॥ श्री काली कवचम् (त्रैलोक्यविजयम्) ॥
॥ महानिर्वाण तंत्र - सप्तमोल्लासः ॥
छन्दोऽनुष्टुब्देवता च आद्याकाली प्रकीर्तिता ॥ १ ॥
क्रीं कीलकं काम्यसिद्धौ विनियोगः प्रकीर्तितः ॥ २ ॥
हृदयं क्रीं परा शक्तिः पायात्कण्ठं परात्परा ॥ ३ ॥
घ्राणं पातु महामाया रसनां सर्वमङ्गला ॥ ४ ॥
ओष्ठाधरौ क्षमा रक्षेच्चिबुकं चारुहासिनी ॥ ५ ॥
द्वौ बाहू बाहुदा रक्षेत्करौ कैवल्यदायिनी ॥ ६ ॥
पार्श्वे पायादपर्णा मे कटिं मे कमठासना ॥ ७ ॥
ऊरू रक्षतु कल्याणी पादौ मे पातु पार्वती ॥ ८ ॥
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन च ॥ ९ ॥
इति ते कथितं दिव्यं त्रैलोक्यविजयाभिधम् ॥ १० ॥
पूजाकाले पठेद्यस्तु आद्याधिकृतमानसः ॥ ११ ॥
मन्त्रसिद्धिर्भवेदाशु किङ्कराः क्षुद्रसिद्धयः ॥ १२ ॥
विद्यार्थी लभते विद्यां कामी कामानवाप्नुयात् ॥ १३ ॥
पुरश्चरणसम्पन्नं यथोक्तफलदं भवेत् ॥ १४ ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि ॥ १५ ॥
तस्याद्या कालिका वश्या वाञ्छितार्थं प्रयच्छति ॥ १६ ॥
अरोगी चिरजीवी स्याद्बलवान् धारणक्षमः ॥ १७ ॥
वशे तस्य महीपाला भोगमोक्षौ करस्थितौ ॥ १८ ॥
