Goddess Kali

ककारादि आद्या कालिकाशतनामावली

(Sri Kakaradi Adya Kalika Shatanama Namavali)

From Mahanirvana Tantra

Also known as shri kakaradi adya kalika shatanama namavali · shree kakaradi adya kalika shatanama namavali · kakaradi adya kalika shatanama namavali

A hundred names of Adya Kalika from the seventh chapter of the Mahanirvana Tantra, every one of them beginning with the letter ka, so that the list is described in its own title as made out of the ka-cluster of her mantra. Sadashiva speaks it, and the introductory verses give the reasons — the quieting of ill fortune, the increase of ease and of wealth, the turning aside of untimely death and of every calamity. The names themselves are gentler than the title leads one to expect. A long stretch of them is set in a kadamba forest: she wanders there and dwells there, is pleased by its flowers and garlanded with them, and is called a young girl, sweet-throated, and sounding a sweet note.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

#of 109
॥ श्रीककारकूटघटितं आद्या कालिकाशतनामावली ॥
॥ पूर्वपीठिका ॥
श्रीसदाशिव उवाच।
श‍ृणु देवि जगद्वन्द्ये स्तोत्रमेतदमुत्तमम् ।
पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥
असौभाग्य प्रशमनं सुखसम्पद्विवर्धनम् ।
अकालमृत्युहरणं सर्वापद्निवारणम् ॥
श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् ।
स्तवस्यास्य प्रसादेन त्रिपुरारिरहं प्रिये ॥
॥ विनियोगः ॥
ॐ अस्य ककारकूटघटितं श्रीआद्याकालिकाशतनामस्तोत्रमन्त्रस्य
श्रीसदाशिवऋषिः । अनुष्टुप्छन्दः । श्री आद्याकालिका देवता ।
धर्मकामार्थमोक्ष सिध्यर्थे जपे विनियोगः ॥
॥ नामावलिः ॥
श्रीकाल्यै नमः ।
श्रीकराल्यै नमः ।
श्रीकल्याण्यै नमः ।
श्रीकलावत्यै नमः ।
श्रीकमलायै नमः ।
श्रीकलिदर्पघ्न्यै नमः ।
श्रीकपर्दीशकृपान्वितायै नमः ।
श्रीकालिकायै नमः ।
श्रीकालमात्रे नमः ।
श्रीकालानलसमद्युतये नमः । १०
श्रीकपर्दिन्यै नमः ।
श्रीकरालास्यायै नमः ।
श्रीकरुणाऽमृतसागरायै नमः ।
श्रीकृपामय्यै नमः ।
श्रीकृपाधारायै नमः ।
श्रीकृपापारायै नमः ।
श्रीकृपागमायै नमः ।
श्रीकृशानवे नमः ।
श्रीकपिलायै नमः ।
श्रीकृष्णायै नमः । २०
श्रीकृष्णानन्दविवर्द्धिन्यै नमः ।
श्रीकालरात्र्यै नमः ।
श्रीकामरूपायै नमः ।
श्रीकामशापविमोचन्यै नमः ।
श्रीकादम्बिन्यै नमः ।
श्रीकलाधारायै नमः ।
