Lord Shiva

श्री महान्यासम् - 3. अङ्गन्यासः

(Sri Mahanayasa - 3. Anganyasa)

From Yajurveda (Sri Rudram)

Anganyasa is the essential third component of the Sri Mahanayasa, a sacred procedure involving the ritual placement of mantras onto various limbs of the body. By invoking the supreme energy of Lord Shiva through the resonance of the Sri Rudram, this practice purifies the physical frame and prepares the devotee for deeper meditation. It serves as an act of divine fortification, sanctifying the practitioner as a living temple. Regular performance is believed to bestow spiritual protection, mental clarity, and the profound grace of the Rudra, aligning the individual consciousness with the cosmic vibration of the deity.

या ते॑ रुद्र शि॒वा त॒नूरघो॒रा-ऽपा॑पकाशिनी ।
तया॑ न स्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।
शिखायै नमः । 1
अ॒स्मि-न्म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
शिरसे नमः । 2
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्र-योज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
ललाटाय नमः । 3
ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थि-र्दुरोण॒सत् ।
नृ॒षद्व॑र॒-सदृ॑त॒-सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् ।
भ्रुवोर्मद्ध्याय नमः । 4
त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्
मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता᳚त् ।
नेत्राभ्या-न्नमः । 5
नम॒-स्स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च ।
कर्णाभ्या-न्नमः । 6
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
नासिकाभ्या-न्नमः । 7
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्याना॒-म्मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
मुखाय नमः । 8
नील॑ग्रीवा श्शिति॒कण्ठा᳚-श्श॒र्वा अ॒धः, क्ष॑माच॒राः ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
कण्ठाय नमः । 9.1
नील॑ग्रीवा-श्शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
उपकण्ठाय नमः । 9.2
नम॑स्ते अ॒स्त्वायु॑धा॒या-ना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒-न्तव॒ धन्व॑ने ।
बाहुभ्या-न्नमः । 10
या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒-ऽस्मान् वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज ।
उपबाहुभ्या-न्नमः । 11
परि॑णो रु॒द्रस्य॑ हे॒ति-र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यः तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
मणिबन्धाभ्या-न्नमः । 12
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
हस्ताभ्या-न्नमः । 13
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
अगुंष्ठाभ्या-न्नमः । 14.1
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
तर्जनीभ्या-न्नमः । 14.2
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्र रू॑पेभ्यः ॥
मद्ध्यमाभ्या-न्नमः । 14.3
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
अनामिकाभ्या-न्नमः । 14.4
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒नां॒
रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
कनिष्ठिकाभ्या-न्नमः । 14.5
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यः ।
हृदयाय नमः । 15
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑ ।
पृष्ठाय नमः । 16
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमः॑ ।
पार्​श्वाभ्या-न्नमः । 17
विज्य॒-न्धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ।
जठराय नमः । 18
हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
नाभ्यै नमः । 19
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑क॒-म्बिभ्र॒दाग॑हि ।
कठ्यै नमः । 20
ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
गुह्याय नमः । 21
ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
अण्डाभ्या-न्नमः । 22
स॒ शि॒रा जा॒तवे॑दा अ॒क्षर॑-म्पर॒म-म्प॒दम् ।
वेदा॑ना॒ग्ं॒ शिर॑सि मा॒ता॒ आ॒यु॒ष्मन्त॑-ङ्करोतु॒ माम् ।
अपानाय नमः । 23
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
ऊरुभ्या-न्नमः । 24
ए॒ष ते॑ रुद्रभा॒ग-स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो
मूज॑व॒तो-ऽती॒ह्यव॑तत-धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।
जानुभ्या-न्नमः । 25
स॒ग्ं॒ सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हु-श॒र्ध्यू᳚र्ध्व ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒बाध॑मानः ।
जङ्घाभ्या-न्नमः । 26
विश्व॑-म्भू॒त-म्भुव॑न-ञ्चि॒त्र-म्ब॑हु॒धा जा॒त-ञ्जाय॑मान-ञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्र-स्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
गुल्फाभ्या-न्नमः । 27
ये प॒था-म्प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
पादाभ्या-न्नमः । 28
अद्ध्य॑वोच-दधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्॑श्च॒ सर्वा᳚न् ज॒भं​यँ॒-न्थ्सर्वा᳚श्च यातु धा॒न्यः॑ ।
कवचाय हुम् । 29
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ।
उपकवचाय हुम् । 30
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒-ऽह-न्तेभ्यो॑-ऽकर॒न्नमः॑ ।
तृतीय नेत्राय नमः । 31
प्रमु॑ञ्च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।
अस्त्राय फट् । 32
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
इति दिग्बन्धः । 33
-----------इति प्रथम न्यासः------------
(शिखादि अस्त्रपर्यन्तं एकत्रिंशदङ्गन्यासः दिग्बन्ध सहितः प्रथमः)

Explore More