Goddess Kali

श्री भद्रकाली कवचम्

(Sri Bhadrakali Kavacham)

Also known as shri bhadrakali kavacham · shree bhadrakali kavacham · bhadrakali kavacham

An armour for Bhadrakali set inside a Vaishnava frame: Narada asks and Narayana answers, and what Narada wants is the ten-syllabled vidya as much as the armour itself. The vidya is written out — om hrim shrim klim kalikayai svaha — and then broken up across the body, so that om hrim kalikayai svaha guards the two ears and om krim krim klim kalyai svaha the shoulder, each limb taking a different arrangement of the same syllables. The last verse states the sharpest version of a claim these texts often make: that one who worships Kali without knowing this armour will not gain the mantra's fruit even after repeating it ten million times.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री गणेशाय नमः ॥
॥ श्री भद्रकाली कवचम् ॥
नारद उवाच।
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च साम्प्रतम् ॥ १ ॥
नारायण उवाच।
शृणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥
॥ दशाक्षरी विद्या ॥
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा
ओं ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।
दुर्वासा हि ददौ राज्ञे पुष्करे सूर्यपर्वणि ॥ ३ ॥
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।
पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ॥ ४ ॥
बभूव सिद्धकवचोऽप्ययोध्यामाजगाम सः ।
कृत्स्नां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥ ५ ॥
नारद उवाच।
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।
अधुना श्रोतुमिच्छामि कवचं ब्रूहि मे प्रभो ॥ ६ ॥
नारायण उवाच।
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
नारायणेन यद्दत्तं कृपया शूलिने पुरा ॥ ७ ॥
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥ ८ ॥
दुर्वाससा च यद्दत्तं सुचन्द्राय महात्मने ।
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥ ९ ॥
॥ अथ कवचम् ॥
ओं ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रीमिति लोचने ॥ १० ॥
ओं ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु ।
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु ॥ ११ ॥
ह्रीं भद्रकालिके स्वाहा पातु मेऽधरयुग्मकम् ।
ओं ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु ॥ १२ ॥
ओं ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु ।
ओं क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ १३ ॥
ओं क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु ।
ओं क्रीं कालिकायै स्वाहा मम नाभिं सदावतु ॥ १४ ॥
ओं ह्रीं कालिकायै स्वाहा मम पृष्ठं सदावतु ।
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु ॥ १५ ॥
ओं ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु ।
ओं ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु ॥ १६ ॥
॥ दिग्बन्धन ॥
प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका ।
दक्षिणे पातु चामुण्डा नैरृत्यां पातु कालिका ॥ १७ ॥
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।
उत्तरे विकटास्या च ऐशान्यां साट्‍टहासिनी ॥ १८ ॥
ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा ।
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ १९ ॥
॥ फलश्रुतिः ॥
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वेषां कवचानां च सारभूतं परात्परम् ॥ २० ॥
सप्तद्वीपेश्वरो राजा सुचन्द्रोऽस्य प्रसादतः ।
कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥ २१ ॥
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ।
यतो हि योगिनां श्रेष्ठः सौभरिः पिप्पलायनः ॥ २२ ॥
यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् ।
महादानानि सर्वाणि तपांसि च व्रतानि च ।
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ २३ ॥
इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ २४ ॥
॥ इति श्री भद्रकाली कवचम् सम्पूर्णम् ॥

Explore More