शृणु प्रिये महागोप्यं दक्षिणायाः सुगोपितम् ॥ १ ॥
अन्येभ्यः कुरु गोप्यं च सत्यं सत्यं च शैलजे ॥ २ ॥
तत्सर्वं कथ्यतां शम्भो महेश्वर दयानिधे ॥ ३ ॥
ब्रह्महत्याकृतैः पापैर्भैरवत्वं ममागतम् ॥ ४ ॥
कृत्यारिनाशकं स्तोत्रं ब्रह्महत्यापहारकम् ॥ ५ ॥
ॐ क्रीं तर्जनीभ्यां नमः ।
ॐ क्रूं मध्यमाभ्यां नमः ।
ॐ क्रैं अनामिकाभ्यां नमः ।
ॐ क्रौं कनिष्ठिकाभ्यां नमः ।
ॐ क्रः करतलकरपृष्ठाभ्यां नमः ।
ॐ क्रीं शिरसे स्वाहा ।
ॐ क्रूं शिखायै वषट् ।
ॐ क्रैं कवचाय हुम् ।
ॐ क्रौं नेत्रत्रयाय वौषट् ।
ॐ क्रः अस्त्राय फट् ।
चतुर्भुजां ललज्जिह्वां पूर्णचन्द्रनिभाननाम् ॥ १ ॥
वर मुण्डं तथा खड्गं मुसलं वरदं तथा ॥ २ ॥
अट्टाट्टहासनिरतां सर्वदा च दिगम्बराम् ॥ ३ ॥
इति ध्यात्वा महादेवीं ततस्तु हृदयं पठेत् ॥ ४ ॥
सर्वदेवस्तुता देवी शत्रुनाशं करोतु मे ॥ ५ ॥
तव स्नेहान्मयाख्यातं न देयं यस्य कस्यचित् ॥ ६ ॥
यस्य विज्ञानमात्रेण जीवन्मुक्तो भविष्यति ॥ ७ ॥
जटाजूटां च सञ्चिन्त्य महाकालसमीपगाम् ॥ ८ ॥
प्राप्नुवन्ति च ते मोक्षं सत्यं सत्यं वरानने ॥ ९ ॥
गोप्याद्गोप्यतरं गोप्यं गोप्याद्गोप्यतरं महत् ॥ १० ॥
मुण्डपङ्क्तिं च ज्वालं च कालीयन्त्रं सुसिद्धिदम् ॥ ११ ॥
देव्या दक्षिणकाल्यास्तु नाम मालां निशामय ॥ १२ ॥
मुण्डमाली विशालाक्षी सृष्टिसंहारकारिणी ॥ १३ ॥
भगसर्पिः पानरता भगध्येया भगाङ्गजा ॥ १४ ॥
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥ १५ ॥
तेषां दासस्य दासोऽहं सत्यं सत्यं महेश्वरि ॥ १६ ॥
कालरूपां कलातीतां कालिकां दक्षिणां भजे ॥ १७ ॥
रतिप्रियां महारौद्रीं कालिकां प्रणमाम्यहम् ॥ १८ ॥
दूतीयोगोद्भवरतां दूतीरूपां नमाम्यहम् ॥ १९ ॥
सर्वेरोगाः विनश्यन्ति नात्र कार्या विचारणा ॥ २० ॥
तिलकं क्रियते प्राज्ञैर्लोकोवश्यो भवेत्सदा ॥ २१ ॥
महाभयविनाशश्च जायते नात्र संशयः ॥ २२ ॥
शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति ॥ २३ ॥
रिपूणां चैव चोच्चाटं नयत्येव न संशयः ॥ २४ ॥
सहस्रयोजनस्था च शीघ्रमागच्छति प्रिये ॥ २५ ॥
तिलकेन जगन्मोहः सप्तधा मन्त्रमाचरेत् ॥ २६ ॥
अश्वमेधादियज्ञानां कोटि कोटि गुणोत्तरम् ॥ २७ ॥
दूतीयागादि यागानां कोटि कोटि फलं स्मृतम् ॥ २८ ॥
एकधा पाठमात्रेण सत्यं सत्यं मयोदितम् ॥ २९ ॥
पठेत् स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ॥ ३० ॥
लभते परमं स्थानं देवीलोके वरानने ॥ ३१ ॥
महाभये महाघोरे पठेत् स्तोत्रं महोत्तमम् ।
सत्यं सत्यं पुनः सत्यं गोपयेन्मातृजारवत् ॥ ३२ ॥
