॥ सप्तमः सर्गः ॥
अत्रान्तरे च कुलटाकुलवर्त्मपात-सञ्जातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ 40 ॥
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ 41 ॥
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ 1 ॥
तेन मम हृदयमिदमसमशरकीलितम् ॥ 2 ॥
किमिह विषहामि विरहानलचेतना ॥ 3 ॥
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ 4 ॥
हरिविरहदहनवहनेन बहुदूषणम् ॥ 5 ॥
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ 6 ॥
स्मरति मधुसूदनो मामपि न चेतसा ॥ 7 ॥
वसतु हृदि युवतिरिव कोमलकलावती ॥ 8 ॥
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ 42 ॥
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ 43 ॥
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ 1 ॥
कुचकलशोपरि तरलितहारा ॥ 2 ॥
तदधरपानरभसकृततन्द्रा ॥ 3 ॥
मुखरितरसनजघनगलितलोला ॥ 4 ॥
बहुविधकूजितरतिरसरसिता ॥ 5 ॥
श्वसितनिमीलितविकसदनङ्गा ॥ 6 ॥
परिपतितोरसि रतिरणधीरा ॥ 7 ॥
कलिकलुषं जनयतु परिशमितम् ॥ 8 ॥
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ 44 ॥
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ 1 ॥
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ 2 ॥
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ 3 ॥
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ 4 ॥
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ 5 ॥
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ 6 ॥
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ 7 ॥
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ 8 ॥
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ 45 ॥
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ 1 ॥
स्फुटति न सा मनसिजविशिखेन ॥ 2 ॥
ज्वलति न सा मलयजपवनेन ॥ 3 ॥
लुठति न सा हिमकरकिरणेन ॥ 4 ॥
दलति न सा हृदि चिरविरहेण ॥ 5 ॥
श्वसति न सा परिजनहसनेन ॥ 6 ॥
वहति न सा रुजमतिकरुणेन ॥ 7 ॥
प्रविशतु हरिरपि हृदयमनेन ॥ 8 ॥
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ 46 ॥
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ 47 ॥
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ 48 ॥
रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥(कस्मिंश्चन पाठान्तरे इदं पद्यं विद्यते)
॥
