दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्तीं मुदा ।
नागाबद्धशिरोमणिं त्रिनयनां हृद्युत्पलालङ्कृतां
रत्यासक्तमनोभवोपरि दृढां वन्दे जपासन्निभाम् ॥ १॥
हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा वर्णिनी ॥
नागाबद्धशिरोमणिर्मनुविदा ध्येया सदा सा सुरैः ॥ २॥
सैषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ॥
ध्येया ध्यानपरैः सदा सविनयं भक्तेष्टभूतिप्रदा ॥ ३॥
स्फारास्यं प्रपिबद्गलात्स्वरुधिरं वामे करे बिभ्रतीम् ॥
वर्णिन्यौ परिदृश्य मोदकलितां श्रीछिन्नमस्तां भजे ॥ ४॥
तत्पद्मकोशमध्ये तु मण्डलं चण्डरोचिषः ॥ ५॥
रजस्सत्वतमोरेखा योनिमण्डलमण्डितम् ॥ ६॥
छिन्नमस्तां करे वामे धारयन्तीं स्वमस्तकम् ॥ ७॥
पिबन्तीं रौधिरीं धारां निजकण्ठविनिर्गताम् ॥ ८॥
दक्षिणे च करे कर्त्रीं मुण्डमालाविभूषिताम् ॥ ९॥
अस्थिमालाधरां देवीं नागयज्ञेपवीतिनीम् ॥ १०॥
सदा षोडशवर्षीयां पीनोन्नतपयोधराम् ॥ ११॥
शाकिनीवर्णिनीयुक्तां वामदक्षिणयोगतः ॥ १२॥
वर्णिनीं लोहितां सौम्यां मुक्तकेशीं दिगम्बराम् ॥ १३॥
नागयज्ञेपवीताढ्यां ज्वलत्तेजोमयीमिव ॥ १४॥
सदा द्वादशवर्षीयां अस्थिमालाविभूषिताम् ॥ १५॥
विद्युज्जटां त्रिनयनां दन्तपङ्क्तिबलाकिनीम् ॥ १६॥
महादेवीं महाघोरां मुक्तकेशीं दिगम्बराम् ॥ १७॥
कपालकर्त्रिकाहस्तां वामदक्षिणयोगतः ॥ १८॥
करस्थितकपालेन भीषणेनातिभीषणाम् ।
आभ्यां निषेव्यमाणां तां कलये जगदीश्वरीम् ॥ १९॥
