ऋग्वेदोरुयुगा युजःसुजघना या सामवेदोदरा ।
तर्कन्यायकुचा श्रुतिस्मृतियुक् काव्यादिवेदानना
वेदान्तामृतलोचना भगवती श्रीराजराजेश्वरी ॥ १ ॥
पश्यन्तीत्यनु मध्यमा विलसती श्रीवैखरीरूपिणी ।
आत्मानात्मविचारिणी त्रिनयना विद्यावती भारती
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ २ ॥
पूर्णा पूर्णतरा परेशमहिषी पूर्णामृतास्वादिनी ।
सम्पूर्णा परमोत्तमामृतकला विद्यावती भारती
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ३ ॥
चैतन्यात्मकएकचक्ररचिता चक्राङ्गएकाकिनी ।
भावाभावविभाविनी भयहरा सद्भक्तचिन्तामणिः
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ४ ॥
साक्षात्कारणदतवंशकलिता दीर्घातिदीर्घेश्वरी ।
भद्रा भद्र वरप्रदा भगवती भद्रेश्वरी भद्रदा
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ५ ॥
ब्रह्मानन्दघनोदरी गुणवती ज्ञानेश्वरी ज्ञानदा ।
इच्छाज्ञानक्रियावती जितवती गन्धर्वसंसेविता
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ६ ॥
हुङ्कारप्रियशब्दब्रह्म निरता स्वारस्वतोल्लासिनी ।
सारासारविचारचारुचरिता वर्णाश्रमाकारिणी
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ७ ॥
सर्वान्तर्गतशालिनी शिवतनूसन्दीपिणी दीपिनी ।
संयोगप्रियरूपिणी प्रियवती प्रीता प्रतापोन्नता
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ८ ॥
कारुण्यावधि सर्वकर्मनिरता सिन्धुप्रिया शालिनी ।
पूर्णब्रह्मसनातनान्तरगता ज्ञेया स्वयोगात्मिका
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ९ ॥
हाराद्याभरणा सुरन्द्र विनुता शृङ्गाटपीठालया ।
योन्याकारकयोनिमुद्रितकरा नित्यं सुवर्णात्मिका
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १० ॥
लाक्षारञ्जितपद्मपाद युगला ब्रह्माण्डसंसेविता ।
लोकालोकितलोककामजयिनी लोकाश्रयाकाश्रया
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ ११ ॥
माङ्गल्यायुतपङ्कजाभनयनामाइग्ल्यसिद्धिप्रदा ।
तारुण्यात्तपसार्चिता तरुणिका तन्त्रोपमातन्विता
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १२ ॥
सत्या सर्वमयी सहस्र दलगा सप्तार्णवोपस्थिता ।
सङ्गासङ्ग विवर्जिता सुखकरी बालार्ककोटिप्रभा
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १३ ॥
सूर्येन्द्वग्निमयैकपीठानलया चिन्मात्रकौलेश्वरी ।
गोप्त्री गुर्विणिगर्विता गगनगा गङगा गणेशप्रिया
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १४ ॥
नानारत्नविचित्रचित्ररचिता चातुर्यचिन्तामणिः ।
चित्तानन्दविधायिनी सुविपुला कोटित्रयीश्यम्बिका
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १५ ॥
वामाचारपरायणा सु-मुकुटा बीजावती मुद्रिणी ।
कामाक्षी करुणाविचित्ररचिता श्री श्री त्रिमूर्त्यात्मिका
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १६ ॥
जम्बीरोत्पलकर्णशोभतमुखा जम्बूफल श्रीकुचा ।
नानारत्नकिरीटदीप्तिलसिता प्रत्यक्षदीक्षात्मिका
श्रीचक्रप्रियबिन्दुतर्पणपरा श्रीराजराजेश्वरी ॥ १७ ॥
हाद ध्वान्तमपास्य सिक्षणपि तद्धयान मात्रा दृशा ।
यत्सद्वादनुभाति सर्वमुदितं भानुं यथा पद्मिनी
प्रत्यग्दाम नमाम तत्तव वपुः श्रीराजराजेश्वरी ॥ १८ ॥
