यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः ॥ १ ॥
स भवेत्पार्वतीपुत्रः सर्वशास्त्रेषु पारगः ।
विद्यार्थिना सदा सेव्या विशेषे विष्णुवल्लभा ॥ २ ॥
वाग्भवी देवता, वाग्भवं बीजं, लज्जा शक्तिः, रमा कीलकं, कामबीजात्मकं कवचं,
मम सुपाण्डित्य कवित्व सर्वसिद्धिसमृद्धये जपे विनियोगः ॥
ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १ ॥
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २ ॥
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३ ॥
सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ४ ॥
सन्धिं पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ५ ॥
रमा पातु सदा देवी पातु माया स्वराट् स्वयम् ॥ ६ ॥
विजया पातु भवने जया पातु सदा मम ॥ ७ ॥
भैरवी पातु सर्वत्र भैरुण्डा सर्वदाऽवतु ॥ ८ ॥
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ ९ ॥
योगिन्यः सर्वदा पान्तु मुद्राः पान्तु सदा मम ॥ १० ॥
सर्वत्र सर्वकार्येषु सर्वकर्मसु सर्वदा ॥ ११ ॥
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ॥ १२ ॥
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥ १३ ॥
न स्तवं दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् ॥ १४ ॥
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ॥ १५ ॥
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ॥ १६ ॥
स्वशुक्रैः परशुक्रैश्च नानागन्धसमन्वितैः ॥ १७ ॥
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने ॥ १८ ॥ (रविवार)
पूर्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ॥ १९ ॥ (मंगलवार)
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ॥ २० ॥
कौलवे बालवे चैव वणिजे चैव सत्तमः ॥ २१ ॥
कुमारीं पूजयित्वादौ यजेद्देवीं सनातनीम् ॥ २२ ॥
घृताद्यैः सोपकरणैः पूपसूपैर्विशेषतः ॥ २३ ॥
बहुना किमिहोक्तेन कृते त्वेवं दिनत्रयम् ॥ २४ ॥
मारणद्वेषणादीनि लभते नात्र संशयः ॥ २५ ॥
गुरुर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ॥ २६ ॥
सर्वदेवमयीं देवीं सर्वमन्त्रमयीं तथा ॥ २७ ॥
रक्तपुष्पैस्तथा गन्धैर्वस्त्रालङ्करणैस्तथा ॥ २८ ॥
नारी वा पुरुषो वापि यः पठेत्कवचं शुभम् ।
मन्त्रसिद्धिः कार्यसिद्धिर्लभते नात्र संशयः ॥ २९ ॥
जपफलमनुमेयं लप्स्यते यद्विधेयम् ।
स भवति पदमुच्चैः सम्पदां पादनम्रः
क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥ ३० ॥
