भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥ १ ॥
घोररूपाय महते युगान्तकरणाय च ॥ २ ॥
सहस्रोदरपादाय सहस्रनयनाय च ॥ ३ ॥
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥ ४ ॥
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥ ५ ॥
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥ ६ ॥
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥ ७ ॥
सम्राडुग्रे सङ्कृतये विरजे सम्भवे भवे ॥ ८ ॥
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥ ९ ॥
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥ १० ॥
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥ ११ ॥
बृहदुक्थ्यसुषेणाय युग्मे दुन्दुभये तथा ॥ १२ ॥
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥ १३ ॥
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥ १४ ॥
श्रीपद्मायात्मसदृशे धरणीधारणे परे ॥ १५ ॥
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥ १६ ॥
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥ १७ ॥
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे ॥ १८ ॥
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे ॥ १९ ॥
शरणाय शरण्याय भक्तेष्टशरणाय च ॥ २० ॥
पाहि मां देवदेवेश कोऽप्यजोऽसि सनातनः ॥ २१ ॥
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत ॥ २३ ॥
