Goddess Kali

श्री कालिका अर्गल स्तोत्रं

(Sri Kalika Argala Stotram by Bhairava Rishi)

Also known as shri kalika argala stotram by bhairava rishi · shree kalika argala stotram by bhairava rishi · kalika argala stotram by bhairava rishi

A bolt-hymn for Kali, made on the pattern of the one that accompanies the Durga Saptashati and serving the same purpose: it is one of three pieces meant to be recited together, with the pin-hymn and the armour, and the pin-hymn in this corpus says outright that a Kali armour read without these two leaves every mantra fruitless. Bhairava is named as its seer. The requests in it are direct and worldly — bring all living beings under my control, always — and several verses place the goddess within the reciter's own body in the manner of the kula rite, which the text states without circumlocution. Thirty-one units, closing on the promise that the reciter becomes a goer in the sky.

Read In:

Script: Devanagari (देवनागरी) — also the script of Hindi, Marathi, Nepali and Konkani.

॥ श्री गणेशाय नमः ॥
॥ श्री कालिका अर्गल स्तोत्रम् ॥
॥ विनियोग ॥
अस्य श्री कालिकार्गल स्तोत्रस्य भैरव ऋषिः अनुष्टुप् छन्दः
श्रीकालिका देवता मम सर्वसिद्धिसाधने विनियोगः ।
॥ अंग न्यास - शीर्ष ॥
ओं नमस्ते कालिके देवि आद्यबीजत्रय प्रिये ।
वशमानय मे नित्यं सर्वेषां प्राणिनां सदा ॥ १ ॥
कूर्चयुग्मं ललाटे च स्थातु मे शववाहिनी ।
सर्वसौभाग्यसिद्धिं च देहि दक्षिण कालिके ॥ २ ॥
भुवनेश्वरि बीजयुग्मं भ्रूयुगे मुण्डमालिनी ।
कन्दर्परूपं मे देहि महाकालस्य गेहिनि ॥ ३ ॥
दक्षिणे कालिके नित्ये पितृकाननवासिनि ।
नेत्रयुग्मं च मे देहि ज्योतिरालेपनं महत् ॥ ४ ॥
श्रवणे च पुनर्लज्जाबीजयुग्मं मनोहरम् ।
महाश्रुतिधरत्वं च मे देहि मुक्त कुन्तले ॥ ५ ॥
ह्रीं ह्रीं बीजद्वयं देवि पातु नासापुटे मम ।
देहि नानाविधिं मह्यं सुगन्धिं त्वं दिगम्बरे ॥ ६ ॥
॥ अंग न्यास - मुख ॥
पुनस्त्रिबीजप्रथमं दन्तोष्ठरसनादिकम् ।
गद्यपद्यमयीं वाणीं काव्यशास्त्राद्यलङ्कृताम् ॥ ७ ॥
अष्टादशपुराणानां स्मृतीनां घोरचण्डिके ।
कविता सिद्धिलहरीं मम जिह्वां निवेशय ॥ ८ ॥
वह्निजाया महादेवि घण्टिकायां स्थिरा भव ।
देहि मे परमेशानि बुद्धिसिद्धिरसायकम् ॥ ९ ॥
॥ अंग न्यास - हृदय ॥
तुर्याक्षरी चित्स्वरूपा कालिका मन्त्रसिद्धिदा ।
सा च तिष्ठतु हृत्पद्मे हृदयानन्दरूपिणी ॥ १० ॥
षडक्षरी महाकाली चण्डकाली शुचिस्मिता ।
रक्तासिनी घोरदंष्ट्रा भुजयुग्मे सदाऽवतु ॥ ११ ॥
सप्ताक्षरी महाकाली महाकालरतोद्यता ।
स्तनयुग्मे सूर्यकर्णो नरमुण्डसुकुन्तला ॥ १२ ॥
॥ अंग न्यास - मध्य ॥
तिष्ठ स्वजठरे देवि अष्टाक्षरी शुभप्रदा ।
पुत्रपौत्रकलत्रादि सुहृन्मित्राणि देहि मे ॥ १३ ॥
दशाक्षरी महाकाली महाकालप्रिया सदा ।
नाभौ तिष्ठतु कल्याणी श्मशानालयवासिनी ॥ १४ ॥
चतुर्दशार्णवा या च जयकाली सुलोचना ।
लिङ्गमध्ये च तिष्ठस्व रेतस्विनी ममाङ्गके ॥ १५ ॥
॥ अंग न्यास - अधः ॥
गुह्यमध्ये गुह्यकाली मम तिष्ठ कुलाङ्गने ।
सर्वाङ्गे भद्रकाली च तिष्ठ मे परमात्मिके ॥ १६ ॥
कालि पादयुगे तिष्ठ मम सर्वमुखे शिवे ।
कपालिनी च या शक्तिः खड्गमुण्डधरा शिवा ॥ १७ ॥
पादद्वयाङ्गुलिष्वङ्गे तिष्ठ स्वपापनाशिनि ।
कुल्लादेवी मुक्तकेशी रोमकूपेषु वै मम ॥ १८ ॥
॥ विविध शक्तियाँ ॥
तिष्ठतु उत्तमाङ्गे च कुरुकुल्ला महेश्वरी ।
विरोधिनी विरोधे च मम तिष्ठतु शङ्करी ॥ १९ ॥
विप्रचित्ते महेशानि मुण्डधारिणि तिष्ठ माम् ।
मार्गे दुर्मार्गगमने उग्रा तिष्ठतु सर्वदा ॥ २० ॥
प्रभादिक्षु विदिक्षु माम् दीप्तां दीप्तं करोतु माम् ।
नीलाशक्तिश्च पाताले घना चाकाशमण्डले ॥ २१ ॥
पातु शक्तिर्बलाका मे भुवं मे भुवनेश्वरी ।
मात्रा मम कुले पातु मुद्रा तिष्ठतु मन्दिरे ॥ २२ ॥
मिता मे योगिनी या च तथा मित्रकुलप्रदा ।
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ॥ २३ ॥
॥ अष्ट मातृकाएं ॥
ब्राह्मी ब्रह्मकुले तिष्ठ मम सर्वार्थदायिनी ।
नारायणी विष्णुमाया मोक्षद्वारे च तिष्ठ मे ॥ २४ ॥
माहेश्वरी वृषारूढा काशिकापुरवासिनी ।
शिवतां देहि चामुण्डे पुत्रपौत्रादि चानघे ॥ २५ ॥
कौमारी च कुमाराणां रक्षार्थं तिष्ठ मे सदा ।
अपराजिता विश्वरूपा जये तिष्ठ स्वभाविनी ॥ २६ ॥
वाराही वेदरूपा च सामवेदपरायणा ।
नारसिंही नृसिंहस्य वक्षःस्थलनिवासिनी ॥ २७ ॥
सा मे तिष्ठतु देवेशि पृथिव्यां दैत्यदारिणी ।
सर्वेषां स्थावरादीनां जङ्गमानां सुरेश्वरी ॥ २८ ॥
॥ फलश्रुति ॥
स्वेदजोद्भिजाण्डजानां चराणां च भयादिकम् ।
विनाश्याप्यभिमतिं च देहि दक्षिण कालिके ॥ २९ ॥
य इदं चार्गलं देवि यः पठेत्कालिकार्चने ।
सर्वसिद्धिमवाप्नोति खेचरो जायते तु सः ॥ ३० ॥
॥ इति श्री कालिका अर्गल स्तोत्रं सम्पूर्णम् ॥

Explore More