श्रीशिव ऋषिः ।
जगती छन्दः ।
श्रीमहावाराही देवता ।
ग्लौँ बीजम् ।
ऐँ शक्तिः ।
ठः ठः ठः ठः कीलकम् ।
श्रीमहावाराही प्रीतये जपे विनियोगः ॥
जगतीछन्दसे नमः मुखे ।
श्रीमहावाराहीदेवतायै नमः हृदि ।
ग्लौं बीजाय नमः गुह्ये ।
ऐं शक्तये नमः पादयोः ।
ठः ठः ठः ठः कीलकाय नमः नाभौ ।
श्रीमहावाराहीप्रीतये स्तोत्रपारायणे विनियोगाय नमः सर्वाङ्गे ।
ॐ वाराही वाराही तर्जनीभ्यां नमः ।
ॐ वराहमुखि वराहमुखि मध्यमाभ्यां नमः ।
ॐ अन्धे अन्धिनि नमः अनामिकाभ्यां नमः ।
ॐ रुन्धे रुन्धिनि नमः कनिष्ठिकाभ्यां नमः ।
ॐ जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐँ ग्लौँ ठः ठः ठः ठः हुँ अस्त्राय फट् करतलकरपृष्ठाभ्यां नमः ।
ॐ वाराही वाराही शिरसे स्वाहा ।
ॐ वराहमुखि वराहमुखि शिखायै वषट् ।
ॐ अन्धे अन्धिनि नमः कवचाय हुँ ।
ॐ रुन्धे रुन्धिनि नमः नेत्रत्रयाय वौषट् ।
ॐ जम्भे जम्भिनि नमः मोहे मोहिनि नमः स्तम्भे स्तम्भिनि नमः सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐँ ग्लौँ ठः ठः ठः ठः हुँ अस्त्राय फट् अस्त्राय फट् ।
हाराग्रैवेयतुङ्गस्तनभरनमितां पीतकैशेयवस्त्राम् ॥
वामाभ्यां धारयन्तीं कुवलयकलितां श्यामलां सुप्रसन्नाम् ॥
दण्डनाथायै धीमहि ।
तन्नो अर्घ्नि प्रचोदयात् ॥
कोलस्या च महारौद्री वज्रतुण्डधारिणी ॥ १ ॥
रुद्ररूपमहाघोरा घोररूपा भयङ्करी ॥ २ ॥
तीक्ष्णसिन्धूरसङ्काशा जपाकुसुमसन्निभा ।
यौवनस्था मदोन्मत्ता तुङ्गपीनपयोधरा ॥ ३ ॥
नेत्रत्रया रक्तघोराक्षी दंष्ट्राकरालभासुरा ॥ ४ ॥
दक्षिणे च हलं धृत्वा मुसलं वामकरे ॥ ५ ॥
रक्ताम्भोजासना देवी प्रेतस्योपरिसंस्थिता ॥ ६ ॥
मद्यमांसप्रिया देवी मदिरानन्दवन्दिता ॥ ७ ॥
त्रिकोणाख्यमहाचक्रे संस्थिता विश्वयोगिनी ॥ ८ ॥
अन्धिनी रुन्धिनी चैव जम्भिनी मोहिनी तथा ॥ ९ ॥
बाह्यषट्कोणचक्रे च शृङ्गमध्ये तु पूजिता ॥ १० ॥
भक्षिणी त्वच्कर्माणि सर्वाणि क्षयकारिणी ॥ ११ ॥
पश्चिमे कोणमासाद्य लाकिनी मांसभक्षिणी ॥ १२ ॥
पूर्वकोणे तु साकिन्या मेदोधातुं च गृह्णति ॥ १३ ॥
याकिनी कुसुमालिन्या षडश्रपुरमध्यगा ॥ १४ ॥
इदं देव्या समाराध्य निग्रहानुग्रहात्मनि ॥ १५ ॥
मारणोच्चाटनकरी देवी कृष्णवर्णसुतेजसा ॥ १६ ॥
खड्गं चक्रं च मुसलं वरदं दक्षिणे करे ॥ १७ ॥
मारणे सर्वभूतानां सर्वशत्रुक्षयङ्करी ॥ १८ ॥
बन्धनी रोदनी चैव कृष्णानलसमन्निभा ॥ १९ ॥
सर्वकार्येषु रक्ताङ्गी सङ्ग्रामे कृष्णरूपधृक् ॥ २० ॥
आहवेषु च सर्वेषां निरष्टाहाररूपिणी ॥ २१ ॥
तुण्डप्रहारसम्पूर्णा घोरघुत्कारनादिनी ॥ २२ ॥
रुधिरपानपीत्वा च मदाघूर्णितलोचना ॥ २३ ॥
स्मरणात्सर्वसङ्कटहरा ॥ २४ ॥
