विनियोगः
नाम्नां सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ 1॥
क्षुद्रा अपि भवन्त्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ॥ 2॥
उक्ता भागवते गूहाः प्रकटा अपि कुत्रचित् ॥ 3॥
सहस्रं यैस्तु पठितैः पठितं स्याच्छुकामृतम् ॥ 4॥
गायत्री च तथा छन्दो देवता पुरुषोत्तमः ॥ 5॥
बीजं भक्तप्रियः शक्तिः सत्यवागुच्यते हरिः ॥ 6॥
अवतारितभक्तांशः कीलकं परिकीर्तितम् ॥ 7॥
पुरुषो ध्यानमत्रोक्तः सिद्धिः शरणसंस्मृतिः ॥ 8॥
श्रीकृष्णः सच्चिदानन्दो नित्यलीलाविनोदकृत् ।
सर्वागमविनोदी च लक्ष्मीशः पुरुषोत्तमः ॥ 9॥
भक्तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मयः ॥ 10॥
व्यापिवैकुण्ठदाता च श्रीमद्भागवतागमः ॥ 11॥
भक्तिप्रवर्तकस्त्राता व्यासचिन्ताविनाशकः ॥ 12॥
अन्तरात्मा ध्यानगम्यो भक्तिरत्नप्रदायकः ॥ 13॥
भक्तकार्यैकनिरतो द्रौण्यस्त्रविनिवारकः ॥ 14॥
ब्रह्मण्यदेवो धर्मात्मा भक्तानां च परीक्षकः ॥ 15॥
उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारकः ॥ 16॥
गूहात्मा सर्ववेदेषु भक्तैकहृदयङ्गमः ॥ 17॥
भीष्ममुक्तिप्रदः स्वामी भक्तमोहनिवारकः ॥ 18॥
कृतकृत्यः सर्वसाक्षी भक्तस्त्रीरतिवर्धनः ॥ 19॥
अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनम् ॥ 20॥
सर्वत्रपूर्णगुणकः सर्वभूषणभूषितः ॥ 21॥
सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरकः ॥ 22॥
पाणवानां मोक्षदाता परीक्षिद्भाग्यवर्धनः ॥ 23॥
सत्सङ्गजानहेतुश्च श्रीभागवतकारणम् ॥ 24॥
ज्ञान-साधन-लीला
कीर्तितव्यः शुद्धभावैः स्मर्तव्यश्चात्मवित्तमैः ॥ 25॥
पुरुषः सकलाधारः सत्त्वैकनिलयात्मभूः ॥ 26॥
जन्मादिसार्थककृतिर्लीलाकर्ता पतिः सताम् ॥ 27॥
नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥ 28॥
अनेककल्पकर्ता च सर्वदोषविवर्जितः ॥ 29॥
वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रदः ।
तीर्थशुद्धैकनिलयः स्वमार्गपरिपोषकः ॥ 30॥
भक्ततुल्यः सर्वतुल्यः स्वेच्छासर्वप्रवर्तकः ॥ 31॥
साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तकः ॥ 32॥
आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावनः ॥ 33॥
वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मकः ॥ 34॥
यज्ञाङ्गो यज्ञवाराहो भूधरो भूमिपालकः ॥ 35॥
दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकः ॥ 36॥
सर्वगर्वप्रहारी च सनकाद्यखिलार्थदः ॥ 37॥
काललक्षणहेतुश्च सर्वार्थज्ञापकः परः ॥ 38॥
नानायुद्धप्रहरणो ब्रह्मशापविमोचकः ॥ 39॥
कर्दमेष्टप्रदाता च देवहूत्यखिलार्थदः ॥ 40॥
