Goddess Dhumavati

श्री धूमावती हृदयम्

(Sri Dhumavathi Hrudayam)

Also known as shri dhumavathi hrudayam · shree dhumavathi hrudayam · dhumavathi hrudayam

A heart-hymn to Dhumavati whose construction is the thing to notice: after the meditation the verses run through the alphabet, taking the consonants in order and beginning each verse with the next one. Ka opens with her as Kalika at the beginning of the age, who set Madhu and Kaitabha going; then ga on her being the house of the strands and knowable by them; then kha with the skull-staff and the shield; then gha, a run on words for whirling and roaring and striking; then ca, chewing the pieces of brains and tearing Chanda and Munda; then cha, with the severed neck, in the form of Chinnamasta. Its meditation gives her plainly — smoke-coloured in smoke-coloured cloth, teeth showing, hair loose, in a chariot marked with a crow, the winnowing basket in her hand.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

विनियोगः
ओं अस्य श्री धूमावतीहृदयस्तोत्र महामन्त्रस्य-पिप्पलादऋषिः- अनुष्टुप्छन्दः- श्री धूमावती देवता- धूं बीजं- ह्रीं शक्तिः- क्लीं कीलकं -सर्वशत्रु संहारार्थे जपे विनियोगः ।
॥ करन्यासः ॥
ओं धां अङ्गुष्ठाभ्यां नमः ।
ओं धीं तर्जनीभ्यां नमः ।
ओं धूं मध्यमाभ्य़ां नमः ।
ओं धैं अनामिकाभ्यां नमः ।
ओं धौं कनिष्ठकाभ्य़ां नमः ।
ओं धः करतलकरपृष्ठाभ्यां नमः ।
॥ अङ्गन्यासः ॥
ओं धां हृदयाय नमः ।
ओं धीं शिरसे स्वाहा ।
ओं धूं शिखायै वषट् ।
ओं धैं कवचाय हुं ।
ओं धौं नेत्रत्रयाय वौषट् ।
ओं धः अस्त्राय फट् ।
॥ ध्यानम् ॥
धूम्राभां धूम्रवस्त्रां प्रकटितदशनां मुक्तबालाम्बराढ्यां ।
काकाङ्कस्यन्दनस्थां धवलकरयुगां शूर्पहस्तातिरूक्षाम् ।
कङ्काङ्क्षुत्क्षान्त देहं मुहुरति कुटिलां वारिदाभां विचित्रां ।
ध्यायेद्धूमावतीं कुटिलितनयनां भीतिदां भीषणास्याम् ॥ १ ॥
॥ स्तोत्रम् ॥
कल्पादौ या कालिकाद्याऽचीकलन्मधुकैटभौ ।
कल्पान्ते त्रिजगत्सर्वं भजे धूमावतीमहम् ॥ २ ॥
गुणागारा गम्यगुणा या गुणागुणवर्धिनी ।
गीतावेदार्थतत्त्वज्ञैः भजे धूमावतीमहम् ॥ ३ ॥
खट्वाङ्गधारिणी खर्वखण्डिनी खलरक्षसां ।
धारिणी खेटकस्यापि भजे धूमावतीमहम् ॥ ४ ॥
घूर्ण घूर्णकराघोरा घूर्णिताक्षी घनस्वना ।
घातिनी घातकानां या भजे धूमावतीमहम् ॥ ५ ॥
चर्वन्तीमस्तिखण्डानां चण्डमुण्डविदारिणीं ।
चण्डाट्टहासिनीं देवीं भजे धूमावतीमहम् ॥ ६ ॥
छिन्नग्रीवां क्षताञ्छन्नां छिन्नमस्तास्वरूपिणीं ।
छेदिनीं दुष्टसङ्घानां भजे धूमावतीमहम् ॥ ७ ॥
जाताया याचितादेवैरसुराणां विघातिनीं ।
जल्पन्तीं बहुगर्जन्तीं भजेतां धूम्ररूपिणीम् ॥ ८ ॥
झङ्कारकारिणीं झुञ्झा झञ्झमाझमवादिनीं ।
