ईशोऽप्यमीश्वरपदं समुपैति तादृक् कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १ ॥
यल्लेशलम्बितभवाम्बुनिधिर्यतोऽयत् त्वन्नामसंस्मृतिरियं न नुनः स्तुतिस्ते ॥ २ ॥
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३ ॥
चेतो नतौ मम सदा प्रतिबिम्बिता त्वं भूया भवानी भवनाशिनि भावये त्वाम् ॥ ४ ॥
प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा हरस्य ॥ ५ ॥
चक्रायुधां त्रिनयनां वरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६ ॥
देवासुरोरगनृपूजितपादपीठः कस्याः श्रियः स खलु भाजनतां न धत्ते ॥ ७ ॥
किं दुर्भरं त्वयि सकृत् स्मृतिमागतायां किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ ८ ॥