ज्ञानावतारः शान्तात्मा कपिलः कालनाशकः ॥ 41॥
सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तकः ॥ 42॥
भक्तिसिद्धान्तवक्ता च सगुणज्ञानदीपकः ॥ 43॥
जीवन्मुक्तिप्रदः श्रीमानन्यभक्तिप्रवर्तकः ॥ 44॥
गर्भोत्तमज्ञानदाता कर्ममार्गनियामकः ॥ 45॥
सिद्धिहेतुः सर्वहेतुः सर्वाश्चर्यैककारणम् ॥ 46॥
साङ्ख्याचार्यस्तुतः सिद्धपूजितः सर्वपूजितः ॥ 47॥
विसर्गकर्ता सर्वेशः कोटिसूर्यसमप्रभः ।
अनन्तगुणगम्भीरो महापुरुषपूजितः ॥ 48॥
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ॥ 49॥
सुमेरुकोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ॥ 50॥
कोटीन्दुजगदानन्दी शिवकोटिप्रसादकृत् ॥ 51॥
मन्वादिप्रेरको धर्मो यज्ञनारायणः परः ॥ 52॥
दक्षिणापतिरोजस्वी क्रियाशक्तिः परायणः ॥ 53॥
अनसूयागर्भरत्नमृषिवंशविवर्धनः ॥ 54॥
नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्करः ॥ 55॥
विश्वानन्दप्रदः कर्मसाक्षी भारतपूजितः ॥ 56॥
जितकामो जितक्रोधो जितसङ्गो जितेन्द्रियः ॥ 57॥
अमानी मानदो गोप्ता भगवच्छास्त्रबोधकः ॥ 58॥
विविधानन्तसर्गात्मा विश्वपूरणतत्परः ॥ 59॥
नानासिद्धान्तगम्यश्च सप्ततन्तुश्च षड्गुणः ॥ 60॥
ध्रुवप्रियो ध्रुवस्वामी चिन्तिताधिकदायकः ॥ 61॥
अङ्गस्वामी कृपासारो वैन्यो भूमिनियामकः ॥ 62॥
यशोदाता ज्ञानदाता सर्वधर्मप्रदर्शकः ॥ 63॥
प्रचेतसां पतिश्चित्रभक्तिहेतुर्जनार्दनः ॥ 64॥
स्थानलीला
विजयी स्थितिलीलाब्धिरच्युतो विजयप्रदः ॥ 65॥
प्रियव्रतप्रियस्वामी स्वेच्छावादविशारदः ॥ 66॥
इच्छायां च समर्यादस्त्यागमात्रोपलम्भनः ॥ 67॥
शऋङ्गाररसमर्यादा आग्नीध्ररसभाजनम् ॥ 68॥
सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तमः ॥ 69॥
मेरुदेवीव्रतफलमृषभो भगलक्षणः ॥ 70॥
जयन्तीपतिरत्यन्तप्रमाणाशेषलौकिकः ॥ 71॥
वैष्णवोत्पादनपरः सर्वधर्मोपदेशकः ॥ 72॥
चतुर्थाश्रमनिर्णेता सदानन्दशरीरवान् ॥ 73॥
यथावत्कर्मकर्ता च सङ्गानिष्टप्रदर्शकः ॥ 74॥
यज्ञरूपमृगः शान्तः सहिष्णुः सत्पराक्रमः ॥ 75॥
भवाटवीतत्त्ववक्ता बहिर्मुखहिते रतः ॥ 76॥
पुरुषावयवो भूमिविशेषविनिरूपकः ॥ 77॥
नानाविभूतिलीलाढ्यो गङ्गोत्पत्तिनिदानकृत् ॥ 78॥
वैकुण्ठदेहहेत्वम्बुजन्मकृत् सर्वपावनः ॥ 79॥
स्थानरक्षार्थमत्स्यादिरूपः सर्वैकपूजितः ॥ 80॥
सूर्यनारायणो वेदकान्तिरुज्ज्वलवेषधृक् ॥ 81॥
आनन्दकर्ता वसुदो बुधो वाक्पतिरुज्ज्वलः ॥ 82॥
शिशुमारः सर्वमूर्तिराधिदैविकरूपधृक् ॥ 83॥
सङ्कर्षणो दैत्यपतिः सर्वाधारो बृहद्वपुः ॥ 84॥
पोषण-पुष्टि-लीला
सर्वानुग्रहकर्ता च मर्यादाभिन्नशास्त्रकृत् ॥ 85 ॥
उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तमः ॥ 86॥
धर्मवक्ताऽक्लिष्टवक्ता विष्णुधर्मस्वरूपधृक् ॥ 87॥
वैकुण्ठपुरनेता च दाससंवृद्धिकारकः ॥ 88॥
स्वाभिप्रायप्रवक्ता च मुक्तजीवप्रसूतिकृत् ॥ 89॥
शबलाश्वहितो गूढवाक्यार्थज्ञापनक्षमः ॥ 90॥
पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृद्गतः ॥ 91॥
पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ॥ 92॥
विश्वरूपशिरश्छेदी त्वाष्ट्रयज्ञविनाशकः ॥ 93॥
वृत्रकीर्तिर्वृत्रमोक्षो मघवत्प्राणरक्षकः ॥ 94॥
संसारमोचकश्चित्रकेतुबोधनतत्परः ॥ 95॥
महादेवतिरस्कर्ता भक्त्यै पूर्वार्थनाशकः ॥ 96॥
आदित्यो दैत्यराजश्च महत्पतिरचिन्त्यकृत् ॥ 97॥
ऊतिलीला
कर्मात्मा वासनात्मा च ऊतिलीलापरायणः ॥ 98॥
देहाद्युपाधिरहितः सर्वज्ञः सर्वहेतुविद् ॥ 99॥
सदसद्वासनाहेतुस्त्रिसत्यो भक्तमोचकः ॥ 100॥
शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ॥ 101॥
दैत्यहेतुप्रकटनो भक्तिचिह्नप्रकाशकः ॥ 102॥
नैष्ठुर्यसीमा प्रह्लादवत्सलः सङ्गदोषहा ॥ 103॥
स्तम्भप्रसूतिर्नृहरिर्नृसिंहो भीमविक्रमः ॥ 104॥
हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारकः ॥ 105॥
ब्रह्माद्यत्यन्तभयभूरपूर्वाचिन्त्यरूपधृक् ॥ 106॥
भक्ताङ्गलेहनोद्धूतक्रोधपुङ्जः प्रशान्तधीः ॥ 107॥
गोरूपधार्यमृतपाः शिवकीर्तिविवर्धनः ॥ 108॥
संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ॥ 109॥
मन्वन्तरलीला
स्मृत्याऽशेषाशुभहरो गजेन्द्रस्मृतिकारणम् ॥ 110॥
यज्ञो भयान्मनुत्राता विभुर्ब्रह्मव्रताश्रयः ॥ 111॥
वैकुण्ठो लोककर्ता च अजितोऽमृतकारणम् ॥ 112॥
विभुः सर्वहितैकात्मा विष्वक्सेनः शिवप्रियः ॥ 113॥
उपहर्ता योगपतिर्बृहद्भानुः क्रियापतिः ॥ 114॥
लक्ष्मीभोगैकनिलयो देवमन्त्रप्रदायकः ॥ 115॥
लीलामन्दरधारी च दैत्यवासुकिपूजितः ॥ 116॥
आदिकूर्मः पवित्रात्मा मन्दराघर्षणोत्सुकः ॥ 117॥
चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धनः ॥ 118॥
आयुर्वेदप्रणेता च देवदैत्याखिलार्चितः ॥ 119॥
स्त्रीरूपो मायया वक्ता दैत्यान्तःकरणप्रियः ॥ 120॥
सुमालिमालिवधकृन्माल्यवत्प्राणहारकः ॥ 121॥
इन्द्रसामर्थ्यदाता च दैत्यशेषस्थितिप्रियः ॥ 122॥
बलिजीवनकर्ता च स्वर्गहेतुर्व्रतार्चितः ॥ 123॥
उपेन्द्र इन्द्रावरजो वामनब्रह्मरूपधृक् ॥ 124॥
याच्ञोपदेशकर्ता च ज्ञापिताशेषसंस्थितिः ॥ 125॥
त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्तिः पृथुश्रवाः ॥ 126॥
सुतलस्थापितबलिः स्वर्गाधिकसुखप्रदः ॥ 127॥
ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रयः ॥ 128॥
शऋङ्गबद्धधृतक्षोणिः सर्वार्थज्ञापको गुरुः ॥ 129॥
ईशसेवकलीलात्मा सूर्यवंशप्रवर्तकः ।
सोमवंशोद्भवकरो मनुपुत्रगतिप्रदः ॥ 130॥
ब्रह्मशापोपसंहर्ता भक्तकीर्तिविवर्धनः ॥ 131॥
भगीरथमहायत्नो गङ्गाधौताङ्घ्रिपङ्कजः ॥ 132॥
खट्वाङ्गमोक्षहेतुश्च रघुवंशविवर्धनः ॥ 133॥
अनन्तकीर्तिः पुण्यात्मा पुण्यश्लोकैकभास्करः ॥ 134॥
लक्ष्मणो भरतश्चैव शत्रुघ्नो व्यूहविग्रहः ॥ 135॥
वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा ॥ 136॥
सीतापतिर्भृगुपतिगर्वपर्वतनाशकः ॥ 137॥
कैकेयीवाक्यकर्ता च पितृवाक्परिपालकः ॥ 138॥
अहल्यादुःखहारी च गुहस्वामी सलक्ष्मणः ॥ 139॥
शरभङ्गसुतीक्ष्णादिपूजितोऽगस्त्यभाग्यभूः ॥ 140॥
छिन्नशूर्पणखानासः खरदूषणघातकः ॥ 141॥
मारीचघाती नियतसीतासम्बन्धशोभितः ॥ 142॥
शबरीपूजितो भक्तहनुमत्प्रमुखावृतः ॥ 143॥
सुग्रीवराज्यदो वालिघाती सागरशोषणः ॥ 144॥
रावणादिशिरश्छेदी राक्षसाघौघनाशकः ॥ 145॥
अयोध्यापतिरत्यन्तसर्वलोकसुखप्रदः ॥ 146॥
जनकज्ञानगम्यश्च ऐलान्तप्रकटश्रुतिः ॥ 147॥
सोमवंशहितैकात्मा यदुवंशविवर्धनः ॥ 148॥
परब्रह्मावतरणः केशवः क्लेशनाशनः ।
भूमिभारावतरणो भक्तार्थाखिलमानसः ॥ 149॥
भूमिष्ठपरमानन्दो देवकीशुद्धिकारणम् ॥ 150॥
सर्ववैराग्यकरणस्वलीलाधारशोधकः ॥ 151॥
भक्तक्लेशपरिज्ञाता तन्निवारणतत्परः ॥ 152॥
पूर्णतेजोमयः पूर्णः कंसाधृष्यप्रतापवान् ॥ 153॥
सत्यो जगत्कल्पतरुर्नानारूपविमोहनः ॥ 154॥
मूलकालगुणद्रष्टा नयनानन्दभाजनम् ॥ 155॥
पितृमातृस्तुतः पूर्वसर्ववृत्तान्तबोधकः ॥ 156॥
सर्वेशत्वप्रकटनो मायाव्यत्ययकारकः ॥ 157॥
यशोदानन्दनो नन्दभाग्यभूगोकुलोत्सवः ॥ 158॥
पूतनासुपयःपाता मुग्धभावातिसुन्दरः ॥ 159॥
गोपालाश्चर्यरसकृत् शकटासुरखण्डनः ॥ 160॥
तृणावर्तवधोत्साहो यशोदाज्ञानविग्रहः ॥ 161॥
रामानुजो वासुदेवो गोष्ठाङ्गणगतिप्रियः ॥ 162॥
नवनीतप्रियो गोपीमोहसंसारनाशकः ॥ 163॥
मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकः ॥ 164॥
दामोदरो भक्तवश्यो यमलार्जुनभञ्जनः ॥ 165॥
वत्सघाती बालकेलिर्बकासुरनिषूदनः ॥ 166॥
प्रोत्साहजनकश्चैवमघासुरनिषूदनः ॥ 167॥
अनन्तमूर्तिः सर्वात्मा जङ्गमस्थावराकृतिः ॥ 168॥
पौगण्डलीलाभिरतिर्गोचारणपरायणः ॥ 169॥
नादब्रह्मप्रकटनो वयःप्रतिकृतिस्वनः ॥ 170॥
सदाचारप्रतिष्ठाता बलश्रमनिराकृतिः ॥ 171॥
गोपालसेवितपदः श्रीलालितपदाम्बुजः ॥ 172॥
कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ॥ 173॥
लीलासम्पीतदावाग्निः प्रलम्बवधपण्डितः ॥ 174॥
वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधकः ॥ 175॥
कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनः ॥ 176॥
गोपक्षुच्छान्तिसंव्याजविप्रभार्याप्रसादकृत् ॥ 177॥
शैलरूपकृताशेषरसभोगसुखावहः ॥ 178॥
गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकः ॥ 179॥
व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकः ॥ 180॥
वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदः ॥ 181॥
गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदः ॥ 182॥
राधाविशेषसम्भोगप्राप्तदोषनिवारकः ॥ 183॥
मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवः ॥ 184॥
रासोत्सवमहासौख्यगोपीसम्भोगसागरः ॥ 185॥
शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनः ॥ 186॥
गीतमोहितगोपीधृक्षङ्खचूडविनाशकः ॥ 187॥
अरिष्टमथनो दैत्यबुद्धिव्यामोहकारकः ॥ 188॥
अक्रूरभक्तिसंराद्धपादरेणुमहानिधिः ॥ 189॥
ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुतः ॥ 190॥
मथुरानगरीशोभादर्शनोत्सुकमानसः ॥ 191॥
वस्त्रमालासुशोभाङ्गः कुब्जालेपनभूषितः ॥ 192॥
प्रसादरूपसन्तुष्टहरकोदण्डखण्डनः ॥ 193॥
जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकः ॥ 194॥
सद्यः कुवलयापीडघाती चाणूरमर्दनः ॥ 195॥
कंसान्तको जितामित्रो वसुदेवविमोचकः ॥ 196॥
उग्रसेनप्रतिष्ठाता यादवाधिविनाशकः ॥ 197॥
गुरुशुश्रूषणपरो विद्यापारमितेश्वरः ॥ 198॥
गोकुलाश्वासनपरो यशोदानन्दपोषकः ॥ 199॥
समोद्धवभ्रमरवाक् गोपिकामोहनाशकः ॥ 200॥
पृथादुःखप्रणेता च पाण्डवानां सुखप्रदः ॥ 201॥
जरासन्धसमानीतसैन्यघाती विचारकः ।
यवनव्याप्तमथुराजनदत्तकुशस्थलिः ॥ 202॥
मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवः ॥ 203॥
मुचुकुन्दमहाबोधयवनप्राणदर्पहा ॥ 204॥
फलप्रदानसन्तुष्टिर्जन्मान्तरितमोक्षदः ॥ 205॥
प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवः ॥ 206॥
स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतिः ॥ 207॥
मित्रविन्दापतिः सत्यापतिर्वृषनिषूदनः ॥ 208॥
इन्द्रादिप्रार्थितवधनरकासुरसूदनः ॥ 209॥
षोडशस्त्रीसहस्रेशः छत्रकुण्डलदानकृत् ॥ 210॥
रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदः ॥ 211॥
पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकः ॥ 212॥
उषापहृतपौत्रश्रीर्बाणबाहुनिवारकः ॥ 213॥
शङ्करप्रतियोद्धा च द्वन्द्वयुद्धविशारदः ॥ 214॥
विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकः ॥ 215॥
गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रदः ॥ 216॥