झटित्याकर्षिणीं देवीं भजे धूमावतीमहम् ॥ ९ ॥
हेतिपटङ्कारसम्युक्तान् धनुष्टङ्कारकारिणीं ।
घोराघनघटाटोपां वन्दे धूमावतीमहम् ॥ १० ॥
ठण्ठण्ठण्ठं मनुप्रीतां ठःठःमन्त्रस्वरूपिणीं ।
ठमकाह्वगतिप्रीतां भजे धूमावतीमहम् ॥ ११ ॥
डमरू डिण्डिमारावां डाकिनीगणमण्डितां ।
डाकिनीभोगसन्तुष्टां भजे धूमावतीमहम् ॥ १२ ॥
ढक्कानादेनसन्तुष्टां ढक्कावादनसिद्धिदां ।
ढक्कावादचलच्चित्तां भजे धूमावतीमहम् ॥ १३ ॥
तत्ववार्ता प्रियप्राणां भवपाथोधितारिणीं ।
तारस्वरूपिणीं तारां भजे धूमावतीमहम् ॥ १४ ॥
थान्थीन्थून्थेमन्त्ररूपां थैन्थोथन्थःस्वरूपिणीं ।
थकारवर्णसर्वस्वां भजे धूमावतीमहम् ॥ १५ ॥
दुर्गास्वरूपिणीदेवीं दुष्टदानवदारिणीं ।
देवदैत्यकृतध्वंसां वन्दे धूमावतीमहम् ॥ १६ ॥
ध्वान्ताकारान्धकध्वंसां मुक्तधम्मिल्लधारिणीं ।
धूमधाराप्रभां धीरां भजे धूमावतीमहम् ॥ १७ ॥
नर्तकीनटनप्रीतां नाट्यकर्मविवर्धिनीं ।
नारसिंहीं नराराध्यां न्ॐइ धूमावतीमहम् ॥ १८ ॥
पार्वतीपतिसम्पूज्यां पर्वतोपरिवासिनीं ।
पद्मारूपां पद्मपूज्यां न्ॐइ धूमावतीमहम् ॥ १९ ॥
फूत्कारसहितश्वासां फट्‍मन्त्रफलदायिनीं ।
फेत्कारिगणसंसेव्यां सेवे धूमावतीमहम् ॥ २० ॥
बलिपूज्यां बलाराध्यां बगलारूपिणीं वरां ।
ब्रह्मादिवन्दितां विद्यां वन्दे धूमावतीमहम् ॥ २१ ॥
भव्यर रूपां भवाराध्यां भुवनेशीस्वरूपिणीं ।
भक्तभव्यप्रदां देवीं भजे धूमावतीमहम् ॥ २२ ॥
मायां मधुमतीं मान्यां मकरध्वजमानितां ।
मत्स्यमांसमदास्वादां मन्ये धूमावतीमहम् ॥ २३ ॥
योगयज्ञप्रसन्नास्यां योगिनीपरिसेवितां ।
यशोदां यज्ञफलदां यजेद्धूमावतीमहम् ॥ २४ ॥
रामाराध्यपदद्वन्द्वां रावणध्वंसकारिणीं ।
रमेशरमणीपूज्यामहं धूमावतीं श्रये ॥ २५ ॥
लक्षलीलाकलालक्ष्यां लोकवन्द्यपदाम्बुजां ।
लम्बितां बीजकोशाढ्यां वन्दे धूमावतीमहम् ॥ २६ ॥
बकपूज्यपदांभोजां बकध्यानपरायणां ।
बालान्तीकारिसन्ध्येयां वन्दे धूमावतीमहम् ॥ २७ ॥
शङ्करीं शङ्करप्राणां सङ्कटध्वंसकारिणीं ।
शत्रुसंहारिणीं शुद्धां श्रये धूमावतीमहम् ॥ २८ ॥
षडाननारिसंहन्त्रीं षोडशीरूपधारिणीं ।
षड्रसास्वादिनीं सौम्यां नेवे धूमावतीमहम् ॥ २९ ॥
सुरसेवितपादाब्जां सुरसौख्यप्रदायिनीं ।
सुन्दरीगणसंसेव्यां सेवे धूमावतीमहम् ॥ ३० ॥
हेरम्बजननीं योग्यां हास्यलास्यविहारिणीं ।
हारिणीं शत्रुसङ्घानां सेवे धूमावतीमहम् ॥ ३१ ॥
क्षीरोदतीरसंवासां क्षीरपानप्रहर्षितां ।
क्षणदेशेज्यपादाब्जां सेवे धूमावतीमहम् ॥ ३२ ॥
॥ फलश्रुति ॥
चतुस्त्रिम्शद्वर्णकानां प्रतिवर्णादिनामभिः ।
कृतं तु हृदयस्तोत्रं धूमावत्यास्सुसिद्धिदम् ॥ ३३ ॥
य इदं पठति स्तोत्रं पवित्रं पापनाशनं ।
स प्राप्नोति परां सिद्धं धूमावत्याः प्रसादतः ॥ ३४ ॥
पठन्नेकाग्रचित्तोयो यद्यदिच्छति मानवः ।
तत्सर्वं समवाप्नोति सत्यं सत्यं वदाम्यहम् ॥ ३५ ॥
॥ इति श्रीधूमावतीहृदयम् सम्पूर्णम् ॥

Explore More