आञ्जनेयः कपिश्रेष्ठः केसरीप्रियनन्दनः ॥ १॥
सुग्रीवसचिवो वालिजितसुग्रीवमाल्यदः ॥ २॥
सुग्रीवसत्पक्षपाती रामकार्यसुसाधकः ॥ ३॥
सर्वदेवस्तुतः सर्वदेवानन्दविवर्धनः ॥ ४॥
सुमेरुसुमहाकायो गोष्पदीकृतवारिधिः ॥ ५॥
लङ्कानिभञ्जनः सीताराममुद्राङ्गुलीयदः ॥ ६॥
श्रीरामहृदयाभिज्ञो निःशेषसुरपूजितः ॥ ७॥
सर्वरक्षोविनाशार्थं कृतकोलाहलध्वनिः ॥ ८॥
पुच्छघातविनिष्पिष्टबहुकोटिनराशनः ॥ ९॥
स्वदेहप्राप्तपिष्टाङ्गदुर्धर्षाभिधराक्षसः ॥ १०॥
सुरान्तरात्मनः पुत्रो भासकर्णविनाशकः ॥ ११॥
दशास्यमन्त्रिपुत्रघ्नः पोथिताक्षकुमारकः ॥ १२॥
इन्द्रशत्रुविनिर्मुक्तशस्त्राचाल्यसुविग्रहः ॥ १३॥
तृणीकृतेन्द्रजित्पूर्वमहाराक्षसयूथपः ॥ १४॥
स्वपुच्छवह्निनिर्दग्धलङ्कालङ्कापुरेश्वरः ॥ १५॥
जलदैवतसूनुश्च सर्ववानरपूजितः ॥ १६॥
रामपादार्पितश्रीमच्चूडामणिरनाकुलः ॥ १७॥
रामालिङ्गनतुष्टाङ्गो रामप्राणप्रियः शुचिः ॥ १८॥
विभीषणश्रियः कर्ता रामलालितनीतिमान् ॥ १९॥
शिलाप्रहारनिष्पिष्टधूम्राक्षरथसारथिः ॥ २०॥
अकम्पनप्राणहर्ता पूर्णविज्ञानचिद्घनः ॥ २१॥
नरान्तकरथच्छेत्ता देवान्तकविनाशकः ॥ २२॥
त्रिशिरोधनुषश्छेत्ता त्रिशिरःखड्गभञ्जनः ॥ २३॥
रावणोरसि निष्पिष्टमुष्टिर्दैत्यभयङ्करः ॥ २४॥
अशेषभुवनाधारो लक्ष्मणोद्धरणक्षमः ॥ २५॥
कुम्भकर्णत्रिशूलैकसञ्छेत्ता विष्णुभक्तिमान् ॥ २६॥
शस्त्रास्त्रास्पृष्टसद्देहः सुज्ञानी रामसम्मतः ॥ २७॥
स्वशक्त्या लक्ष्मणोद्धर्ता लक्ष्मणोज्जीवनप्रदः ॥ २८॥
तपःकृशाङ्गभरते रामागमनशंसकः ॥ २९॥
रामच्छत्रधरो देवो वेदान्तपरिनिष्ठितः ॥ ३०॥
बदरीषण्डमध्यस्थनारायणनिषेवकः ॥ ३१॥
॥ फलश्रुतिः ॥
पठतां शृण्वतां चैव नित्यमभ्यसतां सताम् ॥ ३२॥
महारोगप्रशमनं महादुःखविनाशनम् ॥ ३३॥
रामक्रोधादिशमनं बाह्यशत्रुविनाशनम् ॥ ३४॥
महाबन्धहरं सम्यक् कर्मबन्धनिकृन्तनम् ॥ ३५॥
धनधान्यप्रदं सम्यक् पुत्रपौत्रप्रवर्धनम् ॥ ३६॥
पूर्णानुग्रहतो विष्णोर्यो वायुर्मोक्षदः सताम् ॥ ३७॥
श्रुतिस्मृतिपुराणानि भारताद्युक्तयस्तथा ॥ ३८॥
सत्यं सत्यं पुनः सत्यं नात्र कार्या विचारणा ॥ ३९॥
