कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ १॥
कथ्यतां सर्वसद्वृत्तं कृपां कृत्वा ममोपरि ॥ २॥
दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥ ३॥
अनुष्टुप् छन्दः । श्रीमदुग्रतारादेवता । स्त्रीं बीजम् । हूं शक्तिः ।
नमः कीलकम् । सकलशत्रुविनाशार्थे पाठे विनियोगः ॥
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीमदुग्रतारा देवतायै नमः हृदि ।
स्त्रीं बीजाय नमः गुह्ये ।
हूं शक्तये नमः नाभौ ।
नमः कीलकाय नमः पादयोः ।
सकल शत्रुविनाशार्थे पाठे विनियोगाय नमः अञ्जलौ ॥
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ हूं मध्यमाभ्यां नमः ।
ॐ त्रीं अनामिकाभ्यां नमः ।
ॐ ऐं कनिष्ठिकाभ्यां नमः ।
ॐ हंसः करतल करपृष्ठाभ्यां नमः ॥
ॐ ह्रीं शिरसे स्वाहा ।
ॐ हूं शिखायै वषट् ।
ॐ त्रीं कवचाय हुम् ।
ॐ ऐं नेत्रत्रयाय वौषट् ।
ॐ हंसः अस्त्राय फट् ॥
रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननाम् ।
पाशं कर्त्रीमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां
नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् ॥ ४॥
एवं ध्यात्वा शुभां तारां ततस्तु हृदयं पठेत् ।
रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे ॥ ५॥
स्त्रीं त्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ॥ ६॥
शृणुदेवि तव स्नेहात् तारानामानि तत्त्वतः ॥ ७॥
तारिणी तरला तारा त्रिरूपा तरणिप्रभा ॥ ८॥
रमणीया रजोरूपा जगत्सृष्टिकरी परा ॥ ९॥
कालरूपा कालिकाख्या जगद्विध्वंसकारिका ॥ १०॥
रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता ॥ ११॥
नामान्येतानि ये मर्त्त्याः सर्वदैकाग्रमानसाः ॥ १२॥
तारां तारपरां देवीं तारकेश्वरपूजिताम् ॥ १३॥
स्त्रीं ह्रीं हूं त्रीं फट् मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ॥ १४॥
त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ॥ १५॥
स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्ममन्त्रयेत् ॥ १६॥
ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा ॥ १७॥
स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः ॥ १८॥
हंसः ॐ ह्रीं स्त्रीं हूं हंसः
इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ॥ १९॥
तारायाः हृदयं देवि सर्वपापप्रणाशनम् ॥ २०॥
गङ्गादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् ॥ २१॥
महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥ २२॥
गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ २३॥
