दिव्यं हि कवचं तस्याः शृणुष्व सर्वकामदम् ॥ १ ॥
ललाटे पातु ह्रीङ्कारो बीजरूपा महेश्वरी ॥ २ ॥
हूङ्कारः पातु हृदये भवानीरूपशक्तिधृक् ॥ ३ ॥
खर्वा मां पातु देवेशी गण्डयुग्मे भयापहा ॥ ४ ॥
व्याघ्रचर्मावृता कट्यां पातु देवी शिवप्रिया ॥ ५ ॥
रक्तवर्तुलनेत्रा च कटिदेशे सदाऽवतु ॥ ६ ॥
करालास्या सदा पातु लिङ्गे देवी हरप्रिया ॥ ७ ॥
प्रेतखर्परभृद्देवी जानुचक्रे महेश्वरी ॥ ८ ॥
नागकुण्डलधर्त्री च पातु पादयुगे ततः ॥ ९ ॥
नागकङ्कधरा देवी पातु प्रान्तरदेशतः ॥ १० ॥
खड्गहस्ता महादेवी श्रवणे पातु सर्वदा ॥ ११ ॥
कर्त्रिहस्ता सदा पातु विवादे शत्रुमध्यतः ॥ १२ ॥
नागकङ्कणधर्त्री च भोजने पातु सर्वदा ॥ १३ ॥
वीरासनधरा देवी निद्रायां पातु सर्वदा ॥ १४ ॥
नागाञ्चितकटी पातु देवी मां सर्वकर्मसु ॥ १५ ॥
चितामध्यस्थिता देवी मारणे पातु सर्वदा ॥ १६ ॥
अलङ्कारान्विता देवी पातु मां हरवल्लभा ॥ १७ ॥
बीजरूपा महादेवी पर्वते पातु सर्वदा ॥ १८ ॥
रक्ष रक्ष सदा हूं हूं ओं ह्रीं स्वाहा महेश्वरी ॥ १९ ॥
ओं ह्रीं वज्रपुष्पं हुं फट् प्रान्तरे सर्वकामदा ॥ २० ॥
हूं स्वाहा शक्तिसम्युक्ता दारान् रक्षतु सर्वदा ॥ २१ ॥
ओं ह्रीं सर्वविघ्नोत्सारिणी देवी विघ्नान्मां सदाऽवतु ॥ २२ ॥
पूरिका पातु मां देवी सर्वविघ्नविनाशिनी ॥ २३ ॥
पाताले पातु सा देवी लाकिनी नामसञ्ज्ञिका ॥ २४ ॥
स्त्रीङ्कारी पातु देवेशी वधूरूपा महेश्वरी ॥ २५ ॥
फट् स्वरूपा महामाया उत्तरे पातु सर्वदा ॥ २६ ॥
मध्ये मां पातु देवेशी हूं स्वरूपा नगात्मजा ॥ २७ ॥
भवानी पातु भवने सर्वैश्वर्यप्रदायिनी ॥ २८ ॥
शास्त्रे वादे च सङ्ग्रामे जले च विषमे गिरौ ॥ २९ ॥
भूतप्रेतालये घोरे दुर्गमा श्रीघनाऽवतु ॥ ३० ॥
कवचस्य माहात्म्यं नाहं वर्षशतैरपि ॥ ३१ ॥
पुत्रदारेषु बन्धूनां सर्वदेशे च सर्वदा ॥ ३२ ॥
शुचिर्भूत्वाऽशुचिर्वापि कवचं सर्वकामदम् ॥ ३३ ॥
सर्वशास्त्रे महेशानि कविराड्भवति ध्रुवम् ॥ ३४ ॥
रणे द्यूते विवादे च जयस्तत्र भवेद्ध्रुवम् ॥ ३५ ॥
शत्रवो दासतां यान्ति सर्वेषां वल्लभः सदा ॥ ३६ ॥
मृत्युश्च वश्यतां याति दासास्तस्यावनीभुजः ॥ ३७ ॥
प्रपठन्वा स्मरन्मर्त्यः शापानुग्रहणे क्षमः ॥ ३८ ॥
सर्ववागीश्वरो मर्त्यो लोकवश्यः सदा सुखी ॥ ३९ ॥
तत्रापि कवचं देवि दुर्लभं भुवनत्रये ॥ ४० ॥
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ॥ ४१ ॥
नाभौ ज्योतिस्तथा रक्तं हृदयोपरि चिन्तयेत् ॥ ४२ ॥
नित्यं तस्य महेशानि महिलासङ्गमं चरेत् ॥ ४३ ॥
शक्तियुक्तो भवेन्मर्त्यः सिद्धो भवति नान्यथा ॥ ४४ ॥
तं दृष्ट्वा साधकं देवि लज्जायुक्ता भवन्ति ते ॥ ४५ ॥
प्रशंसन्ति सदा देवि तं दृष्ट्वा साधकोत्तमम् ॥ ४६ ॥
प्रशंसन्ति सदा सर्वे तं दृष्ट्वा साधकोत्तमम् ॥ ४७ ॥
भुक्तिमुक्तिकरं साक्षात्कल्पवृक्षस्वरूपकम् ॥ ४८ ॥
मोहेनापि मदेन चापि रहितो जाड्येन वा युज्यते ।
सिद्धोऽसौ भुवि सर्वदुःखविपदां पारं प्रयात्यन्तके
मित्रं तस्य नृपाश्च देवि विपदो नश्यन्ति तस्याशु च ॥ ४९ ॥
तस्य गेहे स्थिरा लक्ष्मीर्वाणी वक्त्रे वसेद्ध्रुवम् ॥ ५० ॥
अल्पायुर्निर्धनो मूर्खो भवत्येव न संशयः ॥ ५१ ॥
तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्तते ॥ ५२ ॥
यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः ॥ ५३ ॥
सन्ध्यायां देवदेवेशि लिखेद्यन्त्रं समाहितः ॥ ५४ ॥
सिंहराशौ गते चन्द्रे कर्कटस्थे दिवाकरे ॥ ५५ ॥
लिखित्वा धारयेद्यस्तु उत्तराभिमुखो भवेत् ॥ ५६ ॥
निशायां वा लिखेन्मन्त्रं तस्य सिद्धिरचञ्चला ॥ ५७ ॥
ध्यान धारण योगेन धारयेद्यस्तु भक्तितः ।
अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा ॥ ५८ ॥
