 ॥
कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ 1 ॥
यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ 2 ॥
मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ 3 ॥
मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ 4 ॥
अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ 5 ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ 6 ॥
अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ 7 ॥
हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ 8 ॥
तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ 42 ॥
अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ 43 ॥
॥ गीतं 14 ॥
स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ 1 ॥
हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ 2 ॥
विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्द्रा ॥ 3 ॥
चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगलितलोला ॥ 4 ॥
दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ 5 ॥
विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ 6 ॥
श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ 7 ॥
श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ 8 ॥
विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ 44 ॥
॥ गीतं 15 ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ 1 ॥
घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ 2 ॥
घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ 3 ॥
जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ 4 ॥
रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ 5 ॥
चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ 6 ॥
रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ 7 ॥
इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ 8 ॥
नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ 45 ॥
॥ गीतं 16 ॥
अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ 1 ॥
विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ 2 ॥
अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ 3 ॥
स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ 4 ॥
सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ 5 ॥
कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥ 6 ॥
सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ 7 ॥
श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ 8 ॥
मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ 46 ॥
रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ 47 ॥
बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ 48 ॥
प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीताम्बरम्
रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥ (कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)
इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

Explore More