शङ्काकलङ्कयुतपङ्कायताश्मशितटङ्कायितस्वचरिता ।
त्वं कालदेशपदशङ्कातिपातिपतिसङ्काश वैभवयुता
शं काममातरनिशं कामनीयमिह सङ्काशयाशु कृपया ॥ १॥
काचाटनाय कटुवाचाटभावयुतनीचाटनं न कलये ।
वाचामगोचरसदाचारसूरिजनताचातुरीविवृतये
प्राचां गतिं कुशलवाचां जगज्जननि याचामि देवि भवतीम् ॥ २॥
वीटीदलक्रमुकपाटीरपङ्कनवशाटीकृताङ्गरचना ।
खेटीकमानशतकोटीकराब्जजजटाटीरवन्दितपदा
या टीकतेऽब्जवनमाटीकतां हृदयवाटीमतीव कमला ॥ ३॥
शान्तार्थकान्तवकृतान्ता भजन्ति हृदि दान्ता दुरन्ततपसा ।
यां तानतापभवतान्तातिभीतजगतां तापनोदनपटुं
मां तारयत्वशुभकान्तारतोऽद्य हरिकान्ताकटाक्षलहरी ॥ ४॥
त्वं भासि लक्ष्मि सततं भाव्ययद्भवनसम्भावनादिविधये ।
जम्भारिसम्पदुपलम्भादिकारणमहं भाव्यमङ्घ्रियुगलं
सम्भावये श्रुतिषु सम्भाषितं वचसि सम्भाष्य तस्य तव च ॥ ५॥
साराङ्गलिप्तघनसारार्द्रकुङ्कुमरसा राजहंसगमना ।
वैराकरस्मरविकारापसंसरणवाराशिमग्रमनसः
श्रीराविरस्तु धुरि ताराय मे गुरुभिरारधिता भगवती ॥ ६॥
श्रीवासदेशलसदावापकाशरदभावाभकेशनिकरा ।
श्रीवासुदेवरमणी वामदेवविधिदेवाधिपावनपरा
श्रीवासवस्तुनरदेवाहतस्तुतिसभावा मुदेऽस्तु सुतराम् ॥ ७॥
दोषाकुले जगति पोषाकुला सपदि शेषाहि शायिदयिता ।
दोषालयस्य मम दोषानपोह्य गतदोषाभिनन्द्यमहिमा
शेषाशनाहिरिपुशेषादिसम्पद विशेषां ददातु विभवान् ॥ ८॥