श्रीकलिकल्मषनाशिन्यै नमः ।
श्रीकुमारीपूजनप्रीतायै नमः ।
श्रीकुमारीपूजकालयायै नमः ।
श्रीकुमारीभोजनानन्दायै नमः । ३०
श्रीकुमारीरूपधारिण्यै नमः ।
श्रीकदम्बवनसञ्चारायै नमः ।
श्रीकदम्बवनवासिन्यै नमः ।
श्रीकदम्बपुष्पसन्तोषायै नमः ।
श्रीकदम्बपुष्पमालिन्यै नमः ।
श्रीकिशोर्यै नमः ।
श्रीकलकण्ठायै नमः ।
श्रीकलनादनिनादिन्यै नमः ।
श्रीकादम्बरीपानरतायै नमः ।
श्रीकादम्बरीप्रियायै नमः । ४०
श्रीकपालपात्रनिरतायै नमः ।
श्रीकङ्कालमाल्यधारिण्यै नमः ।
श्रीकमलासनसन्तुष्टायै नमः ।
श्रीकमलासनवासिन्यै नमः ।
श्रीकमलालयमध्यस्थायै नमः ।
श्रीकमलामोदमोदिन्यै नमः ।
श्रीकलहंसगत्यै नमः ।
श्रीकलैव्यनाशिन्यै नमः ।
श्रीकामरूपिण्यै नमः ।
श्रीकामरूपकृतावासायै नमः । ५०
श्रीकामपीठविलासिन्यै नमः ।
श्रीकमनीयायै नमः ।
श्रीकल्पलतायै नमः ।
श्रीकमनीयविभूषणायै नमः ।
श्रीकमनीयगुणाराध्यायै नमः ।
श्रीकोमलाङ्ग्यै नमः ।
श्रीकृशोदर्यै नमः ।
श्रीकरणामृतसन्तोषायै नमः ।
श्रीकारणानन्दसिद्धिदायै नमः ।
श्रीकारणानन्दजापेष्टायै नमः । ६०
श्रीकारणार्चनहर्षितायै नमः ।
श्रीकारणार्णवसम्मग्नायै नमः ।
श्रीकारणव्रतपालिन्यै नमः ।
श्रीकस्तूरीसौरभामोदायै नमः ।
श्रीकस्तूरीतिलकोज्ज्वलायै नमः ।
श्रीकस्तूरीपूजनरतायै नमः ।
श्रीकस्तूरीपूजकप्रियायै नमः ।
श्रीकस्तूरीदाहजनन्यै नमः ।
श्रीकस्तूरीमृगतोषिण्यै नमः ।
श्रीकस्तूरीभोजनप्रीतायै नमः । ७०
श्रीकर्पूरामोदमोदितायै नमः ।
श्रीकर्पूरचन्दनोक्षितायै नमः ।
श्रीकर्पूरमालाऽऽभरणायै नमः ।
श्रीकर्पूरकारणाह्लादायै नमः ।
श्रीकर्पूरामृतपायिन्यै नमः ।
श्रीकर्पूरसागरस्नातायै नमः ।
श्रीकर्पूरसागरालयायै नमः ।
श्रीकूर्चबीजजपप्रीतायै नमः ।
श्रीकूर्चजापपरायणायै नमः ।
श्रीकुलीनायै नमः । ८०
श्रीकौलिकाराध्यायै नमः ।
श्रीकौलिकप्रियकारिण्यै नमः ।
श्रीकुलाचारायै नमः ।
श्रीकौतुकिन्यै नमः ।
श्रीकुलमार्गप्रदर्शिन्यै नमः ।
श्रीकाशीश्वर्यै नमः ।
श्रीकष्टहर्त्र्यै नमः ।
श्रीकाशीशवरदायिन्यै नमः ।
श्रीकाशीश्वरीकृतामोदायै नमः ।
श्रीकाशीश्वरमनोरमायै नमः । ९०
श्रीकलमञ्जीरचरणायै नमः ।
श्रीक्वणत्काञ्चीविभूषणायै नमः ।
श्रीकाञ्चनाद्रिकृताधारायै नमः ।
श्रीकाञ्चनाञ्चलकौमुद्यै नमः ।
श्रीकामबीजजपानन्दायै नमः ।
श्रीकामबिजस्वरूपिण्यै नमः ।
श्रीकुमतिघ्न्यै नमः ।
श्रीकुलीनार्तिनाशिन्यै नमः ।
श्रीकुलकामिन्यै नमः ।
श्रीक्रींह्रींश्रींमन्त्रवर्णेनकालकण्टकघातिन्यै नमः । १००
॥ इति महानिर्वाणतन्त्रे सप्तमोल्लासान्तर्गता श्रीककारकूटघटितं आद्या अथवा कालिका शतनामावली सम्पूर्णा ॥

Explore More