पौण्ड्रकत्याजितस्पर्धः काशीराजविभेदनः ॥ 217॥
द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ॥ 218॥
प्रपन्नाभयदः साम्बप्राप्तसन्मानभाजनम् ॥ 219॥
सदाचारैकनिलयः सुधर्माध्यासितासनः ॥ 220॥
मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणः ॥ 221॥
इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतिः ॥ 222॥
सन्मार्गबोधको यज्ञक्षितिवारणतत्परः ॥ 223॥
दुर्योधनाभिमानाब्धिशोषबाणवृकोदरः॥ 224॥
दन्तवक्त्रवधव्याजविजयाघौघनाशकः ॥ 225॥
उपधर्मविलिप्ताङ्गसूतघाती वरप्रदः ॥ 226॥
सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदः ॥ 227॥
सारथ्यादिक्रियाकर्ता भक्तवश्यत्वबोधकः ॥ 228॥
रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनः ॥ 229॥
ऋषिमार्गप्रतिष्ठाता वसुदेवमखक्रियः ॥ 230॥
अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपदः ॥ 231॥
महादेवाद्यतिश्रेष्ठो भक्तिलक्षणनिर्णयः ॥ 232॥
नरगर्वविनाशार्थहृतब्राह्मणबालकः ॥ 233॥
द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनः ॥ 234॥
मुक्तिलीला
मुक्तिलीलाविहरणो मौशलव्याजसंहृतिः ॥ 235॥
उद्धवज्ञानदाता च पञ्चविंशतिधा गुरुः ॥ 236॥
हंसो धर्मप्रवक्ता च सनकाद्युपदेशकृत् ॥ 237॥
नानाविभूतिवक्ता च शुद्धधर्मावबोधकः ॥ 238॥
भिक्षुगीताप्रवक्ता च शुद्धसाङ्ख्यप्रवर्तकः ॥ 239॥
पूजाविधिप्रवक्ता च सर्वसिद्धान्तबोधकः ॥ 240॥
यादवाङ्गोपसंहर्ता सर्वाश्चर्यगतिक्रियः ॥ 241॥
कालधर्मविभेदार्थवर्णनाशनतत्परः ।
बुद्धो गुप्तार्थवक्ता च नानाशास्त्रविधायकः ॥ 242॥
आश्रयैकगतिज्ञाता कल्किः कलिमलापहः ॥ 243॥
विशेषतः शुकव्याजपरीक्षिज्ज्ञानबोधकः ॥ 244॥
शब्दरूपो नादरूपो वेदरूपो विभेदनः ॥ 245॥
मार्कण्डेयप्रसन्नात्मा वटपत्रपुटेशयः ॥ 246॥
महादेवस्वरूपश्च भक्तिदाता कृपानिधिः ॥ 247॥
श्रीभागवतरूपश्च सर्वार्थफलदायकः ॥ 248॥
पञ्चसप्ततिविस्तीर्णं पुराणान्तरभाषितम् ॥ 249॥
जपेदर्थाहितमतिः स गोविन्दपदं लभेत् ॥ 250॥
एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ॥ 251॥
समुद्धृतानि नामानि चिन्तामणिनिभानि हि ॥ 252॥
भक्तिं श्रीकृष्णदेवस्य साधयन्ति विनिश्चितम् ॥ 253॥
आत्मभावं नयत्याशु भक्तिं च कुरुते दृढाम् ॥ 254॥
नामानि भासुरयशांसि जपेत्स नित्यम् ।
तं वै हरिः स्वपुरुषं कुरुतेऽतिशीघ्रम्-
आत्मार्पणं समधिगच्छति भावतुष्टः ॥ 255॥
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोपवनिताव्रजभृत्यगीत
तीर्थश्रवः श्रवणमङ्गल पाहि भृत्यान् ॥ 256॥
