अबो᳚द्ध्य॒ग्नि-स्स॒मिधा॒ जना॑ना॒-म्प्रति॑धे॒नु-मि॑वाय॒ती मु॒षास᳚म् ।
अ॒ग्नि र्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
मू॒र्धान॑-न्दि॒वो अ॑र॒ति-म्पृ॑थि॒व्या वै᳚श्वान॒र-मृ॒ताय॑ जा॒तम॒ग्निम् ।
जा॒तवे॑दा॒ यदि॑ वा पाव॒को-ऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तो-ऽसि॑ ।
