Lord Krishna

श्रीब्रह्मवैवर्ते राधाकृतं श्रीकृष्णस्तोत्रं

(Radha Krutam Shri Krishna Stotram)

Radha Ji

Also known as radha krutam shri krishna stotra · radha krishna stotram · golokanatha gopisa madisa pranavallabha he dinabandho

Radha's hymn to Krishna from the Brahmavaivarta Purana, mostly a chain of vocatives — lord of Goloka, lord of the cowherd women, my own lord, breaker of Indra's pride, humbler of Brahma's, subduer of Kaliya. Its eighth verse is the one to stop at, because in it she names herself and then subordinates that: I am Sarasvati, Lakshmi, Durga, Ganga, the mother of the Vedas — and I am worshipped daily only because I worship his feet. What follows the hymn is a scene rather than a phalashruti at first: having spoken, the goddess laid her body down in the water and stood motionless as a post, her mind and breath in Krishna. The promises that close it are unusually domestic — property long lost is recovered, estrangement from a husband or son or friend ends after a month, and a girl who listens for a year gets a husband like him.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

राधिकावाच
गोलोकनाथ गोपीश मदीश प्राणवल्लभ । हे दीनबन्धो दीनेश सर्वेश्र्वर नमोऽस्तु ते ॥
गोपेश गोसमूहेश यशोदानन्दवर्धन । नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥
शतमन्योर्मन्युभग्न ब्रह्मदर्पविनाशक । कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥
शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर । ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥
चराचरतरोर्बीज गुणातीत गुणात्मक । गुणबीज गुणाधार गुणेश्र्वर नमोऽस्तु ते ॥
आणिमादिकसिद्धीश सिद्धेः सिद्धिस्वरुपक । तपस्तपस्विंस्तपसां बीजरुप नमोऽस्तु ते ॥
यदनिर्वचनीयं च वस्तु निर्वचनीयकम् । तत्स्वरुप तयोर्बीज सर्वबीज नमोऽस्तु ते ॥
अहं सरस्वती लक्ष्मीर्दुर्गा गङ्गा श्रुतिप्रसूः । यस्य पादार्चनान्नित्यं पूज्या तस्मै नमो नमः ॥
स्पर्शने यस्य भृत्यानां ध्याने चापि दिवानिशम् । पवित्राणि च तीर्थानि तस्मै भगवते नमः ॥
इत्येवमुक्त्वा सा देवी जले संन्यस्य विग्रहम् । मनःप्राणांश्र्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥
राधाकृतं हरेः स्तोत्रं त्रिसंध्यं यः पठेन्नरः । हरिभक्तिं च दास्यं च लभेद् राधागतिं ध्रुवम् ॥
विपत्तौ यः पठेद् भक्त्या सद्यः सम्पत्तिमाप्नुयात् । चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥
बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् । चिन्ताग्रस्तः पठेद् भक्त्या परां निर्वृतिमाप्नुयात् ॥
पतिभेदे पुत्रभेदे मित्रभेदे च संकटे । मासं भक्त्या यदि पठेत्सद्यः संदर्शनं लभेत् ॥
भक्त्या कुमारी स्तोत्रं च श्रृणुयाद् वत्सरं यदि । श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद् ध्रुवम् ॥
॥ इति श्रीब्रह्मवैवर्ते राधाकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ॥

Explore More